← Canto 7

Canto 7, Chapter 4

Shloka 1

श्रीनारद उवाच एवं वृत: शतधृतिर्हिरण्यकशिपोरथ । प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ १ ॥

śrī-nārada uvācaevaṁ vṛtaḥ śata-dhṛtirhiraṇyakaśipor athaprādāt tat-tapasā prītovarāṁs tasya sudurlabhān

Shloka 2

श्रीब्रह्मोवाचतातेमे दुर्लभा: पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् ॥ २ ॥

śrī-brahmovācatāteme durlabhāḥ puṁsāṁyān vṛṇīṣe varān mamatathāpi vitarāmy aṅgavarān yadyapi durlabhān

Shloka 3

ततो जगाम भगवानमोघानुग्रहो विभु: । पूजितोऽसुरवर्येण स्तूयमान: प्रजेश्वरै: ॥ ३ ॥

tato jagāma bhagavānamoghānugraho vibhuḥpūjito ’sura-varyeṇastūyamānaḥ prajeśvaraiḥ

Shloka 4

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपु: । भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥

evaṁ labdha-varo daityobibhrad dhemamayaṁ vapuḥbhagavaty akarod dveṣaṁbhrātur vadham anusmaran

Shloka 5-7

स विजित्य दिश: सर्वा लोकांश्च त्रीन् महासुर: । देवासुरमनुष्येन्द्रगन्धर्वगरुडोरगान् ॥ ५ ॥ सिद्धचारणविद्याध्रानृषीन् पितृपतीन्मनून् । यक्षरक्ष:पिशाचेशान् प्रेतभूतपतीनपि ॥ ६ ॥ सर्वसत्त्वपतीञ्जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥

sa vijitya diśaḥ sarvālokāṁś ca trīn mahāsuraḥdevāsura-manuṣyendra-gandharva-garuḍoragān

Shloka 8

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ ८ ॥

devodyāna-śriyā juṣṭamadhyāste sma tri-piṣṭapammahendra-bhavanaṁ sākṣānnirmitaṁ viśvakarmaṇātrailokya-lakṣmy-āyatanamadhyuvāsākhilarddhimat

Shloka 9-12

यत्र विद्रुमसोपाना महामारकता भुव: । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तय: ॥ ९ ॥ यत्र चित्रवितानानि पद्मरागासनानि च । पय:फेननिभा: शय्या मुक्तादामपरिच्छदा: ॥ १० ॥ कूजद्भ‍िर्नूपुरैर्देव्य: शब्दयन्त्य इतस्तत: । रत्नस्थलीषु पश्यन्ति सुदती: सुन्दरं मुखम् ॥ ११ ॥ तस्मिन्महेन्द्रभवने महाबलोमहामना निर्जितलोक एकराट् । रेमेऽभिवन्द्याङ्‌घ्रियुग: सुरादिभि:प्रतापितैरूर्जितचण्डशासन: ॥ १२ ॥

yatra vidruma-sopānāmahā-mārakatā bhuvaḥyatra sphāṭika-kuḍyānivaidūrya-stambha-paṅktayaḥ

Shloka 13

तमङ्ग मत्तं मधुनोरुगन्धिनाविवृत्तताम्राक्षमशेषधिष्ण्यपा: । उपासतोपायनपाणिभिर्विनात्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥

tam aṅga mattaṁ madhunoru-gandhināvivṛtta-tāmrākṣam aśeṣa-dhiṣṇya-pāḥupāsatopāyana-pāṇibhir vinātribhis tapo-yoga-balaujasāṁ padam

Shloka 14

जगुर्महेन्द्रासनमोजसा स्थितंविश्वावसुस्तुम्बुरुरस्मदादय: । गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहु-र्विद्याधराश्चाप्सरसश्च पाण्डव ॥ १४ ॥

jagur mahendrāsanam ojasā sthitaṁviśvāvasus tumburur asmad-ādayaḥgandharva-siddhā ṛṣayo ’stuvan muhurvidyādharāś cāpsarasaś ca pāṇḍava

Shloka 15

स एव वर्णाश्रमिभि: क्रतुभिर्भूरिदक्षिणै: । इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा ॥ १५ ॥

sa eva varṇāśramibhiḥkratubhir bhūri-dakṣiṇaiḥijyamāno havir-bhāgānagrahīt svena tejasā

Shloka 16

अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभ: ॥ १६ ॥

akṛṣṭa-pacyā tasyāsītsapta-dvīpavatī mahītathā kāma-dughā gāvonānāścarya-padaṁ nabhaḥ

Shloka 17

रत्नाकराश्च रत्नौघांस्तत्पत्‍न्यश्चोहुरूर्मिभि: । क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदका: ॥ १७ ॥

ratnākarāś ca ratnaughāṁstat-patnyaś cohur ūrmibhiḥkṣāra-sīdhu-ghṛta-kṣaudra-dadhi-kṣīrāmṛtodakāḥ

Shloka 18

शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमा: । दधार लोकपालानामेक एव पृथग्गुणान् ॥ १८ ॥

śailā droṇībhir ākrīḍaṁsarvartuṣu guṇān drumāḥdadhāra loka-pālānāmeka eva pṛthag guṇān

Shloka 19

स इत्थं निर्जितककुबेकराड् विषयान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रिय: ॥ १९ ॥

sa itthaṁ nirjita-kakubeka-rāḍ viṣayān priyānyathopajoṣaṁ bhuñjānonātṛpyad ajitendriyaḥ

Shloka 20

एवमैश्वर्यमत्तस्य द‍ृप्तस्योच्छास्त्रवर्तिन: । कालो महान् व्यतीयाय ब्रह्मशापमुपेयुष: ॥ २० ॥

evam aiśvarya-mattasyadṛptasyocchāstra-vartinaḥkālo mahān vyatīyāyabrahma-śāpam upeyuṣaḥ

Shloka 21

तस्योग्रदण्डसंविग्ना: सर्वे लोका: सपालका: । अन्यत्रालब्धशरणा: शरणं ययुरच्युतम् ॥ २१ ॥

tasyogra-daṇḍa-saṁvignāḥsarve lokāḥ sapālakāḥanyatrālabdha-śaraṇāḥśaraṇaṁ yayur acyutam

Shloka 22-23

तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वर: । यद्गत्वा न निवर्तन्ते शान्ता: संन्यासिनोऽमला: ॥ २२ ॥ इति ते संयतात्मान: समाहितधियोऽमला: । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजना: ॥ २३ ॥

tasyai namo ’stu kāṣṭhāyaiyatrātmā harir īśvaraḥyad gatvā na nivartanteśāntāḥ sannyāsino ’malāḥ

Shloka 24

तेषामाविरभूद्वाणी अरूपा मेघनि:स्वना । सन्नादयन्ती ककुभ: साधूनामभयङ्करी ॥ २४ ॥

teṣām āvirabhūd vāṇīarūpā megha-niḥsvanāsannādayantī kakubhaḥsādhūnām abhayaṅkarī

Shloka 25-26

मा भैष्ट विबुधश्रेष्ठा: सर्वेषां भद्रमस्तु व: । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥ ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥

mā bhaiṣṭa vibudha-śreṣṭhāḥsarveṣāṁ bhadram astu vaḥmad-darśanaṁ hi bhūtānāṁsarva-śreyopapattaye

Shloka 27

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेष: स वा आशु विनश्यति ॥ २७ ॥

yadā deveṣu vedeṣugoṣu vipreṣu sādhuṣudharme mayi ca vidveṣaḥsa vā āśu vinaśyati

Shloka 28

निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २८ ॥

nirvairāya praśāntāyasva-sutāya mahātmaneprahrādāya yadā druhyeddhaniṣye ’pi varorjitam

Shloka 29

श्रीनारद उवाच इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकस: । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥

śrī-nārada uvācaity uktā loka-guruṇātaṁ praṇamya divaukasaḥnyavartanta gatodvegāmenire cāsuraṁ hatam

Shloka 30

तस्य दैत्यपते: पुत्राश्चत्वार: परमाद्भ‍ुता: । प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासक: ॥ ३० ॥

tasya daitya-pateḥ putrāścatvāraḥ paramādbhutāḥprahrādo ’bhūn mahāṁs teṣāṁguṇair mahad-upāsakaḥ

Shloka 31-32

ब्रह्मण्य: शीलसम्पन्न: सत्यसन्धो जितेन्द्रिय: । आत्मवत्सर्वभूतानामेकप्रियसुहृत्तम: । दासवत्सन्नतार्याङ्‌घ्रि: पितृवद्दीनवत्सल: ॥ ३१ ॥ भ्रातृवत्सद‍ृशे स्निग्धो गुरुष्वीश्वरभावन: । विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जित: ॥ ३२ ॥

brahmaṇyaḥ śīla-sampannaḥsatya-sandho jitendriyaḥātmavat sarva-bhūtānāmeka-priya-suhṛttamaḥ

Shloka 33

नोद्विग्नचित्तो व्यसनेषु नि:स्पृह:श्रुतेषु द‍ृष्टेषु गुणेष्ववस्तुद‍ृक् । दान्तेन्द्रियप्राणशरीरधी: सदाप्रशान्तकामो रहितासुरोऽसुर: ॥ ३३ ॥

nodvigna-citto vyasaneṣu niḥspṛhaḥśruteṣu dṛṣṭeṣu guṇeṣv avastu-dṛkdāntendriya-prāṇa-śarīra-dhīḥ sadāpraśānta-kāmo rahitāsuro ’suraḥ

Shloka 34

यस्मिन्महद्गुणा राजन्गृह्यन्ते कविभिर्मुहु: । न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥

yasmin mahad-guṇā rājangṛhyante kavibhir muhuḥna te ’dhunā pidhīyanteyathā bhagavatīśvare

Shloka 35

यं साधुगाथासदसि रिपवोऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवाद‍ृशा: ॥ ३५ ॥

yaṁ sādhu-gāthā-sadasiripavo ’pi surā nṛpapratimānaṁ prakurvantikim utānye bhavādṛśāḥ

Shloka 36

गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रति: ॥ ३६ ॥

guṇair alam asaṅkhyeyairmāhātmyaṁ tasya sūcyatevāsudeve bhagavatiyasya naisargikī ratiḥ

Shloka 37

न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीद‍ृशम् ॥ ३७ ॥

nyasta-krīḍanako bālojaḍavat tan-manastayākṛṣṇa-graha-gṛhītātmāna veda jagad īdṛśam

Shloka 38

आसीन: पर्यटन्नश्नन् शयान: प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भित: ॥ ३८ ॥

āsīnaḥ paryaṭann aśnanśayānaḥ prapiban bruvannānusandhatta etānigovinda-parirambhitaḥ

Shloka 39

क्‍वचिद्रुदति वैकुण्ठचिन्ताशबलचेतन: । क्‍वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्‍वचित् ॥ ३९ ॥

kvacid rudati vaikuṇṭha-cintā-śabala-cetanaḥkvacid dhasati tac-cintā-hlāda udgāyati kvacit

Shloka 40

नदति क्‍वचिदुत्कण्ठो विलज्जो नृत्यति क्‍वचित् । क्‍वचित्तद्भ‍ावनायुक्तस्तन्मयोऽनुचकार ह ॥ ४० ॥

nadati kvacid utkaṇṭhovilajjo nṛtyati kvacitkvacit tad-bhāvanā-yuktastanmayo ’nucakāra ha

Shloka 41

क्‍वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृत: । अस्पन्दप्रणयानन्दसलिलामीलितेक्षण: ॥ ४१ ॥

kvacid utpulakas tūṣṇīmāste saṁsparśa-nirvṛtaḥaspanda-praṇayānanda-salilāmīlitekṣaṇaḥ

Shloka 42

स उत्तमश्लोकपदारविन्दयो-र्निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहु-र्दु:सङ्गदीनस्य मन: शमं व्यधात् ॥ ४२ ॥

sa uttama-śloka-padāravindayorniṣevayākiñcana-saṅga-labdhayātanvan parāṁ nirvṛtim ātmano muhurduḥsaṅga-dīnasya manaḥ śamaṁ vyadhāt

Shloka 43

तस्मिन्महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ ४३ ॥

tasmin mahā-bhāgavatemahā-bhāge mahātmanihiraṇyakaśipū rājannakarod agham ātmaje

Shloka 44

श्रीयुधिष्ठिर उवाच देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् ॥ ४४ ॥

śrī-yudhiṣṭhira uvācadevarṣa etad icchāmovedituṁ tava suvratayad ātmajāya śuddhāyapitādāt sādhave hy agham

Shloka 45

पुत्रान् विप्रतिकूलान् स्वान् पितर: पुत्रवत्सला: । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥

putrān vipratikūlān svānpitaraḥ putra-vatsalāḥupālabhante śikṣārthaṁnaivāgham aparo yathā

Shloka 46

किमुतानुवशान् साधूंस्ताद‍ृशान् गुरुदेवतान् । एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो । पितु: पुत्राय यद्‌द्वेषो मरणाय प्रयोजित: ॥ ४६ ॥

kim utānuvaśān sādhūṁstādṛśān guru-devatānetat kautūhalaṁ brahmannasmākaṁ vidhama prabhopituḥ putrāya yad dveṣomaraṇāya prayojitaḥ

← PrevNext →