Canto 7, Chapter 6
श्रीप्रह्राद उवाच कौमार आचरेत्प्राज्ञो धर्मान्भागवतानिह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥
śrī-prahrāda uvācakaumāra ācaret prājñodharmān bhāgavatān ihadurlabhaṁ mānuṣaṁ janmatad apy adhruvam arthadam
यथा हि पुरुषस्येह विष्णो: पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वर: सुहृत् ॥ २ ॥
yathā hi puruṣasyehaviṣṇoḥ pādopasarpaṇamyad eṣa sarva-bhūtānāṁpriya ātmeśvaraḥ suhṛt
सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद्यथा दु:खमयत्नत: ॥ ३ ॥
sukham aindriyakaṁ daityādeha-yogena dehināmsarvatra labhyate daivādyathā duḥkham ayatnataḥ
तत्प्रयासो न कर्तव्यो यत आयुर्व्यय: परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥
tat-prayāso na kartavyoyata āyur-vyayaḥ paramna tathā vindate kṣemaṁmukunda-caraṇāmbujam
ततो यतेत कुशल: क्षेमाय भवमाश्रित: । शरीरं पौरुषं यावन्न विपद्येत पुष्कलम् ॥ ५ ॥
tato yateta kuśalaḥkṣemāya bhavam āśritaḥśarīraṁ pauruṣaṁ yāvanna vipadyeta puṣkalam
पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मन: । निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तम: ॥ ६ ॥
puṁso varṣa-śataṁ hy āyustad-ardhaṁ cājitātmanaḥniṣphalaṁ yad asau rātryāṁśete ’ndhaṁ prāpitas tamaḥ
मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशति: । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशति: ॥ ७ ॥
mugdhasya bālye kaiśorekrīḍato yāti viṁśatiḥjarayā grasta-dehasyayāty akalpasya viṁśatiḥ
दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥
durāpūreṇa kāmenamohena ca balīyasāśeṣaṁ gṛheṣu saktasyapramattasyāpayāti hi
को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रिय: । स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥ ९ ॥
ko gṛheṣu pumān saktamātmānam ajitendriyaḥsneha-pāśair dṛḍhair baddhamutsaheta vimocitum
को न्वर्थतृष्णां विसृजेत्प्राणेभ्योऽपि य ईप्सित: । यं क्रीणात्यसुभि: प्रेष्ठैस्तस्कर: सेवको वणिक् ॥ १० ॥
ko nv artha-tṛṣṇāṁ visṛjetprāṇebhyo ’pi ya īpsitaḥyaṁ krīṇāty asubhiḥ preṣṭhaistaskaraḥ sevako vaṇik
कथं प्रियाया अनुकम्पिताया:सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । सुहृत्सु तत्स्नेहसित: शिशूनांकलाक्षराणामनुरक्तचित्त: ॥ ११ ॥ पुत्रान्स्मरंस्ता दुहितृर्हृदय्याभ्रातृन् स्वसृर्वा पितरौ च दीनौ । गृहान् मनोज्ञोरुपरिच्छदांश्चवृत्तीश्च कुल्या: पशुभृत्यवर्गान् ॥ १२ ॥ त्यजेत कोशस्कृदिवेहमान:कर्माणि लोभादवितृप्तकाम: । औपस्थ्यजैह्वं बहुमन्यमान:कथं विरज्येत दुरन्तमोह: ॥ १३ ॥
kathaṁ priyāyā anukampitāyāḥsaṅgaṁ rahasyaṁ rucirāṁś ca mantrānsuhṛtsu tat-sneha-sitaḥ śiśūnāṁkalākṣarāṇām anurakta-cittaḥ
कुटुम्बपोषाय वियन्निजायुर्न बुध्यतेऽर्थं विहतं प्रमत्त: । सर्वत्र तापत्रयदु:खितात्मानिर्विद्यते न स्वकुटुम्बराम: ॥ १४ ॥
kuṭumba-poṣāya viyan nijāyurna budhyate ’rthaṁ vihataṁ pramattaḥsarvatra tāpa-traya-duḥkhitātmānirvidyate na sva-kuṭumba-rāmaḥ
वित्तेषु नित्याभिनिविष्टचेताविद्वांश्च दोषं परवित्तहर्तु: । प्रेत्येह वाथाप्यजितेन्द्रियस्त-दशान्तकामो हरते कुटुम्बी ॥ १५ ॥
vitteṣu nityābhiniviṣṭa-cetāvidvāṁś ca doṣaṁ para-vitta-hartuḥpretyeha vāthāpy ajitendriyas tadaśānta-kāmo harate kuṭumbī
विद्वानपीत्थं दनुजा: कुटुम्बंपुष्णन्स्वलोकाय न कल्पते वै । य: स्वीयपारक्यविभिन्नभाव-स्तम: प्रपद्येत यथा विमूढ: ॥ १६ ॥
vidvān apītthaṁ danujāḥ kuṭumbaṁpuṣṇan sva-lokāya na kalpate vaiyaḥ svīya-pārakya-vibhinna-bhāvastamaḥ prapadyeta yathā vimūḍhaḥ
यतो न कश्चित् क्व च कुत्रचिद् वादीन: स्वमात्मानमलं समर्थ: । विमोचितुं कामदृशां विहार-क्रीडामृगो यन्निगडो विसर्ग: ॥ १७ ॥ ततो विदूरात् परिहृत्य दैत्यादैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणमादिदेवंस मुक्तसङ्गैरिषितोऽपवर्ग: ॥ १८ ॥
yato na kaścit kva ca kutracid vādīnaḥ svam ātmānam alaṁ samarthaḥvimocituṁ kāma-dṛśāṁ vihāra-krīḍā-mṛgo yan-nigaḍo visargaḥ
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजा: । आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वत: ॥ १९ ॥
na hy acyutaṁ prīṇayatobahv-āyāso ’surātmajāḥātmatvāt sarva-bhūtānāṁsiddhatvād iha sarvataḥ
परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥ गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवानीश्वरोऽव्यय: ॥ २१ ॥ प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्योऽविकल्पित: ॥ २२ ॥ केवलानुभवानन्दस्वरूप: परमेश्वर: । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥
parāvareṣu bhūteṣubrahmānta-sthāvarādiṣubhautikeṣu vikāreṣubhūteṣv atha mahatsu ca
तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् । भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षज: ॥ २४ ॥
tasmāt sarveṣu bhūteṣudayāṁ kuruta sauhṛdambhāvam āsuram unmucyayayā tuṣyaty adhokṣajaḥ
तुष्टे च तत्र किमलभ्यमनन्त आद्येकिं तैर्गुणव्यतिकरादिह ये स्वसिद्धा: । धर्मादय: किमगुणेन च काङ्क्षितेनसारं जुषां चरणयोरुपगायतां न: ॥ २५ ॥
tuṣṭe ca tatra kim alabhyam ananta ādyekiṁ tair guṇa-vyatikarād iha ye sva-siddhāḥdharmādayaḥ kim aguṇena ca kāṅkṣitenasāraṁ juṣāṁ caraṇayor upagāyatāṁ naḥ
धर्मार्थकाम इति योऽभिहितस्त्रिवर्गईक्षा त्रयी नयदमौ विविधा च वार्ता । मन्ये तदेतदखिलं निगमस्य सत्यंस्वात्मार्पणं स्वसुहृद: परमस्य पुंस: ॥ २६ ॥
dharmārtha-kāma iti yo ’bhihitas tri-vargaīkṣā trayī naya-damau vividhā ca vārtāmanye tad etad akhilaṁ nigamasya satyaṁsvātmārpaṇaṁ sva-suhṛdaḥ paramasya puṁsaḥ
ज्ञानं तदेतदमलं दुरवापमाहनारायणो नरसख: किल नारदाय । एकान्तिनां भगवतस्तदकिञ्चनानांपादारविन्दरजसाप्लुतदेहिनां स्यात् ॥ २७ ॥
jñānaṁ tad etad amalaṁ duravāpam āhanārāyaṇo nara-sakhaḥ kila nāradāyaekāntināṁ bhagavatas tad akiñcanānāṁpādāravinda-rajasāpluta-dehināṁ syāt
श्रुतमेतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् । धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥ २८ ॥
śrutam etan mayā pūrvaṁjñānaṁ vijñāna-saṁyutamdharmaṁ bhāgavataṁ śuddhaṁnāradād deva-darśanāt
श्रीदैत्यपुत्रा ऊचु: प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् । एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥ बालस्यान्त:पुरस्थस्य महत्सङ्गो दुरन्वय: । छिन्धि न: संशयं सौम्य स्याच्चेद्विस्रम्भकारणम् ॥ ३० ॥
śrī-daitya-putrā ūcuḥprahrāda tvaṁ vayaṁ cāpinarte ’nyaṁ vidmahe gurumetābhyāṁ guru-putrābhyāṁbālānām api hīśvarau