Canto 8, Chapter 2
श्रीशुक उवाच आसीद् गिरिवरो राजंस्त्रिकूट इति विश्रुत: । क्षीरोदेनावृत: श्रीमान्योजनायुतमुच्छ्रित: ॥ १ ॥
śrī-śuka uvācaāsīd girivaro rājaṁstrikūṭa iti viśrutaḥkṣīrodenāvṛtaḥ śrīmānyojanāyutam ucchritaḥ
तावता विस्तृत: पर्यक्त्रिभि: शृङ्गै: पयोनिधिम् । दिश: खं रोचयन्नास्ते रौप्यायसहिरण्मयै: ॥ २ ॥ अन्यैश्च ककुभ: सर्वा रत्नधातुविचित्रितै: । नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ ३ ॥
tāvatā vistṛtaḥ paryaktribhiḥ śṛṅgaiḥ payo-nidhimdiśaḥ khaṁ rocayann āsteraupyāyasa-hiraṇmayaiḥ
स चावनिज्यमानाङ्घ्रि: समन्तात् पयऊर्मिभि: । करोति श्यामलां भूमिं हरिन्मरकताश्मभि: ॥ ४ ॥
sa cāvanijyamānāṅghriḥsamantāt paya-ūrmibhiḥkaroti śyāmalāṁ bhūmiṁharin-marakatāśmabhiḥ
सिद्धचारणगन्धर्वैर्विद्याधरमहोरगै: । किन्नरैरप्सरोभिश्च क्रीडद्भिर्जुष्टकन्दर: ॥ ५ ॥
siddha-cāraṇa-gandharvairvidyādhara-mahoragaiḥkinnarair apsarobhiś cakrīḍadbhir juṣṭa-kandaraḥ
यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया । अभिगर्जन्ति हरय: श्लाघिन: परशङ्कया ॥ ६ ॥
yatra saṅgīta-sannādairnadad-guham amarṣayāabhigarjanti harayaḥślāghinaḥ para-śaṅkayā
नानारण्यपशुव्रातसङ्कुलद्रोण्यलङ्कृत: । चित्रद्रुमसुरोद्यानकलकण्ठविहङ्गम: ॥ ७ ॥
nānāraṇya-paśu-vrāta-saṅkula-droṇy-alaṅkṛtaḥcitra-druma-surodyāna-kalakaṇṭha-vihaṅgamaḥ
सरित्सरोभिरच्छोदै: पुलिनैर्मणिवालुकै: । देवस्त्रीमज्जनामोदसौरभाम्ब्वनिलैर्युत: ॥ ८ ॥
sarit-sarobhir acchodaiḥpulinair maṇi-vālukaiḥdeva-strī-majjanāmoda-saurabhāmbv-anilair yutaḥ
तस्य द्रोण्यां भगवतो वरुणस्य महात्मन: । उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम् ॥ ९ ॥ सर्वतोऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमै: । मन्दारै: पारिजातैश्च पाटलाशोकचम्पकै: ॥ १० ॥ चूतै: पियालै: पनसैराम्रैराम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकै: ॥ ११ ॥ मधुकै: शालतालैश्च तमालैरसनार्जुनै: । अरिष्टोडुम्बरप्लक्षैर्वटै: किंशुकचन्दनै: ॥ १२ ॥ पिचुमर्दै: कोविदारै: सरलै: सुरदारुभि: । द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलै: ॥ १३ ॥
tasya droṇyāṁ bhagavatovaruṇasya mahātmanaḥudyānam ṛtuman nāmaākrīḍaṁ sura-yoṣitām
८.२.१४-१९बिल्वै: कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभि: । तस्मिन्सर: सुविपुलं लसत्काञ्चनपङ्कजम् ॥ १४ ॥ कुमुदोत्पलकह्लारशतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनै: ॥ १५ ॥ हंसकारण्डवाकीर्णं चक्राह्वै: सारसैरपि । जलकुक्कुटकोयष्टिदात्यूहकुलकूजितम् ॥ १६ ॥ मत्स्यकच्छपसञ्चारचलत्पद्मरज:पय: । कदम्बवेतसनलनीपवञ्जुलकैर्वृतम् ॥ १७ ॥ कुन्दै: कुरुबकाशोकै: शिरीषै: कूटजेङ्गुदै: । कुब्जकै: स्वर्णयूथीभिर्नागपुन्नागजातिभि: ॥ १८ ॥ मल्लिकाशतपत्रैश्च माधवीजालकादिभि: । शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमै: ॥ १९ ॥
bilvaiḥ kapitthair jambīrairvṛto bhallātakādibhiḥtasmin saraḥ suvipulaṁlasat-kāñcana-paṅkajam
तत्रैकदा तद्गिरिकाननाश्रय:करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद्विशालगुल्मं प्ररुजन्वनस्पतीन् ॥ २० ॥
tatraikadā tad-giri-kānanāśrayaḥkareṇubhir vāraṇa-yūtha-paś caransakaṇṭakaṁ kīcaka-veṇu-vetravadviśāla-gulmaṁ prarujan vanaspatīn
यद्गन्धमात्राद्धरयो गजेन्द्राव्याघ्रादयो व्यालमृगा: सखड्गा: । महोरगाश्चापि भयाद्द्रवन्तिसगौरकृष्णा: सरभाश्चमर्य: ॥ २१ ॥
yad-gandha-mātrād dharayo gajendrāvyāghrādayo vyāla-mṛgāḥ sakhaḍgāḥmahoragāś cāpi bhayād dravantisagaura-kṛṣṇāḥ sarabhāś camaryaḥ
गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणा: शशादय-श्चरन्त्यभीता यदनुग्रहेण ॥ २२ ॥
vṛkā varāhā mahiṣarkṣa-śalyāgopuccha-śālāvṛka-markaṭāś caanyatra kṣudrā hariṇāḥ śaśādayaścaranty abhītā yad-anugraheṇa
स घर्मतप्त: करिभि: करेणुभि-र्वृतो मदच्युत्करभैरनुद्रुत: । गिरिं गरिम्णा परित: प्रकम्पयन्निषेव्यमाणोऽलिकुलैर्मदाशनै: ॥ २३ ॥ सरोऽनिलं पङ्कजरेणुरूषितंजिघ्रन्विदूरान्मदविह्वलेक्षण: । वृत: स्वयूथेन तृषार्दितेन तत्सरोवराभ्यासमथागमद्द्रुतम् ॥ २४ ॥
sa gharma-taptaḥ karibhiḥ kareṇubhirvṛto madacyut-karabhair anudrutaḥgiriṁ garimṇā paritaḥ prakampayanniṣevyamāṇo ’likulair madāśanaiḥ
विगाह्य तस्मिन्नमृताम्बु निर्मलंहेमारविन्दोत्पलरेणुरूषितम् । पपौ निकामं निजपुष्करोद्धृत-मात्मानमद्भि: स्नपयन्गतक्लम: ॥ २५ ॥
vigāhya tasminn amṛtāmbu nirmalaṁhemāravindotpala-reṇu-rūṣitampapau nikāmaṁ nija-puṣkaroddhṛtamātmānam adbhiḥ snapayan gata-klamaḥ
स पुष्करेणोद्धृतशीकराम्बुभि-र्निपाययन्संस्नपयन्यथा गृही । घृणी करेणु: करभांश्च दुर्मदोनाचष्ट कृच्छ्रं कृपणोऽजमायया ॥ २६ ॥
sa puṣkareṇoddhṛta-śīkarāmbubhirnipāyayan saṁsnapayan yathā gṛhīghṛṇī kareṇuḥ karabhāṁś ca durmadonācaṣṭa kṛcchraṁ kṛpaṇo ’ja-māyayā
तं तत्र कश्चिन्नृप दैवचोदितोग्राहो बलीयांश्चरणे रुषाग्रहीत् । यदृच्छयैवं व्यसनं गतो गजोयथाबलं सोऽतिबलो विचक्रमे ॥ २७ ॥
taṁ tatra kaścin nṛpa daiva-coditogrāho balīyāṁś caraṇe ruṣāgrahītyadṛcchayaivaṁ vyasanaṁ gato gajoyathā-balaṁ so ’tibalo vicakrame
तथातुरं यूथपतिं करेणवोविकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियोऽपरे गजा:पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ २८ ॥
tathāturaṁ yūtha-patiṁ kareṇavovikṛṣyamāṇaṁ tarasā balīyasāvicukruśur dīna-dhiyo ’pare gajāḥpārṣṇi-grahās tārayituṁ na cāśakan
नियुध्यतोरेवमिभेन्द्रनक्रयो-र्विकर्षतोरन्तरतो बहिर्मिथ: । समा: सहस्रं व्यगमन् महीपतेसप्राणयोश्चित्रममंसतामरा: ॥ २९ ॥
niyudhyator evam ibhendra-nakrayorvikarṣator antarato bahir mithaḥsamāḥ sahasraṁ vyagaman mahī-patesaprāṇayoś citram amaṁsatāmarāḥ
ततो गजेन्द्रस्य मनोबलौजसांकालेन दीर्घेण महानभूद् व्यय: । विकृष्यमाणस्य जलेऽवसीदतोविपर्ययोऽभूत् सकलं जलौकस: ॥ ३० ॥
tato gajendrasya mano-balaujasāṁkālena dīrgheṇa mahān abhūd vyayaḥvikṛṣyamāṇasya jale ’vasīdatoviparyayo ’bhūt sakalaṁ jalaukasaḥ
इत्थं गजेन्द्र: स यदाप सङ्कटंप्राणस्य देही विवशो यदृच्छया । अपारयन्नात्मविमोक्षणे चिरंदध्याविमां बुद्धिमथाभ्यपद्यत ॥ ३१ ॥
itthaṁ gajendraḥ sa yadāpa saṅkaṭaṁprāṇasya dehī vivaśo yadṛcchayāapārayann ātma-vimokṣaṇe ciraṁdadhyāv imāṁ buddhim athābhyapadyata
न मामिमे ज्ञातय आतुरं गजा:कुत: करिण्य: प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतो-ऽप्यहं च तं यामि परं परायणम् ॥ ३२ ॥
na mām ime jñātaya āturaṁ gajāḥkutaḥ kariṇyaḥ prabhavanti mocitumgrāheṇa pāśena vidhātur āvṛto’py ahaṁ ca taṁ yāmi paraṁ parāyaṇam
य: कश्चनेशो बलिनोऽन्तकोरगात्प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्भया-न्मृत्यु: प्रधावत्यरणं तमीमहि ॥ ३३ ॥
yaḥ kaścaneśo balino ’ntakoragātpracaṇḍa-vegād abhidhāvato bhṛśambhītaṁ prapannaṁ paripāti yad-bhayānmṛtyuḥ pradhāvaty araṇaṁ tam īmahi