Canto 8, Chapter 20
श्रीशुक उवाच बलिरेवं गृहपति: कुलाचार्येण भाषित: । तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ १ ॥
śrī-śuka uvācabalir evaṁ gṛha-patiḥkulācāryeṇa bhāṣitaḥtūṣṇīṁ bhūtvā kṣaṇaṁ rājannuvācāvahito gurum
श्रीबलिरुवाचसत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम् । अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ २ ॥
śrī-balir uvācasatyaṁ bhagavatā proktaṁdharmo ’yaṁ gṛhamedhināmarthaṁ kāmaṁ yaśo vṛttiṁyo na bādheta karhicit
स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादि: कितवो यथा ॥ ३ ॥
sa cāhaṁ vitta-lobhenapratyācakṣe kathaṁ dvijampratiśrutya dadāmītiprāhrādiḥ kitavo yathā
न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम् । सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥ ४ ॥
na hy asatyāt paro ’dharmaiti hovāca bhūr iyamsarvaṁ soḍhum alaṁ manyeṛte ’līka-paraṁ naram
नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात् । न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात् ॥ ५ ॥
nāhaṁ bibhemi nirayānnādhanyād asukhārṇavātna sthāna-cyavanān mṛtyoryathā vipra-pralambhanāt
यद् यद्धास्यति लोकेऽस्मिन्सम्परेतं धनादिकम् । तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत् ॥ ६ ॥
yad yad dhāsyati loke ’sminsamparetaṁ dhanādikamtasya tyāge nimittaṁ kiṁvipras tuṣyen na tena cet
श्रेय: कुर्वन्ति भूतानां साधवो दुस्त्यजासुभि: । दध्यङ्शिबिप्रभृतय: को विकल्पो धरादिषु ॥ ७ ॥
śreyaḥ kurvanti bhūtānāṁsādhavo dustyajāsubhiḥdadhyaṅ-śibi-prabhṛtayaḥko vikalpo dharādiṣu
यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभि: । तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि ॥ ८ ॥
yair iyaṁ bubhuje brahmandaityendrair anivartibhiḥteṣāṁ kālo ’grasīl lokānna yaśo ’dhigataṁ bhuvi
सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यज: । न तथा तीर्थ आयाते श्रद्धया ये धनत्यज: ॥ ९ ॥
sulabhā yudhi viprarṣehy anivṛttās tanu-tyajaḥna tathā tīrtha āyāteśraddhayā ye dhana-tyajaḥ
मनस्विन: कारुणिकस्य शोभनंयदर्थिकामोपनयेन दुर्गति: । कुत: पुनर्ब्रह्मविदां भवादृशांततो वटोरस्य ददामि वाञ्छितम् ॥ १० ॥
manasvinaḥ kāruṇikasya śobhanaṁyad arthi-kāmopanayena durgatiḥkutaḥ punar brahma-vidāṁ bhavādṛśāṁtato vaṭor asya dadāmi vāñchitam
यजन्ति यज्ञंक्रतुभिर्यमादृताभवन्त आम्नायविधानकोविदा: । स एव विष्णुर्वरदोऽस्तु वा परोदास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ११ ॥
yajanti yajñaṁ kratubhir yam ādṛtābhavanta āmnāya-vidhāna-kovidāḥsa eva viṣṇur varado ’stu vā parodāsyāmy amuṣmai kṣitim īpsitāṁ mune
यद्यप्यसावधर्मेण मां बध्नीयादनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ १२ ॥
yadyapy asāv adharmeṇamāṁ badhnīyād anāgasamtathāpy enaṁ na hiṁsiṣyebhītaṁ brahma-tanuṁ ripum
एष वा उत्तमश्लोको न जिहासति यद् यश: । हत्वा मैनां हरेद् युद्धे शयीत निहतो मया ॥ १३ ॥
eṣa vā uttamaślokona jihāsati yad yaśaḥhatvā maināṁ hared yuddheśayīta nihato mayā
श्रीशुक उवाच एवमश्रद्धितं शिष्यमनादेशकरं गुरु: । शशाप दैवप्रहित: सत्यसन्धं मनस्विनम् ॥ १४ ॥
śrī-śuka uvācaevam aśraddhitaṁ śiṣyamanādeśakaraṁ guruḥśaśāpa daiva-prahitaḥsatya-sandhaṁ manasvinam
दृढं पण्डितमान्यज्ञ: स्तब्धोऽस्यस्मदुपेक्षया । मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रिय: ॥ १५ ॥
dṛḍhaṁ paṇḍita-māny ajñaḥstabdho ’sy asmad-upekṣayāmac-chāsanātigo yas tvamacirād bhraśyase śriyaḥ
एवं शप्त: स्वगुरुणा सत्यान्न चलितो महान् । वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ १६ ॥
evaṁ śaptaḥ sva-guruṇāsatyān na calito mahānvāmanāya dadāv enāmarcitvodaka-pūrvakam
विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी । आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ १७ ॥
vindhyāvalis tadāgatyapatnī jālaka-mālinīāninye kalaśaṁ haimamavanejany-apāṁ bhṛtam
यजमान: स्वयं तस्य श्रीमत् पादयुगं मुदा । अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनी: ॥ १८ ॥
yajamānaḥ svayaṁ tasyaśrīmat pāda-yugaṁ mudāavanijyāvahan mūrdhnitad apo viśva-pāvanīḥ
तदासुरेन्द्रं दिवि देवतागणागन्धर्वविद्याधरसिद्धचारणा: । तत्कर्म सर्वेऽपि गृणन्त आर्जवंप्रसूनवर्षैर्ववृषुर्मुदान्विता: ॥ १९ ॥
tadāsurendraṁ divi devatā-gaṇāgandharva-vidyādhara-siddha-cāraṇāḥtat karma sarve ’pi gṛṇanta ārjavaṁprasūna-varṣair vavṛṣur mudānvitāḥ
नेदुर्मुहुर्दुन्दुभय: सहस्रशोगन्धर्वकिम्पूरुषकिन्नरा जगु: । मनस्विनानेन कृतं सुदुष्करंविद्वानदाद् यद् रिपवे जगत्त्रयम् ॥ २० ॥
nedur muhur dundubhayaḥ sahasraśogandharva-kimpūruṣa-kinnarā jaguḥmanasvinānena kṛtaṁ suduṣkaraṁvidvān adād yad ripave jagat-trayam
तद् वामनं रूपमवर्धताद्भुतंहरेरनन्तस्य गुणत्रयात्मकम् । भू: खं दिशो द्यौर्विवरा: पयोधय-स्तिर्यङ्नृदेवा ऋषयो यदासत ॥ २१ ॥
tad vāmanaṁ rūpam avardhatādbhutaṁharer anantasya guṇa-trayātmakambhūḥ khaṁ diśo dyaur vivarāḥ payodhayastiryaṅ-nṛ-devā ṛṣayo yad-āsata
काये बलिस्तस्य महाविभूते:सहर्त्विगाचार्यसदस्य एतत् । ददर्श विश्वं त्रिगुणं गुणात्मकेभूतेन्द्रियार्थाशयजीवयुक्तम् ॥ २२ ॥
kāye balis tasya mahā-vibhūteḥsahartvig-ācārya-sadasya etatdadarśa viśvaṁ tri-guṇaṁ guṇātmakebhūtendriyārthāśaya-jīva-yuktam
रसामचष्टाङ्घ्रितलेऽथ पादयो-र्महीं महीध्रान्पुरुषस्य जङ्घयो: । पतत्त्रिणो जानुनि विश्वमूर्ते-रूर्वोर्गणं मारुतमिन्द्रसेन: ॥ २३ ॥
rasām acaṣṭāṅghri-tale ’tha pādayormahīṁ mahīdhrān puruṣasya jaṅghayoḥpatattriṇo jānuni viśva-mūrterūrvor gaṇaṁ mārutam indrasenaḥ
सन्ध्यां विभोर्वाससि गुह्य ऐक्षत्प्रजापतीञ्जघने आत्ममुख्यान् । नाभ्यां नभ: कुक्षिषु सप्तसिन्धू-नुरुक्रमस्योरसि चर्क्षमालाम् ॥ २४ ॥
sandhyāṁ vibhor vāsasi guhya aikṣatprajāpatīñ jaghane ātma-mukhyānnābhyāṁ nabhaḥ kukṣiṣu sapta-sindhūnurukramasyorasi carkṣa-mālām
हृद्यङ्ग धर्मं स्तनयोर्मुरारे-र्ऋतं च सत्यं च मनस्यथेन्दुम् । श्रियं च वक्षस्यरविन्दहस्तांकण्ठे च सामानि समस्तरेफान् ॥ २५ ॥ इन्द्रप्रधानानमरान्भुजेषुतत्कर्णयो: ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघाञ्छ्वसनं नासिकाया-मक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥ वाण्यां च छन्दांसि रसे जलेशंभ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसोमन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥ स्पर्शे च कामं नृप रेतसाम्भ:पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायांतनूरुहेष्वोषधिजातयश्च ॥ २८ ॥ नदीश्च नाडीषु शिला नखेषुबुद्धावजं देवगणानृषींश्च । प्राणेषु गात्रे स्थिरजङ्गमानिसर्वाणि भूतानि ददर्श वीर: ॥ २९ ॥
hṛdy aṅga dharmaṁ stanayor murārerṛtaṁ ca satyaṁ ca manasy athendumśriyaṁ ca vakṣasy aravinda-hastāṁkaṇṭhe ca sāmāni samasta-rephān
सर्वात्मनीदं भुवनं निरीक्ष्यसर्वेऽसुरा: कश्मलमापुरङ्ग । सुदर्शनं चक्रमसह्यतेजोधनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ ३० ॥
sarvātmanīdaṁ bhuvanaṁ nirīkṣyasarve ’surāḥ kaśmalam āpur aṅgasudarśanaṁ cakram asahya-tejodhanuś ca śārṅgaṁ stanayitnu-ghoṣam
पर्जन्यघोषो जलज: पाञ्चजन्य:कौमोदकी विष्णुगदा तरस्विनी । विद्याधरोऽसि: शतचन्द्रयुक्त-स्तूणोत्तमावक्षयसायकौ च ॥ ३१ ॥
parjanya-ghoṣo jalajaḥ pāñcajanyaḥkaumodakī viṣṇu-gadā tarasvinīvidyādharo ’siḥ śata-candra-yuktastūṇottamāv akṣayasāyakau ca
सुनन्दमुख्या उपतस्थुरीशंपार्षदमुख्या: सहलोकपाला: । स्फुरत्किरीटाङ्गदमीनकुण्डल:श्रीवत्सरत्नोत्तममेखलाम्बरै: ॥ ३२ ॥ मधुव्रतस्रग्वनमालयावृतोरराज राजन्भगवानुरुक्रम: । क्षितिं पदैकेन बलेर्विचक्रमेनभ: शरीरेण दिशश्च बाहुभि: ॥ ३३ ॥
sunanda-mukhyā upatasthur īśaṁpārṣada-mukhyāḥ saha-loka-pālāḥsphurat-kirīṭāṅgada-mīna-kuṇḍalaḥśrīvatsa-ratnottama-mekhalāmbaraiḥ
पदं द्वितीयं क्रमतस्त्रिविष्टपंन वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्युपर्यथोमहर्जनाभ्यां तपस: परं गत: ॥ ३४ ॥
padaṁ dvitīyaṁ kramatas triviṣṭapaṁna vai tṛtīyāya tadīyam aṇv apiurukramasyāṅghrir upary upary athomahar-janābhyāṁ tapasaḥ paraṁ gataḥ