← Canto 8

Canto 8, Chapter 4

Shloka 1

श्रीशुक उवाच तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमा: । मुमुचु: कुसुमासारं शंसन्त: कर्म तद्धरे: ॥ १ ॥

śrī-śuka uvācatadā devarṣi-gandharvābrahmeśāna-purogamāḥmumucuḥ kusumāsāraṁśaṁsantaḥ karma tad dhareḥ

Shloka 2

नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगु: । ऋषयश्चारणा: सिद्धास्तुष्टुवु: पुरुषोत्तमम् ॥ २ ॥

nedur dundubhayo divyāgandharvā nanṛtur jaguḥṛṣayaś cāraṇāḥ siddhāstuṣṭuvuḥ puruṣottamam

Shloka 3-4

योऽसौ ग्राह: स वै सद्य: परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तम: ॥ ३ ॥ प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् । अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ ४ ॥

yo ’sau grāhaḥ sa vai sadyaḥparamāścarya-rūpa-dhṛkmukto devala-śāpenahūhūr gandharva-sattamaḥ

Shloka 5

सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतो लोकं स्वमगान्मुक्तकिल्बिष: ॥ ५ ॥

so ’nukampita īśenaparikramya praṇamya tamlokasya paśyato lokaṁsvam agān mukta-kilbiṣaḥ

Shloka 6

गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुज: ॥ ६ ॥

gajendro bhagavat-sparśādvimukto ’jñāna-bandhanātprāpto bhagavato rūpaṁpīta-vāsāś catur-bhujaḥ

Shloka 7

स वै पूर्वमभूद् राजा पाण्ड्यो द्रविडसत्तम: । इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायण: ॥ ७ ॥

sa vai pūrvam abhūd rājāpāṇḍyo draviḍa-sattamaḥindradyumna iti khyātoviṣṇu-vrata-parāyaṇaḥ

Shloka 8

स एकदाराधनकाल आत्मवान्गृहीतमौनव्रत ईश्वरं हरिम् । जटाधरस्तापस आप्लुतोऽच्युतंसमर्चयामास कुलाचलाश्रम: ॥ ८ ॥

sa ekadārādhana-kāla ātmavāngṛhīta-mauna-vrata īśvaraṁ harimjaṭā-dharas tāpasa āpluto ’cyutaṁsamarcayām āsa kulācalāśramaḥ

Shloka 9

यद‍ृच्छया तत्र महायशा मुनि:समागमच्छिष्यगणै: परिश्रित: । तं वीक्ष्य तूष्णीमकृतार्हणादिकंरहस्युपासीनमृषिश्चुकोप ह ॥ ९ ॥

yadṛcchayā tatra mahā-yaśā muniḥsamāgamac chiṣya-gaṇaiḥ pariśritaḥtaṁ vīkṣya tūṣṇīm akṛtārhaṇādikaṁrahasy upāsīnam ṛṣiś cukopa ha

Shloka 10

तस्मा इमं शापमदादसाधु-रयं दुरात्माकृतबुद्धिरद्य । विप्रावमन्ता विशतां तमिस्रंयथा गज: स्तब्धमति: स एव ॥ १० ॥

tasmā imaṁ śāpam adād asādhurayaṁ durātmākṛta-buddhir adyaviprāvamantā viśatāṁ tamisraṁyathā gajaḥ stabdha-matiḥ sa eva

Shloka 11-12

श्रीशुक उवाच एवं शप्‍त्वा गतोऽगस्त्यो भगवान् नृप सानुग: । इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ ११ ॥ आपन्न: कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् । हर्यर्चनानुभावेन यद्गजत्वेऽप्यनुस्मृति: ॥ १२ ॥

śrī-śuka uvācaevaṁ śaptvā gato ’gastyobhagavān nṛpa sānugaḥindradyumno ’pi rājarṣirdiṣṭaṁ tad upadhārayan

Shloka 13

एवं विमोक्ष्य गजयूथपमब्जनाभ-स्तेनापि पार्षदगतिं गमितेन युक्त: । गन्धर्वसिद्धविबुधैरुपगीयमान-कर्माद्भ‍ुतं स्वभवनं गरुडासनोऽगात् ॥ १३ ॥

evaṁ vimokṣya gaja-yūtha-pam abja-nābhastenāpi pārṣada-gatiṁ gamitena yuktaḥgandharva-siddha-vibudhair upagīyamāna-karmādbhutaṁ sva-bhavanaṁ garuḍāsano ’gāt

Shloka 14

एतन्महाराज तवेरितो मयाकृष्णानुभावो गजराजमोक्षणम् । स्वर्ग्यं यशस्यं कलिकल्मषापहंदु:स्वप्ननाशं कुरुवर्य श‍ृण्वताम् ॥ १४ ॥

etan mahā-rāja taverito mayākṛṣṇānubhāvo gaja-rāja-mokṣaṇamsvargyaṁ yaśasyaṁ kali-kalmaṣāpahaṁduḥsvapna-nāśaṁ kuru-varya śṛṇvatām

Shloka 15

यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातय: । शुचय: प्रातरुत्थाय दु:स्वप्नाद्युपशान्तये ॥ १५ ॥

yathānukīrtayanty etacchreyas-kāmā dvijātayaḥśucayaḥ prātar utthāyaduḥsvapnādy-upaśāntaye

Shloka 16

इदमाह हरि: प्रीतो गजेन्द्रं कुरुसत्तम । श‍ृण्वतां सर्वभूतानां सर्वभूतमयो विभु: ॥ १६ ॥

idam āha hariḥ prītogajendraṁ kuru-sattamaśṛṇvatāṁ sarva-bhūtānāṁsarva-bhūta-mayo vibhuḥ

Shloka 17-24

श्रीभगवानुवाचये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् । वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ १७ ॥ श‍ृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च । क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ १८ ॥ श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम । सुदर्शनं पाञ्चजन्यं सुपर्णं पतगेश्वरम् ॥ १९ ॥ शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् । ब्रह्माणं नारदमृषिं भवं प्रह्लादमेव च ॥ २० ॥ मत्स्यकूर्मवराहाद्यैरवतारै: कृतानि मे । कर्माण्यनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ २१ ॥ प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् । दाक्षायणीर्धर्मपत्नी: सोमकश्यपयोरपि ॥ २२ ॥ गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन्सप्त पुण्यश्लोकांश्च मानवान् ॥ २३ ॥ उत्थायापररात्रान्ते प्रयता: सुसमाहिता: । स्मरन्ति मम रूपाणि मुच्यन्ते तेꣷहसोऽखिलात् ॥ २४ ॥

śrī-bhagavān uvācaye māṁ tvāṁ ca saraś cedaṁgiri-kandara-kānanamvetra-kīcaka-veṇūnāṁgulmāni sura-pādapān

Shloka 25

ये मां स्तुवन्त्यनेनाङ्ग प्रतिबुध्य निशात्यये । तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥ २५ ॥

ye māṁ stuvanty anenāṅgapratibudhya niśātyayeteṣāṁ prāṇātyaye cāhaṁdadāmi vipulāṁ gatim

Shloka 26

श्रीशुक उवाच इत्यादिश्य हृषीकेश: प्राध्माय जलजोत्तमम् । हर्षयन्विबुधानीकमारुरोह खगाधिपम् ॥ २६ ॥

śrī-śuka uvācaity ādiśya hṛṣīkeśaḥprādhmāya jalajottamamharṣayan vibudhānīkamāruroha khagādhipam

← PrevNext →