Canto 9, Chapter 11
श्रीशुक उवाच भगवानात्मनात्मानं राम उत्तमकल्पकै: । सर्वदेवमयं देवमीजेऽथाचार्यवान् मखै: ॥ १ ॥
śrī-śuka uvācabhagavān ātmanātmānaṁrāma uttama-kalpakaiḥsarva-devamayaṁ devamīje ’thācāryavān makhaiḥ
होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभु: । अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय स: ॥ २ ॥
hotre ’dadād diśaṁ prācīṁbrahmaṇe dakṣiṇāṁ prabhuḥadhvaryave pratīcīṁ vāuttarāṁ sāmagāya saḥ
आचार्याय ददौ शेषां यावती भूस्तदन्तरा । मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति नि:स्पृह: ॥ ३ ॥
ācāryāya dadau śeṣāṁyāvatī bhūs tad-antarāmanyamāna idaṁ kṛtsnaṁbrāhmaṇo ’rhati niḥspṛhaḥ
इत्ययं तदलङ्कारवासोभ्यामवशेषित: । तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ॥ ४ ॥
ity ayaṁ tad-alaṅkāra-vāsobhyām avaśeṣitaḥtathā rājñy api vaidehīsaumaṅgalyāvaśeṣitā
ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् । प्रीता: क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे ॥ ५ ॥
te tu brāhmaṇa-devasyavātsalyaṁ vīkṣya saṁstutamprītāḥ klinna-dhiyas tasmaipratyarpyedaṁ babhāṣire
अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर । यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ ६ ॥
aprattaṁ nas tvayā kiṁ nubhagavan bhuvaneśvarayan no ’ntar-hṛdayaṁ viśyatamo haṁsi sva-rociṣā
नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे । उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये ॥ ७ ॥
namo brahmaṇya-devāyarāmāyākuṇṭha-medhaseuttamaśloka-dhuryāyanyasta-daṇḍārpitāṅghraye
कदाचिल्लोकजिज्ञासुर्गूढो रात्र्यामलक्षित: । चरन्वाचोऽशृणोद् रामो भार्यामुद्दिश्य कस्यचित् ॥ ८ ॥
kadācil loka-jijñāsurgūḍho rātryām alakṣitaḥcaran vāco ’śṛṇod rāmobhāryām uddiśya kasyacit
नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् । स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुन: ॥ ९ ॥
nāhaṁ bibharmi tvāṁ duṣṭāmasatīṁ para-veśma-gāmstraiṇo hi bibhṛyāt sītāṁrāmo nāhaṁ bhaje punaḥ
इति लोकाद् बहुमुखाद् दुराराध्यादसंविद: । पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ १० ॥
iti lokād bahu-mukhāddurārādhyād asaṁvidaḥpatyā bhītena sā tyaktāprāptā prācetasāśramam
अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ । कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनि: ॥ ११ ॥
antarvatny āgate kāleyamau sā suṣuve sutaukuśo lava iti khyātautayoś cakre kriyā muniḥ
अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ । तक्ष: पुष्कल इत्यास्तां भरतस्य महीपते ॥ १२ ॥
aṅgadaś citraketuś calakṣmaṇasyātmajau smṛtautakṣaḥ puṣkala ity āstāṁbharatasya mahīpate
सुबाहु: श्रुतसेनश्च शत्रुघ्नस्य बभूवतु: । गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ १३ ॥ तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् । शत्रुघ्नश्च मधो: पुत्रं लवणं नाम राक्षसम् । हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ १४ ॥
subāhuḥ śrutasenaś caśatrughnasya babhūvatuḥgandharvān koṭiśo jaghnebharato vijaye diśām
मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ १५ ॥
munau nikṣipya tanayausītā bhartrā vivāsitādhyāyantī rāma-caraṇauvivaraṁ praviveśa ha
तच्छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुच: । स्मरंस्तस्या गुणांस्तांस्तान्नाशक्नोद् रोद्धुमीश्वर: ॥ १६ ॥
tac chrutvā bhagavān rāmorundhann api dhiyā śucaḥsmaraṁs tasyā guṇāṁs tāṁs tānnāśaknod roddhum īśvaraḥ
स्त्रीपुंप्रसङ्ग एतादृक्सर्वत्र त्रासमावह: । अपीश्वराणां किमुत ग्राम्यस्य गृहचेतस: ॥ १७ ॥
strī-puṁ-prasaṅga etādṛksarvatra trāsam-āvahaḥapīśvarāṇāṁ kim utagrāmyasya gṛha-cetasaḥ
तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत् प्रभु: । त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् ॥ १८ ॥
tata ūrdhvaṁ brahmacaryaṁdhāryann ajuhot prabhuḥtrayodaśābda-sāhasramagnihotram akhaṇḍitam
स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकै: । स्वपादपल्लवं राम आत्मज्योतिरगात् तत: ॥ १९ ॥
smaratāṁ hṛdi vinyasyaviddhaṁ daṇḍaka-kaṇṭakaiḥsva-pāda-pallavaṁ rāmaātma-jyotir agāt tataḥ
नेदं यशो रघुपते: सुरयाच्ञयात्त-लीलातनोरधिकसाम्यविमुक्तधाम्न: । रक्षोवधो जलधिबन्धनमस्त्रपूगै:किं तस्य शत्रुहनने कपय: सहाया: ॥ २० ॥
nedaṁ yaśo raghupateḥ sura-yācñayātta-līlā-tanor adhika-sāmya-vimukta-dhāmnaḥrakṣo-vadho jaladhi-bandhanam astra-pūgaiḥkiṁ tasya śatru-hanane kapayaḥ sahāyāḥ
यस्यामलं नृपसद:सु यशोऽधुनापिगायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् । तं नाकपालवसुपालकिरीटजुष्ट-पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ २१ ॥
yasyāmalaṁ nṛpa-sadaḥsu yaśo ’dhunāpigāyanty agha-ghnam ṛṣayo dig-ibhendra-paṭṭamtaṁ nākapāla-vasupāla-kirīṭa-juṣṭa-pādāmbujaṁ raghupatiṁ śaraṇaṁ prapadye
स यै: स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा । कोसलास्ते ययु: स्थानं यत्र गच्छन्ति योगिन: ॥ २२ ॥
sa yaiḥ spṛṣṭo ’bhidṛṣṭo vāsaṁviṣṭo ’nugato ’pi vākosalās te yayuḥ sthānaṁyatra gacchanti yoginaḥ
पुरुषो रामचरितं श्रवणैरुपधारयन् । आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ २३ ॥
puruṣo rāma-caritaṁśravaṇair upadhārayanānṛśaṁsya-paro rājankarma-bandhair vimucyate
श्रीराजोवाचकथं स भगवान् रामो भ्रातृन् वा स्वयमात्मन: । तस्मिन् वा तेऽन्ववर्तन्त प्रजा: पौराश्च ईश्वरे ॥ २४ ॥
śrī-rājovācakathaṁ sa bhagavān rāmobhrātṝn vā svayam ātmanaḥtasmin vā te ’nvavartantaprajāḥ paurāś ca īśvare
श्रीबादरायणिरुवाचअथादिशद् दिग्विजये भ्रातृंस्त्रिभुवनेश्वर: । आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुग: ॥ २५ ॥
śrī-bādarāyaṇir uvācaathādiśad dig-vijayebhrātṝṁs tri-bhuvaneśvaraḥātmānaṁ darśayan svānāṁpurīm aikṣata sānugaḥ
आसिक्तमार्गां गन्धोदै: करिणां मदशीकरै: । स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ २६ ॥
āsikta-mārgāṁ gandhodaiḥkariṇāṁ mada-śīkaraiḥsvāminaṁ prāptam ālokyamattāṁ vā sutarām iva
प्रासादगोपुरसभाचैत्यदेवगृहादिषु । विन्यस्तहेमकलशै: पताकाभिश्च मण्डिताम् ॥ २७ ॥
prāsāda-gopura-sabhā-caitya-deva-gṛhādiṣuvinyasta-hema-kalaśaiḥpatākābhiś ca maṇḍitām
पूगै: सवृन्तै रम्भाभि: पट्टिकाभि: सुवाससाम् । आदर्शैरंशुकै: स्रग्भि: कृतकौतुकतोरणाम् ॥ २८ ॥
pūgaiḥ savṛntai rambhābhiḥpaṭṭikābhiḥ suvāsasāmādarśair aṁśukaiḥ sragbhiḥkṛta-kautuka-toraṇām
तमुपेयुस्तत्र तत्र पौरा अर्हणपाणय: । आशिषो युयुजुर्देव पाहीमां प्राक्त्वयोद्धृताम् ॥ २९ ॥
tam upeyus tatra tatrapaurā arhaṇa-pāṇayaḥāśiṣo yuyujur devapāhīmāṁ prāk tvayoddhṛtām
तत: प्रजा वीक्ष्य पतिं चिरागतंदिदृक्षयोत्सृष्टगृहा: स्त्रियो नरा: । आरुह्य हर्म्याण्यरविन्दलोचन-मतृप्तनेत्रा: कुसुमैरवाकिरन् ॥ ३० ॥
tataḥ prajā vīkṣya patiṁ cirāgataṁdidṛkṣayotsṛṣṭa-gṛhāḥ striyo narāḥāruhya harmyāṇy aravinda-locanamatṛpta-netrāḥ kusumair avākiran
अथ प्रविष्ट: स्वगृहं जुष्टं स्वै: पूर्वराजभि: । अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् ॥ ३१ ॥ विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभि: । स्थलैर्मारकतै: स्वच्छैर्भ्राजत्स्फटिकभित्तिभि: ॥ ३२ ॥ चित्रस्रग्भि: पट्टिकाभिर्वासोमणिगणांशुकै: । मुक्ताफलैश्चिदुल्लासै: कान्तकामोपपत्तिभि: ॥ ३३ ॥ धूपदीपै: सुरभिभिर्मण्डितं पुष्पमण्डनै: । स्त्रीपुम्भि: सुरसङ्काशैर्जुष्टं भूषणभूषणै: ॥ ३४ ॥
atha praviṣṭaḥ sva-gṛhaṁjuṣṭaṁ svaiḥ pūrva-rājabhiḥanantākhila-koṣāḍhyamanarghyoruparicchadam
तस्मिन्स भगवान् राम: स्निग्धया प्रिययेष्टया । रेमे स्वारामधीराणामृषभ: सीतया किल ॥ ३५ ॥
tasmin sa bhagavān rāmaḥsnigdhayā priyayeṣṭayāreme svārāma-dhīrāṇāmṛṣabhaḥ sītayā kila
बुभुजे च यथाकालं कामान् धर्ममपीडयन् । वर्षपूगान् बहून् नृणामभिध्याताङ्घ्रिपल्लव: ॥ ३६ ॥
bubhuje ca yathā-kālaṁkāmān dharmam apīḍayanvarṣa-pūgān bahūn nṝṇāmabhidhyātāṅghri-pallavaḥ