Canto 9, Chapter 15
श्रीबादरायणिरुवाचऐलस्य चोर्वशीगर्भात् षडासन्नात्मजा नृप । आयु: श्रुतायु: सत्यायू रयोऽथ विजयो जय: ॥ १ ॥
śrī-bādarāyaṇir uvācaailasya corvaśī-garbhātṣaḍ āsann ātmajā nṛpaāyuḥ śrutāyuḥ satyāyūrayo ’tha vijayo jayaḥ
श्रुतायोर्वसुमान् पुत्र: सत्यायोश्च श्रुतञ्जय: । रयस्य सुत एकश्च जयस्य तनयोऽमित: ॥ २ ॥ भीमस्तु विजयस्याथ काञ्चनो होत्रकस्तत: । तस्य जह्नु: सुतो गङ्गां गण्डूषीकृत्य योऽपिबत् ॥ ३ ॥
śrutāyor vasumān putraḥsatyāyoś ca śrutañjayaḥrayasya suta ekaś cajayasya tanayo ’mitaḥ
जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजोऽजक: । तत: कुश: कुशस्यापि कुशाम्बुस्तनयो वसु: । कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुज: ॥ ४ ॥
jahnos tu purus tasyāthabalākaś cātmajo ’jakaḥtataḥ kuśaḥ kuśasyāpikuśāmbus tanayo vasuḥkuśanābhaś ca catvārogādhir āsīt kuśāmbujaḥ
तस्य सत्यवतीं कन्यामृचीकोऽयाचत द्विज: । वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ ५ ॥ एकत: श्यामकर्णानां हयानां चन्द्रवर्चसाम् । सहस्रं दीयतां शुल्कं कन्याया: कुशिका वयम् ॥ ६ ॥
tasya satyavatīṁ kanyāmṛcīko ’yācata dvijaḥvaraṁ visadṛśaṁ matvāgādhir bhārgavam abravīt
इत्युक्तस्तन्मतं ज्ञात्वा गत: स वरुणान्तिकम् । आनीय दत्त्वा तानश्वानुपयेमे वराननाम् ॥ ७ ॥
ity uktas tan-mataṁ jñātvāgataḥ sa varuṇāntikamānīya dattvā tān aśvānupayeme varānanām
स ऋषि: प्रार्थित: पत्न्या श्वश्र्वा चापत्यकाम्यया । श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनि: ॥ ८ ॥
sa ṛṣiḥ prārthitaḥ patnyāśvaśrvā cāpatya-kāmyayāśrapayitvobhayair mantraiścaruṁ snātuṁ gato muniḥ
तावत् सत्यवती मात्रा स्वचरुं याचिता सती । श्रेष्ठं मत्वा तयायच्छन्मात्रे मातुरदत् स्वयम् ॥ ९ ॥
tāvat satyavatī mātrāsva-caruṁ yācitā satīśreṣṭhaṁ matvā tayāyacchanmātre mātur adat svayam
तद् विदित्वा मुनि: प्राह पत्नीं कष्टमकारषी: । घोरो दण्डधर: पुत्रो भ्राता ते ब्रह्मवित्तम: ॥ १० ॥
tad viditvā muniḥ prāhapatnīṁ kaṣṭam akāraṣīḥghoro daṇḍa-dharaḥ putrobhrātā te brahma-vittamaḥ
प्रसादित: सत्यवत्या मैवं भूरिति भार्गव: । अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत् ॥ ११ ॥
prasāditaḥ satyavatyāmaivaṁ bhūr iti bhārgavaḥatha tarhi bhavet pautrojamadagnis tato ’bhavat
सा चाभूत् सुमहत्पुण्या कौशिकी लोकपावनी । रेणो: सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ १२ ॥ तस्यां वै भार्गवऋषे: सुता वसुमदादय: । यवीयाञ्जज्ञ एतेषां राम इत्यभिविश्रुत: ॥ १३ ॥
sā cābhūt sumahat-puṇyākauśikī loka-pāvanīreṇoḥ sutāṁ reṇukāṁ vaijamadagnir uvāha yām
यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रि:सप्तकृत्वो य इमां चक्रे नि:क्षत्रियां महीम् ॥ १४ ॥
yam āhur vāsudevāṁśaṁhaihayānāṁ kulāntakamtriḥ-sapta-kṛtvo ya imāṁcakre niḥkṣatriyāṁ mahīm
दृप्तं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । रजस्तमोवृतमहन् फल्गुन्यपि कृतेꣷहसि ॥ १५ ॥
dṛptaṁ kṣatraṁ bhuvo bhāramabrahmaṇyam anīnaśatrajas-tamo-vṛtam ahanphalguny api kṛte ’ṁhasi
श्रीराजोवाचकिं तदंहो भगवतो राजन्यैरजितात्मभि: । कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णश: ॥ १६ ॥
śrī-rājovācakiṁ tad aṁho bhagavatorājanyair ajitātmabhiḥkṛtaṁ yena kulaṁ naṣṭaṁkṣatriyāṇām abhīkṣṇaśaḥ
श्रीबादरायणिरुवाचहैहयानामधिपतिरर्जुन: क्षत्रियर्षभ: । दत्तं नारायणांशांशमाराध्य परिकर्मभि: ॥ १७ ॥ बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु । अव्याहतेन्द्रियौज:श्रीतेजोवीर्ययशोबलम् ॥ १८ ॥ योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादय: । चचाराव्याहतगतिर्लोकेषु पवनो यथा ॥ १९ ॥
śrī-bādarāyaṇir uvācahaihayānām adhipatirarjunaḥ kṣatriyarṣabhaḥdattaṁ nārāyaṇāṁśāṁśamārādhya parikarmabhiḥ
स्त्रीरत्नैरावृत: क्रीडन् रेवाम्भसि मदोत्कट: । वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजै: ॥ २० ॥
strī-ratnair āvṛtaḥ krīḍanrevāmbhasi madotkaṭaḥvaijayantīṁ srajaṁ bibhradrurodha saritaṁ bhujaiḥ
विप्लावितं स्वशिबिरं प्रतिस्रोत:सरिज्जलै: । नामृष्यत् तस्य तद् वीर्यं वीरमानी दशानन: ॥ २१ ॥
viplāvitaṁ sva-śibiraṁpratisrotaḥ-sarij-jalaiḥnāmṛṣyat tasya tad vīryaṁvīramānī daśānanaḥ
गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिष: । माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ २२ ॥
gṛhīto līlayā strīṇāṁsamakṣaṁ kṛta-kilbiṣaḥmāhiṣmatyāṁ sanniruddhomukto yena kapir yathā
स एकदा तु मृगयां विचरन् विजने वने । यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥ २३ ॥
sa ekadā tu mṛgayāṁvicaran vijane vaneyadṛcchayāśrama-padaṁjamadagner upāviśat
तस्मै स नरदेवाय मुनिरर्हणमाहरत् । ससैन्यामात्यवाहाय हविष्मत्या तपोधन: ॥ २४ ॥
tasmai sa naradevāyamunir arhaṇam āharatsasainyāmātya-vāhāyahaviṣmatyā tapo-dhanaḥ
स वै रत्नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् । तन्नाद्रियताग्निहोत्र्यां साभिलाष: सहैहय: ॥ २५ ॥
sa vai ratnaṁ tu tad dṛṣṭvāātmaiśvaryātiśāyanamtan nādriyatāgnihotryāṁsābhilāṣaḥ sahaihayaḥ
हविर्धानीमृषेर्दर्पान्नरान् हर्तुमचोदयत् । ते च माहिष्मतीं निन्यु: सवत्सां क्रन्दतीं बलात् ॥ २६ ॥
havirdhānīm ṛṣer darpānnarān hartum acodayatte ca māhiṣmatīṁ ninyuḥsa-vatsāṁ krandatīṁ balāt
अथ राजनि निर्याते राम आश्रम आगत: । श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहत: ॥ २७ ॥
atha rājani niryāterāma āśrama āgataḥśrutvā tat tasya daurātmyaṁcukrodhāhir ivāhataḥ
घोरमादाय परशुं सतूणं वर्म कार्मुकम् । अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् ॥ २८ ॥
ghoram ādāya paraśuṁsatūṇaṁ varma kārmukamanvadhāvata durmarṣomṛgendra iva yūthapam
तमापतन्तं भृगुवर्यमोजसाधनुर्धरं बाणपरश्वधायुधम् । ऐणेयचर्माम्बरमर्कधामभि-र्युतं जटाभिर्ददृशे पुरीं विशन् ॥ २९ ॥
tam āpatantaṁ bhṛgu-varyam ojasādhanur-dharaṁ bāṇa-paraśvadhāyudhamaiṇeya-carmāmbaram arka-dhāmabhiryutaṁ jaṭābhir dadṛśe purīṁ viśan
अचोदयद्धस्तिरथाश्वपत्तिभि-र्गदासिबाणर्ष्टिशतघ्निशक्तिभि: । अक्षौहिणी: सप्तदशातिभीषणा-स्ता राम एको भगवानसूदयत् ॥ ३० ॥
acodayad dhasti-rathāśva-pattibhirgadāsi-bāṇarṣṭi-śataghni-śaktibhiḥakṣauhiṇīḥ sapta-daśātibhīṣaṇāstā rāma eko bhagavān asūdayat
यतो यतोऽसौ प्रहरत्परश्वधोमनोऽनिलौजा: परचक्रसूदन: । ततस्ततश्छिन्नभुजोरुकन्धरानिपेतुरुर्व्यां हतसूतवाहना: ॥ ३१ ॥
yato yato ’sau praharat-paraśvadhomano-’nilaujāḥ para-cakra-sūdanaḥtatas tataś chinna-bhujoru-kandharānipetur urvyāṁ hata-sūta-vāhanāḥ
दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमेरणाजिरे रामकुठारसायकै: । विवृक्णवर्मध्वजचापविग्रहंनिपातितं हैहय आपतद् रुषा ॥ ३२ ॥
dṛṣṭvā sva-sainyaṁ rudhiraugha-kardameraṇājire rāma-kuṭhāra-sāyakaiḥvivṛkṇa-varma-dhvaja-cāpa-vigrahaṁnipātitaṁ haihaya āpatad ruṣā
अथार्जुन: पञ्चशतेषु बाहुभि-र्धनु:षु बाणान् युगपत् स सन्दधे । रामाय रामोऽस्त्रभृतां समग्रणी-स्तान्येकधन्वेषुभिराच्छिनत् समम् ॥ ३३ ॥
athārjunaḥ pañca-śateṣu bāhubhirdhanuḥṣu bāṇān yugapat sa sandadherāmāya rāmo ’stra-bhṛtāṁ samagraṇīstāny eka-dhanveṣubhir ācchinat samam
पुन: स्वहस्तैरचलान् मृधेऽङ्घ्रिपा-नुत्क्षिप्य वेगादभिधावतो युधि । भुजान् कुठारेण कठोरनेमिनाचिच्छेद राम: प्रसभं त्वहेरिव ॥ ३४ ॥
punaḥ sva-hastair acalān mṛdhe ’ṅghripānutkṣipya vegād abhidhāvato yudhibhujān kuṭhāreṇa kaṭhora-nemināciccheda rāmaḥ prasabhaṁ tv aher iva
कृत्तबाहो: शिरस्तस्य गिरे: शृङ्गमिवाहरत् । हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ ३५ ॥ अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा । समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ ३६ ॥
kṛtta-bāhoḥ śiras tasyagireḥ śṛṅgam ivāharathate pitari tat-putrāayutaṁ dudruvur bhayāt
स्वकर्म तत्कृतं राम: पित्रे भ्रातृभ्य एव च । वर्णयामास तच्छ्रुत्वा जमदग्निरभाषत ॥ ३७ ॥
sva-karma tat kṛtaṁ rāmaḥpitre bhrātṛbhya eva cavarṇayām āsa tac chrutvājamadagnir abhāṣata
राम राम महाबाहो भवान् पापमकारषीत् । अवधीन्नरदेवं यत्सर्वदेवमयं वृथा ॥ ३८ ॥
rāma rāma mahābāhobhavān pāpam akāraṣītavadhīn naradevaṁ yatsarva-devamayaṁ vṛthā
वयं हि ब्राह्मणास्तात क्षमयार्हणतां गता: । यया लोकगुरुर्देव: पारमेष्ठ्यमगात् पदम् ॥ ३९ ॥
vayaṁ hi brāhmaṇās tātakṣamayārhaṇatāṁ gatāḥyayā loka-gurur devaḥpārameṣṭhyam agāt padam
क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा । क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वर: ॥ ४० ॥
kṣamayā rocate lakṣmīrbrāhmī saurī yathā prabhākṣamiṇām āśu bhagavāṁstuṣyate harir īśvaraḥ
राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरु: । तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतन: ॥ ४१ ॥
rājño mūrdhābhiṣiktasyavadho brahma-vadhād guruḥtīrtha-saṁsevayā cāṁhojahy aṅgācyuta-cetanaḥ