Canto 9, Chapter 20
श्रीबादरायणिरुवाचपूरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ १ ॥
śrī-bādarāyaṇir uvācapūror vaṁśaṁ pravakṣyāmiyatra jāto ’si bhāratayatra rājarṣayo vaṁśyābrahma-vaṁśyāś ca jajñire
जनमेजयो ह्यभूत् पूरो: प्रचिन्वांस्तत्सुतस्तत: । प्रवीरोऽथ मनुस्युर्वै तस्माच्चारुपदोऽभवत् ॥ २ ॥
janamejayo hy abhūt pūroḥpracinvāṁs tat-sutas tataḥpravīro ’tha manusyur vaitasmāc cārupado ’bhavat
तस्य सुद्युरभूत् पुत्रस्तस्माद् बहुगवस्तत: । संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुत: स्मृत: ॥ ३ ॥
tasya sudyur abhūt putrastasmād bahugavas tataḥsaṁyātis tasyāhaṁyātīraudrāśvas tat-sutaḥ smṛtaḥ
ऋतेयुस्तस्य कक्षेयु: स्थण्डिलेयु: कृतेयुक: । जलेयु: सन्नतेयुश्च धर्मसत्यव्रतेयव: ॥ ४ ॥ दशैतेऽप्सरस: पुत्रा वनेयुश्चावम: स्मृत: । घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मन: ॥ ५ ॥
ṛteyus tasya kakṣeyuḥsthaṇḍileyuḥ kṛteyukaḥjaleyuḥ sannateyuś cadharma-satya-vrateyavaḥ
ऋतेयो रन्तिनावोऽभूत् त्रयस्तस्यात्मजा नृप । सुमतिर्ध्रुवोऽप्रतिरथ: कण्वोऽप्रतिरथात्मज: ॥ ६ ॥
ṛteyo rantināvo ’bhūttrayas tasyātmajā nṛpasumatir dhruvo ’pratirathaḥkaṇvo ’pratirathātmajaḥ
तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातय: । पुत्रोऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मत: ॥ ७ ॥
tasya medhātithis tasmātpraskannādyā dvijātayaḥputro ’bhūt sumate rebhirduṣmantas tat-suto mataḥ
दुष्मन्तो मृगयां यात: कण्वाश्रमपदं गत: । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ ८ ॥ विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । बभाषे तां वरारोहां भटै: कतिपयैर्वृत: ॥ ९ ॥
duṣmanto mṛgayāṁ yātaḥkaṇvāśrama-padaṁ gataḥtatrāsīnāṁ sva-prabhayāmaṇḍayantīṁ ramām iva
तद्दर्शनप्रमुदित: सन्निवृत्तपरिश्रम: । पप्रच्छ कामसन्तप्त: प्रहसञ्श्लक्ष्णया गिरा ॥ १० ॥
tad-darśana-pramuditaḥsannivṛtta-pariśramaḥpapraccha kāma-santaptaḥprahasañ ślakṣṇayā girā
का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे । किंस्विच्चिकीर्षितं तत्र भवत्या निर्जने वने ॥ ११ ॥
kā tvaṁ kamala-patrākṣikasyāsi hṛdayaṅ-gamekiṁ svic cikīrṣitaṁ tatrabhavatyā nirjane vane
व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे । न हि चेत: पौरवाणामधर्मे रमते क्वचित् ॥ १२ ॥
vyaktaṁ rājanya-tanayāṁvedmy ahaṁ tvāṁ sumadhyamena hi cetaḥ pauravāṇāmadharme ramate kvacit
श्रीशकुन्तलोवाचविश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद् भगवान् कण्वो वीर किं करवाम ते ॥ १३ ॥
śrī-śakuntalovācaviśvāmitrātmajaivāhaṁtyaktā menakayā vanevedaitad bhagavān kaṇvovīra kiṁ karavāma te
आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च न: । भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ १४ ॥
āsyatāṁ hy aravindākṣagṛhyatām arhaṇaṁ ca naḥbhujyatāṁ santi nīvārāuṣyatāṁ yadi rocate
श्रीदुष्मन्त उवाच उपपन्नमिदं सुभ्रु जाताया: कुशिकान्वये । स्वयं हि वृणुते राज्ञां कन्यका: सदृशं वरम् ॥ १५ ॥
śrī-duṣmanta uvācaupapannam idaṁ subhrujātāyāḥ kuśikānvayesvayaṁ hi vṛṇute rājñāṁkanyakāḥ sadṛśaṁ varam
ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् । गान्धर्वविधिना राजा देशकालविधानवित् ॥ १६ ॥
om ity ukte yathā-dharmamupayeme śakuntalāmgāndharva-vidhinā rājādeśa-kāla-vidhānavit
अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे । श्वोभूते स्वपुरं यात: कालेनासूत सा सुतम् ॥ १७ ॥
amogha-vīryo rājarṣirmahiṣyāṁ vīryam ādadheśvo-bhūte sva-puraṁ yātaḥkālenāsūta sā sutam
कण्व: कुमारस्य वने चक्रे समुचिता: क्रिया: । बद्ध्वा मृगेन्द्रंतरसा क्रीडति स्म स बालक: ॥ १८ ॥
kaṇvaḥ kumārasya vanecakre samucitāḥ kriyāḥbaddhvā mṛgendraṁ tarasākrīḍati sma sa bālakaḥ
तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा । हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् ॥ १९ ॥
taṁ duratyaya-vikrāntamādāya pramadottamāharer aṁśāṁśa-sambhūtaṁbhartur antikam āgamat
यदा न जगृहे राजा भार्यापुत्रावनिन्दितौ । शृण्वतां सर्वभूतानां खे वागाहाशरीरिणी ॥ २० ॥
yadā na jagṛhe rājābhāryā-putrāv aninditauśṛṇvatāṁ sarva-bhūtānāṁkhe vāg āhāśarīriṇī
माता भस्त्रा पितु: पुत्रो येन जात: स एव स: । भरस्व पुत्रं दुष्मन्त मावमंस्था: शकुन्तलाम् ॥ २१ ॥
mātā bhastrā pituḥ putroyena jātaḥ sa eva saḥbharasva putraṁ duṣmantamāvamaṁsthāḥ śakuntalām
रेतोधा: पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ २२ ॥
reto-dhāḥ putro nayatinaradeva yama-kṣayāttvaṁ cāsya dhātā garbhasyasatyam āha śakuntalā
पितर्युपरते सोऽपि चक्रवर्तीमहायशा: । महिमागीयते तस्य हरेरंशभुवो भुवि ॥ २३ ॥
pitary uparate so ’picakravartī mahā-yaśāḥmahimā gīyate tasyaharer aṁśa-bhuvo bhuvi
चक्रं दक्षिणहस्तेऽस्य पद्मकोशोऽस्य पादयो: । ईजे महाभिषेकेण सोऽभिषिक्तोऽधिराड् विभु: ॥ २४ ॥ पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभि: । मामतेयं पुरोधाय यमुनामनु च प्रभु: ॥ २५ ॥ अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद् वसु । भरतस्य हि दौष्मन्तेरग्नि: साचीगुणे चित: । सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ २६ ॥
cakraṁ dakṣiṇa-haste ’syapadma-kośo ’sya pādayoḥīje mahābhiṣekeṇaso ’bhiṣikto ’dhirāḍ vibhuḥ
त्रयस्त्रिंशच्छतं ह्यश्वान्बद्ध्वा विस्मापयन् नृपान् । दौष्मन्तिरत्यगान्मायां देवानां गुरुमाययौ ॥ २७ ॥
trayas-triṁśac-chataṁ hy aśvānbaddhvā vismāpayan nṛpāndauṣmantir atyagān māyāṁdevānāṁ gurum āyayau
मृगाञ्छुक्लदत: कृष्णान् हिरण्येन परीवृतान् । अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥ २८ ॥
mṛgāñ chukla-dataḥ kṛṣṇānhiraṇyena parīvṛtānadāt karmaṇi maṣṇāreniyutāni caturdaśa
भरतस्य महत् कर्म न पूर्वे नापरे नृपा: । नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ २९ ॥
bharatasya mahat karmana pūrve nāpare nṛpāḥnaivāpur naiva prāpsyantibāhubhyāṁ tridivaṁ yathā
किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशाञ्छकान् । अब्रह्मण्यनृपांश्चाहन् म्लेच्छान् दिग्विजयेऽखिलान् ॥ ३० ॥
kirāta-hūṇān yavanānpauṇḍrān kaṅkān khaśāñ chakānabrahmaṇya-nṛpāṁś cāhanmlecchān dig-vijaye ’khilān
जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीता: प्राणिभि: पुनराहरत् ॥ ३१ ॥
jitvā purāsurā devānye rasaukāṁsi bhejiredeva-striyo rasāṁ nītāḥprāṇibhiḥ punar āharat
सर्वान्कामान् दुदुहतु: प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ॥ ३२ ॥
sarvān kāmān duduhatuḥprajānāṁ tasya rodasīsamās tri-ṇava-sāhasrīrdikṣu cakram avartayat
स संराड्लोकपालाख्यमैश्वर्यमधिराट् श्रियम् । चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह ॥ ३३ ॥
sa saṁrāḍ loka-pālākhyamaiśvaryam adhirāṭ śriyamcakraṁ cāskhalitaṁ prāṇānmṛṣety upararāma ha
तस्यासन् नृप वैदर्भ्य: पत्न्यस्तिस्र: सुसम्मता: । जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ ३४ ॥
tasyāsan nṛpa vaidarbhyaḥpatnyas tisraḥ susammatāḥjaghnus tyāga-bhayāt putrānnānurūpā itīrite
तस्यैवं वितथे वंशे तदर्थं यजत: सुतम् । मरुत्स्तोमेन मरुतो भरद्वाजमुपाददु: ॥ ३५ ॥
tasyaivaṁ vitathe vaṁśetad-arthaṁ yajataḥ sutammarut-stomena marutobharadvājam upādaduḥ
अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पति: । प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् ॥ ३६ ॥
antarvatnyāṁ bhrātṛ-patnyāṁmaithunāya bṛhaspatiḥpravṛtto vārito garbhaṁśaptvā vīryam upāsṛjat
तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् । नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगु: ॥ ३७ ॥
taṁ tyaktu-kāmāṁ mamatāṁbhartus tyāga-viśaṅkitāmnāma-nirvācanaṁ tasyaślokam enaṁ surā jaguḥ
मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ ३८ ॥
mūḍhe bhara dvājam imaṁbhara dvājaṁ bṛhaspateyātau yad uktvā pitaraubharadvājas tatas tv ayam
चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् । व्यसृजन् मरुतोऽबिभ्रन् दत्तोऽयं वितथेऽन्वये ॥ ३९ ॥
codyamānā surair evaṁmatvā vitatham ātmajamvyasṛjan maruto ’bibhrandatto ’yaṁ vitathe ’nvaye