← Canto 9

Canto 9, Chapter 21

Shloka 1

श्रीशुक उवाच वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्तत: । महावीर्यो नरो गर्ग: सङ्‍कृतिस्तु नरात्मज: ॥ १ ॥

śrī-śuka uvācavitathasya sutān manyorbṛhatkṣatro jayas tataḥmahāvīryo naro gargaḥsaṅkṛtis tu narātmajaḥ

Shloka 2

गुरुश्च रन्तिदेवश्च सङ्‍कृते: पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ २ ॥

guruś ca rantidevaś casaṅkṛteḥ pāṇḍu-nandanarantidevasya mahimāihāmutra ca gīyate

Shloka 3-5

वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षत: । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदत: ॥ ३ ॥ व्यतीयुरष्टचत्वारिंशदहान्यपिबत: किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ ४ ॥ कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथो: । अतिथिर्ब्राह्मण: काले भोक्तुकामस्य चागमत् ॥ ५ ॥

viyad-vittasya dadatolabdhaṁ labdhaṁ bubhukṣataḥniṣkiñcanasya dhīrasyasakuṭumbasya sīdataḥ

Shloka 6

तस्मै संव्यभजत् सोऽन्नमाद‍ृत्य श्रद्धयान्वित: । हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विज: ॥ ६ ॥

tasmai saṁvyabhajat so ’nnamādṛtya śraddhayānvitaḥhariṁ sarvatra saṁpaśyansa bhuktvā prayayau dvijaḥ

Shloka 7

अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपते: । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ ७ ॥

athānyo bhokṣyamāṇasyavibhaktasya mahīpateḥvibhaktaṁ vyabhajat tasmaivṛṣalāya hariṁ smaran

Shloka 8

याते शूद्रे तमन्योऽगादतिथि: श्वभिरावृत: । राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥ ८ ॥

yāte śūdre tam anyo ’gādatithiḥ śvabhir āvṛtaḥrājan me dīyatām annaṁsagaṇāya bubhukṣate

Shloka 9

स आद‍ृत्यावशिष्टं यद्म बहुमानपुरस्कृतम् । तच्च दत्त्वा नमश्चक्रे श्वभ्य: श्वपतये विभु: ॥ ९ ॥

sa ādṛtyāvaśiṣṭaṁ yadbahu-māna-puraskṛtamtac ca dattvā namaścakreśvabhyaḥ śva-pataye vibhuḥ

Shloka 10

पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् । पास्यत: पुल्कसोऽभ्यागादपो देह्यशुभाय मे ॥ १० ॥

pānīya-mātram uccheṣaṁtac caika-paritarpaṇampāsyataḥ pulkaso ’bhyāgādapo dehy aśubhāya me

Shloka 11

तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वच: ॥ ११ ॥

tasya tāṁ karuṇāṁ vācaṁniśamya vipula-śramāmkṛpayā bhṛśa-santaptaidam āhāmṛtaṁ vacaḥ

Shloka 12

न कामयेऽहं गतिमीश्वरात् परा-मष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्येऽखिलदेहभाजा-मन्त:स्थितो येन भवन्त्यदु:खा: ॥ १२ ॥

na kāmaye ’haṁ gatim īśvarāt parāmaṣṭarddhi-yuktām apunar-bhavaṁ vāārtiṁ prapadye ’khila-deha-bhājāmantaḥ-sthito yena bhavanty aduḥkhāḥ

Shloka 13

क्षुत्तृट्‍श्रमो गात्रपरिभ्रमश्चदैन्यं क्लम: शोकविषादमोहा: । सर्वे निवृत्ता: कृपणस्य जन्तो-र्जिजीविषोर्जीवजलार्पणान्मे ॥ १३ ॥

kṣut-tṛṭ-śramo gātra-paribhramaś cadainyaṁ klamaḥ śoka-viṣāda-mohāḥsarve nivṛttāḥ kṛpaṇasya jantorjijīviṣor jīva-jalārpaṇān me

Shloka 14

इति प्रभाष्य पानीयं म्रियमाण: पिपासया । पुल्कसायाददाद्धीरो निसर्गकरुणो नृप: ॥ १४ ॥

iti prabhāṣya pānīyaṁmriyamāṇaḥ pipāsayāpulkasāyādadād dhīronisarga-karuṇo nṛpaḥ

Shloka 15

तस्य त्रिभुवनाधीशा: फलदा: फलमिच्छताम् । आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिता: ॥ १५ ॥

tasya tribhuvanādhīśāḥphaladāḥ phalam icchatāmātmānaṁ darśayāṁ cakrurmāyā viṣṇu-vinirmitāḥ

Shloka 16

स वै तेभ्यो नमस्कृत्य नि:सङ्गो विगतस्पृह: । वासुदेवे भगवति भक्त्या चक्रे मन: परम् ॥ १६ ॥

sa vai tebhyo namaskṛtyaniḥsaṅgo vigata-spṛhaḥvāsudeve bhagavatibhaktyā cakre manaḥ param

Shloka 17

ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधस: । माया गुणमयी राजन्स्वप्नवत् प्रत्यलीयत ॥ १७ ॥

īśvarālambanaṁ cittaṁkurvato ’nanya-rādhasaḥmāyā guṇamayī rājansvapnavat pratyalīyata

Shloka 18

तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिन: । अभवन् योगिन: सर्वे नारायणपरायणा: ॥ १८ ॥

tat-prasaṅgānubhāvenarantidevānuvartinaḥabhavan yoginaḥ sarvenārāyaṇa-parāyaṇāḥ

Shloka 19-20

गर्गाच्छिनिस्ततो गार्ग्य: क्षत्राद् ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणि: कवि: ॥ १९ ॥ पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गता: । बृहत्क्षत्रस्य पुत्रोऽभूद्धस्ती यद्धस्तिनापुरम् ॥ २० ॥

gargāc chinis tato gārgyaḥkṣatrād brahma hy avartataduritakṣayo mahāvīryāttasya trayyāruṇiḥ kaviḥ

Shloka 21

अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिन: । अजमीढस्य वंश्या: स्यु: प्रियमेधादयो द्विजा: ॥ २१ ॥

ajamīḍho dvimīḍhaś capurumīḍhaś ca hastinaḥajamīḍhasya vaṁśyāḥ syuḥpriyamedhādayo dvijāḥ

Shloka 22

अजमीढाद् बृहदिषुस्तस्य पुत्रो बृहद्धनु: । बृहत्कायस्ततस्तस्य पुत्र आसीज्जयद्रथ: ॥ २२ ॥

ajamīḍhād bṛhadiṣustasya putro bṛhaddhanuḥbṛhatkāyas tatas tasyaputra āsīj jayadrathaḥ

Shloka 23

तत्सुतो विशदस्तस्य स्येनजित् समजायत । रुचिराश्वो द‍ृढहनु: काश्यो वत्सश्च तत्सुता: ॥ २३ ॥

tat-suto viśadas tasyasyenajit samajāyatarucirāśvo dṛḍhahanuḥkāśyo vatsaś ca tat-sutāḥ

Shloka 24

रुचिराश्वसुत: पार: पृथुसेनस्तदात्मज: । पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥ २४ ॥

rucirāśva-sutaḥ pāraḥpṛthusenas tad-ātmajaḥpārasya tanayo nīpastasya putra-śataṁ tv abhūt

Shloka 25

स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥ २५ ॥

sa kṛtvyāṁ śuka-kanyāyāṁbrahmadattam ajījanatyogī sa gavi bhāryāyāṁviṣvaksenam adhāt sutam

Shloka 26

जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्सेनस्ततस्तस्माद् भल्लाटो बार्हदीषवा: ॥ २६ ॥

jaigīṣavyopadeśenayoga-tantraṁ cakāra haudaksenas tatas tasmādbhallāṭo bārhadīṣavāḥ

Shloka 27

यवीनरो द्विमीढस्य कृतिमांस्तत्सुत: स्मृत: । नाम्ना सत्यधृतिस्तस्य द‍ृढनेमि: सुपार्श्वकृत् ॥ २७ ॥

yavīnaro dvimīḍhasyakṛtimāṁs tat-sutaḥ smṛtaḥnāmnā satyadhṛtis tasyadṛḍhanemiḥ supārśvakṛt

Shloka 28-29

सुपार्श्वात् सुमतिस्तस्य पुत्र: सन्नतिमांस्तत: । कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट् ॥ २८ ॥ संहिता: प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्तत: । तस्य क्षेम्य: सुवीरोऽथ सुवीरस्य रिपुञ्जय: ॥ २९ ॥

supārśvāt sumatis tasyaputraḥ sannatimāṁs tataḥkṛtī hiraṇyanābhād yoyogaṁ prāpya jagau sma ṣaṭ

Shloka 30

ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् । नलिन्यामजमीढस्य नील: शान्तिस्तु तत्सुत: ॥ ३० ॥

tato bahuratho nāmapurumīḍho ’prajo ’bhavatnalinyām ajamīḍhasyanīlaḥ śāntis tu tat-sutaḥ

Shloka 31-33

शान्ते: सुशान्तिस्तत्पुत्र: पुरुजोऽर्कस्ततोऽभवत् । भर्म्याश्वस्तनयस्तस्य पञ्चासन्मुद्गलादय: ॥ ३१ ॥ यवीनरो बृहद्विश्व: काम्पिल्ल: सञ्जय: सुता: । भर्म्याश्व: प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ ३२ ॥ विषयाणामलमिमे इति पञ्चालसंज्ञिता: । मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ ३३ ॥

śānteḥ suśāntis tat-putraḥpurujo ’rkas tato ’bhavatbharmyāśvas tanayas tasyapañcāsan mudgalādayaḥ

Shloka 34

मिथुनं मुद्गलाद् भार्म्याद् दिवोदास: पुमानभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ ३४ ॥

mithunaṁ mudgalād bhārmyāddivodāsaḥ pumān abhūtahalyā kanyakā yasyāṁśatānandas tu gautamāt

Shloka 35

तस्य सत्यधृति: पुत्रो धनुर्वेदविशारद: । शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल । शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ॥ ३५ ॥

tasya satyadhṛtiḥ putrodhanur-veda-viśāradaḥśaradvāṁs tat-suto yasmādurvaśī-darśanāt kilaśara-stambe ’patad retomithunaṁ tad abhūc chubham

Shloka 36

तद् दृष्ट्वा कृपयागृह्णाच्छान्तनुर्मृगयां चरन् । कृप: कुमार: कन्या च द्रोणपत्‍न्यभवत्कृपी ॥ ३६ ॥

tad dṛṣṭvā kṛpayāgṛhṇācchāntanur mṛgayāṁ carankṛpaḥ kumāraḥ kanyā cadroṇa-patny abhavat kṛpī

← PrevNext →