Canto 9, Chapter 22
श्रीशुक उवाच मित्रायुश्च दिवोदासाच्च्यवनस्तत्सुतो नृप । सुदास: सहदेवोऽथ सोमको जन्तुजन्मकृत् ॥ १ ॥
śrī-śuka uvācamitrāyuś ca divodāsāccyavanas tat-suto nṛpasudāsaḥ sahadevo ’thasomako jantu-janmakṛt
तस्य पुत्रशतं तेषां यवीयान् पृषत: सुत: । स तस्माद् द्रुपदो जज्ञे सर्वसम्पत्समन्वित: ॥ २ ॥
tasya putra-śataṁ teṣāṁyavīyān pṛṣataḥ sutaḥsa tasmād drupado jajñesarva-sampat-samanvitaḥ
द्रुपदाद् द्रौपदी तस्य धृष्टद्युम्नादय: सुता: । धृष्टद्युम्नाद् धृष्टकेतुर्भार्म्या: पाञ्चालका इमे ॥ ३ ॥
drupadād draupadī tasyadhṛṣṭadyumnādayaḥ sutāḥdhṛṣṭadyumnād dhṛṣṭaketurbhārmyāḥ pāñcālakā ime
योऽजमीढसुतो ह्यन्य ऋक्ष: संवरणस्तत: । तपत्यां सूर्यकन्यायां कुरुक्षेत्रपति: कुरु: ॥ ४ ॥ परीक्षि: सुधनुर्जह्नुर्निषधश्च कुरो: सुता: । सुहोत्रोऽभूत् सुधनुषश्च्यवनोऽथ तत: कृती ॥ ५ ॥
yo ’jamīḍha-suto hy anyaṛkṣaḥ saṁvaraṇas tataḥtapatyāṁ sūrya-kanyāyāṁkurukṣetra-patiḥ kuruḥ
वसुस्तस्योपरिचरो बृहद्रथमुखास्तत: । कुशाम्बमत्स्यप्रत्यग्रचेदिपाद्याश्च चेदिपा: ॥ ६ ॥
vasus tasyoparicarobṛhadratha-mukhās tataḥkuśāmba-matsya-pratyagra-cedipādyāś ca cedipāḥ
बृहद्रथात् कुशाग्रोऽभूदृषभस्तस्य तत्सुत: । जज्ञे सत्यहितोऽपत्यं पुष्पवांस्तत्सुतो जहु: ॥ ७ ॥
bṛhadrathāt kuśāgro ’bhūdṛṣabhas tasya tat-sutaḥjajñe satyahito ’patyaṁpuṣpavāṁs tat-suto jahuḥ
अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् । ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते । जीव जीवेति क्रीडन्त्या जरासन्धोऽभवत् सुत: ॥ ८ ॥
anyasyām api bhāryāyāṁśakale dve bṛhadrathātye mātrā bahir utsṛṣṭejarayā cābhisandhitejīva jīveti krīḍantyājarāsandho ’bhavat sutaḥ
ततश्च सहदेवोऽभूत् सोमापिर्यच्छ्रुतश्रवा: । परीक्षिरनपत्योऽभूत् सुरथो नाम जाह्नव: ॥ ९ ॥
tataś ca sahadevo ’bhūtsomāpir yac chrutaśravāḥparīkṣir anapatyo ’bhūtsuratho nāma jāhnavaḥ
ततो विदूरथस्तस्मात् सार्वभौमस्ततोऽभवत् । जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् ॥ १० ॥
tato vidūrathas tasmātsārvabhaumas tato ’bhavatjayasenas tat-tanayorādhiko ’to ’yutāyv abhūt
ततश्चाक्रोधनस्तस्माद् देवातिथिरमुष्य च । ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मज: ॥ ११ ॥
tataś cākrodhanas tasmāddevātithir amuṣya caṛkṣas tasya dilīpo ’bhūtpratīpas tasya cātmajaḥ
देवापि: शान्तनुस्तस्य बाह्लीक इति चात्मजा: । पितृराज्यं परित्यज्य देवापिस्तु वनं गत: ॥ १२ ॥ अभवच्छान्तनू राजा प्राङ्महाभिषसंज्ञित: । यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति स: ॥ १३ ॥
devāpiḥ śāntanus tasyabāhlīka iti cātmajāḥpitṛ-rājyaṁ parityajyadevāpis tu vanaṁ gataḥ
शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शान्तनु: । समा द्वादश तद्राज्ये न ववर्ष यदा विभु: ॥ १४ ॥ शान्तनुर्ब्राह्मणैरुक्त: परिवेत्तायमग्रभुक् । राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये ॥ १५ ॥
śāntim āpnoti caivāgryāṁkarmaṇā tena śāntanuḥsamā dvādaśa tad-rājyena vavarṣa yadā vibhuḥ
एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सोऽब्रवीत् । तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद् विभ्रंशितो गिरा ॥ १६ ॥ वेदवादातिवादान् वै तदा देवो ववर्ष ह । देवापिर्योगमास्थाय कलापग्राममाश्रित: ॥ १७ ॥
evam ukto dvijair jyeṣṭhaṁchandayām āsa so ’bravīttan-mantri-prahitair viprairvedād vibhraṁśito girā
सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति । बाह्लीकात्सोमदत्तोऽभूद् भूरिर्भूरिश्रवास्तत: ॥ १८ ॥ शलश्च शान्तनोरासीद् गङ्गायां भीष्म आत्मवान् । सर्वधर्मविदां श्रेष्ठो महाभागवत: कवि: ॥ १९ ॥
soma-vaṁśe kalau naṣṭekṛtādau sthāpayiṣyatibāhlīkāt somadatto ’bhūdbhūrir bhūriśravās tataḥ
वीरयूथाग्रणीर्येन रामोऽपि युधि तोषित: । शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गद: सुत: ॥ २० ॥
vīra-yūthāgraṇīr yenarāmo ’pi yudhi toṣitaḥśāntanor dāsa-kanyāyāṁjajñe citrāṅgadaḥ sutaḥ
विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हत: । यस्यां पराशरात् साक्षादवतीर्णो हरे: कला ॥ २१ ॥ वेदगुप्तो मुनि: कृष्णो यतोऽहमिदमध्यगाम् । हित्वा स्वशिष्यान् पैलादीन्भगवान् बादरायण: ॥ २२ ॥ मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ । विचित्रवीर्योऽथोवाह काशीराजसुते बलात् ॥ २३ ॥ स्वयंवरादुपानीते अम्बिकाम्बालिके उभे । तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृत: ॥ २४ ॥
vicitravīryaś cāvarajonāmnā citrāṅgado hataḥyasyāṁ parāśarāt sākṣādavatīrṇo hareḥ kalā
क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायण: । धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् ॥ २५ ॥
kṣetre ’prajasya vai bhrāturmātrokto bādarāyaṇaḥdhṛtarāṣṭraṁ ca pāṇḍuṁ caviduraṁ cāpy ajījanat
गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप । तत्र दुर्योधनो ज्येष्ठो दु:शला चापि कन्यका ॥ २६ ॥
gāndhāryāṁ dhṛtarāṣṭrasyajajñe putra-śataṁ nṛpatatra duryodhano jyeṣṭhoduḥśalā cāpi kanyakā
शापान्मैथुनरुद्धस्य पाण्डो: कुन्त्यां महारथा: । जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रय: ॥ २७ ॥ नकुल: सहदेवश्च माद्रयां नासत्यदस्रयो: । द्रौपद्यां पञ्च पञ्चभ्य: पुत्रास्ते पितरोऽभवन् ॥ २८ ॥
śāpān maithuna-ruddhasyapāṇḍoḥ kuntyāṁ mahā-rathāḥjātā dharmānilendrebhyoyudhiṣṭhira-mukhās trayaḥ
युधिष्ठिरात् प्रतिविन्ध्य: श्रुतसेनो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलि: ॥ २९ ॥
yudhiṣṭhirāt prativindhyaḥśrutaseno vṛkodarātarjunāc chrutakīrtis tuśatānīkas tu nākuliḥ
सहदेवसुतो राजञ्छ्रुतकर्मा तथापरे । युधिष्ठिरात् तु पौरव्यां देवकोऽथ घटोत्कच: ॥ ३० ॥ भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्तत: । सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ ३१ ॥
sahadeva-suto rājañchrutakarmā tathāpareyudhiṣṭhirāt tu pauravyāṁdevako ’tha ghaṭotkacaḥ
करेणुमत्यां नकुलो नरमित्रं तथार्जुन: । इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् । मणिपुरपते: सोऽपि तत्पुत्र: पुत्रिकासुत: ॥ ३२ ॥
kareṇumatyāṁ nakulonaramitraṁ tathārjunaḥirāvantam ulupyāṁ vaisutāyāṁ babhruvāhanammaṇipura-pateḥ so ’pitat-putraḥ putrikā-sutaḥ
तव तात: सुभद्रायामभिमन्युरजायत । सर्वातिरथजिद् वीर उत्तरायां ततो भवान् ॥ ३३ ॥
tava tātaḥ subhadrāyāmabhimanyur ajāyatasarvātirathajid vīrauttarāyāṁ tato bhavān
परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा । त्वं च कृष्णानुभावेन सजीवो मोचितोऽन्तकात् ॥ ३४ ॥
parikṣīṇeṣu kuruṣudrauṇer brahmāstra-tejasātvaṁ ca kṛṣṇānubhāvenasajīvo mocito ’ntakāt
तवेमे तनयास्तात जनमेजयपूर्वका: । श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ ३५ ॥
taveme tanayās tātajanamejaya-pūrvakāḥśrutaseno bhīmasenaugrasenaś ca vīryavān
जनमेजयस्त्वां विदित्वा तक्षकान्निधनं गतम् । सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वित: ॥ ३६ ॥
janamejayas tvāṁ viditvātakṣakān nidhanaṁ gatamsarpān vai sarpa-yāgāgnausa hoṣyati ruṣānvitaḥ
कालषेयं पुरोधाय तुरं तुरगमेधषाट् । समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरै: ॥ ३७ ॥
kālaṣeyaṁ purodhāyaturaṁ turaga-medhaṣāṭsamantāt pṛthivīṁ sarvāṁjitvā yakṣyati cādhvaraiḥ
तस्य पुत्र: शतानीको याज्ञवल्क्यात् त्रयीं पठन् । अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ ३८ ॥
tasya putraḥ śatānīkoyājñavalkyāt trayīṁ paṭhanastra-jñānaṁ kriyā-jñānaṁśaunakāt param eṣyati
सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधज: । असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुत: ॥ ३९ ॥
sahasrānīkas tat-putrastataś caivāśvamedhajaḥasīmakṛṣṇas tasyāpinemicakras tu tat-sutaḥ
गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति । उक्तस्ततश्चित्ररथस्तस्माच्छुचिरथ: सुत: ॥ ४० ॥
gajāhvaye hṛte nadyākauśāmbyāṁ sādhu vatsyatiuktas tataś citrarathastasmāc chucirathaḥ sutaḥ
तस्माच्च वृष्टिमांस्तस्य सुषेणोऽथ महीपति: । सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनल: ॥ ४१ ॥
tasmāc ca vṛṣṭimāṁs tasyasuṣeṇo ’tha mahīpatiḥsunīthas tasya bhavitānṛcakṣur yat sukhīnalaḥ
परिप्लव: सुतस्तस्मान्मेधावी सुनयात्मज: । नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज्जनिष्यति ॥ ४२ ॥
pariplavaḥ sutas tasmānmedhāvī sunayātmajaḥnṛpañjayas tato dūrvastimis tasmāj janiṣyati
तिमेर्बृहद्रथस्तस्माच्छतानीक: सुदासज: । शतानीकाद् दुर्दमनस्तस्यापत्यं महीनर: ॥ ४३ ॥
timer bṛhadrathas tasmācchatānīkaḥ sudāsajaḥśatānīkād durdamanastasyāpatyaṁ mahīnaraḥ
दण्डपाणिर्निमिस्तस्य क्षेमको भविता यत: । ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृत: ॥ ४४ ॥ क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । अथ मागधराजानो भाविनो ये वदामि ते ॥ ४५ ॥
daṇḍapāṇir nimis tasyakṣemako bhavitā yataḥbrahma-kṣatrasya vai yonirvaṁśo devarṣi-satkṛtaḥ
भविता सहदेवस्य मार्जारिर्यच्छ्रुतश्रवा: । ततो युतायुस्तस्यापि निरमित्रोऽथ तत्सुत: ॥ ४६ ॥ सुनक्षत्र: सुनक्षत्राद् बृहत्सेनोऽथ कर्मजित् । तत: सुतञ्जयाद् विप्र: शुचिस्तस्य भविष्यति ॥ ४७ ॥ क्षेमोऽथ सुव्रतस्तस्माद् धर्मसूत्र: समस्तत: । द्युमत्सेनोऽथ सुमति: सुबलो जनिता तत: ॥ ४८ ॥
bhavitā sahadevasyamārjārir yac chrutaśravāḥtato yutāyus tasyāpiniramitro ’tha tat-sutaḥ
सुनीथ: सत्यजिदथ विश्वजिद् यद् रिपुञ्जय: । बार्हद्रथाश्च भूपाला भाव्या: साहस्रवत्सरम् ॥ ४९ ॥
sunīthaḥ satyajid athaviśvajid yad ripuñjayaḥbārhadrathāś ca bhūpālābhāvyāḥ sāhasra-vatsaram