Canto 9, Chapter 23
श्रीशुक उवाच अनो: सभानरश्चक्षु: परेष्णुश्च त्रय: सुता: । सभानरात् कालनर: सृञ्जयस्तत्सुतस्तत: ॥ १ ॥
śrī-śuka uvācaanoḥ sabhānaraś cakṣuḥpareṣṇuś ca trayaḥ sutāḥsabhānarāt kālanaraḥsṛñjayas tat-sutas tataḥ
जनमेजयस्तस्य पुत्रो महाशालो महामना: । उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ २ ॥
janamejayas tasya putromahāśālo mahāmanāḥuśīnaras titikṣuś camahāmanasa ātmajau
शिबिर्वर: कृमिर्दक्षश्चत्वारोशीनरात्मजा: । वृषादर्भ: सुधीरश्च मद्र: केकय आत्मवान् ॥ ३ ॥ शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथ: । ततो होमोऽथ सुतपा बलि: सुतपसोऽभवत् ॥ ४ ॥
śibir varaḥ kṛmir dakṣaścatvārośīnarātmajāḥvṛṣādarbhaḥ sudhīraś camadraḥ kekaya ātmavān
अङ्गवङ्गकलिङ्गाद्या: सुह्मपुण्ड्रौड्रसंज्ञिता: । जज्ञिरे दीर्घतमसो बले: क्षेत्रे महीक्षित: ॥ ५ ॥
aṅga-vaṅga-kaliṅgādyāḥsuhma-puṇḍrauḍra-saṁjñitāḥjajñire dīrghatamasobaleḥ kṣetre mahīkṣitaḥ
चक्रु: स्वनाम्ना विषयान् षडिमान् प्राच्यकांश्च ते । खलपानोऽङ्गतो जज्ञे तस्माद् दिविरथस्तत: ॥ ६ ॥
cakruḥ sva-nāmnā viṣayānṣaḍ imān prācyakāṁś ca tekhalapāno ’ṅgato jajñetasmād divirathas tataḥ
सुतो धर्मरथो यस्य जज्ञे चित्ररथोऽप्रजा: । रोमपाद इति ख्यातस्तस्मै दशरथ: सखा ॥ ७ ॥ शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह याम् । देवेऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ ८ ॥ नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणै: । स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥ ९ ॥ प्रजामदाद् दशरथो येन लेभेऽप्रजा: प्रजा: । चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुत: ॥ १० ॥
suto dharmaratho yasyajajñe citraratho ’prajāḥromapāda iti khyātastasmai daśarathaḥ sakhā
बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुता: । आद्याद् बृहन्मनास्तस्माज्जयद्रथ उदाहृत: ॥ ११ ॥
bṛhadratho bṛhatkarmābṛhadbhānuś ca tat-sutāḥādyād bṛhanmanās tasmājjayadratha udāhṛtaḥ
विजयस्तस्य सम्भूत्यां ततो धृतिरजायत । ततो धृतव्रतस्तस्य सत्कर्माधिरथस्तत: ॥ १२ ॥
vijayas tasya sambhūtyāṁtato dhṛtir ajāyatatato dhṛtavratas tasyasatkarmādhirathas tataḥ
योऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् । कुन्त्यापविद्धं कानीनमनपत्योऽकरोत् सुतम् ॥ १३ ॥
yo ’sau gaṅgā-taṭe krīḍanmañjūṣāntargataṁ śiśumkuntyāpaviddhaṁ kānīnamanapatyo ’karot sutam
वृषसेन: सुतस्तस्य कर्णस्य जगतीपते । द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥ १४ ॥
vṛṣasenaḥ sutas tasyakarṇasya jagatīpatedruhyoś ca tanayo babhruḥsetus tasyātmajas tataḥ
आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृत: । धृतस्य दुर्मदस्तस्मात् प्रचेता: प्राचेतस: शतम् ॥ १५ ॥
ārabdhas tasya gāndhārastasya dharmas tato dhṛtaḥdhṛtasya durmadas tasmātpracetāḥ prācetasaḥ śatam
म्लेच्छाधिपतयोऽभूवन्नुदीचीं दिशमाश्रिता: । तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गोऽथ भानुमान् ॥ १६ ॥
mlecchādhipatayo ’bhūvannudīcīṁ diśam āśritāḥturvasoś ca suto vahnirvahner bhargo ’tha bhānumān
त्रिभानुस्तत्सुतोऽस्यापि करन्धम उदारधी: । मरुतस्तत्सुतोऽपुत्र: पुत्रं पौरवमन्वभूत् ॥ १७ ॥
tribhānus tat-suto ’syāpikarandhama udāra-dhīḥmarutas tat-suto ’putraḥputraṁ pauravam anvabhūt
दुष्मन्त: स पुनर्भेजे स्ववंशं राज्यकामुक: । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ १८ ॥ वर्णयामि महापुण्यं सर्वपापहरं नृणाम् । यदोर्वंशं नर: श्रुत्वा सर्वपापै: प्रमुच्यते ॥ १९ ॥
duṣmantaḥ sa punar bhejesva-vaṁśaṁ rājya-kāmukaḥyayāter jyeṣṭha-putrasyayador vaṁśaṁ nararṣabha
यत्रावतीर्णो भगवान् परमात्मा नराकृति: । यदो: सहस्रजित्क्रोष्टा नलो रिपुरिति श्रुता: ॥ २० ॥ चत्वार: सूनवस्तत्र शतजित् प्रथमात्मज: । महाहयो रेणुहयो हैहयश्चेति तत्सुता: ॥ २१ ॥
yatrāvatīrṇo bhagavānparamātmā narākṛtiḥyadoḥ sahasrajit kroṣṭānalo ripur iti śrutāḥ
धर्मस्तु हैहयसुतो नेत्र: कुन्ते: पिता तत: । सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनक: ॥ २२ ॥
dharmas tu haihaya-sutonetraḥ kunteḥ pitā tataḥsohañjir abhavat kuntermahiṣmān bhadrasenakaḥ
दुर्मदो भद्रसेनस्य धनक: कृतवीर्यसू: । कृताग्नि: कृतवर्मा च कृतौजा धनकात्मजा: ॥ २३ ॥
durmado bhadrasenasyadhanakaḥ kṛtavīryasūḥkṛtāgniḥ kṛtavarmā cakṛtaujā dhanakātmajāḥ
अर्जुन: कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुण: ॥ २४ ॥
arjunaḥ kṛtavīryasyasapta-dvīpeśvaro ’bhavatdattātreyād dharer aṁśātprāpta-yoga-mahāguṇaḥ
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवा: । यज्ञदानतपोयोगै: श्रुतवीर्यदयादिभि: ॥ २५ ॥
na nūnaṁ kārtavīryasyagatiṁ yāsyanti pārthivāḥyajña-dāna-tapo-yogaiḥśruta-vīrya-dayādibhiḥ
पञ्चाशीतिसहस्राणि ह्यव्याहतबल: समा: । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ २६ ॥
pañcāśīti sahasrāṇihy avyāhata-balaḥ samāḥanaṣṭa-vitta-smaraṇobubhuje ’kṣayya-ṣaḍ-vasu
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वज: शूरसेनो वृषभो मधुरूर्जित: ॥ २७ ॥
tasya putra-sahasreṣupañcaivorvaritā mṛdhejayadhvajaḥ śūrasenovṛṣabho madhur ūrjitaḥ
जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्वभूत् । क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ २८ ॥
jayadhvajāt tālajaṅghastasya putra-śataṁ tv abhūtkṣatraṁ yat tālajaṅghākhyamaurva-tejopasaṁhṛtam
तेषां ज्येष्ठो वीतिहोत्रो वृष्णि: पुत्रो मधो: स्मृत: । तस्य पुत्रशतं त्वासीद् वृष्णिज्येष्ठं यत: कुलम् ॥ २९ ॥
teṣāṁ jyeṣṭho vītihotrovṛṣṇiḥ putro madhoḥ smṛtaḥtasya putra-śataṁ tv āsīdvṛṣṇi-jyeṣṭhaṁ yataḥ kulam
माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिता: । यदुपुत्रस्य च क्रोष्टो: पुत्रो वृजिनवांस्तत: । स्वाहितोऽतो विषद्गुर्वै तस्य चित्ररथस्तत: ॥ ३० ॥ शशबिन्दुर्महायोगी महाभागो महानभूत् । चतुर्दशमहारत्नश्चक्रवर्त्यपराजित: ॥ ३१ ॥
mādhavā vṛṣṇayo rājanyādavāś ceti saṁjñitāḥyadu-putrasya ca kroṣṭoḥputro vṛjinavāṁs tataḥ
तस्य पत्नीसहस्राणां दशानां सुमहायशा: । दशलक्षसहस्राणि पुत्राणां तास्वजीजनत् ॥ ३२ ॥
tasya patnī-sahasrāṇāṁdaśānāṁ sumahā-yaśāḥdaśa-lakṣa-sahasrāṇiputrāṇāṁ tāsv ajījanat
तेषां तु षट्प्रधानानां पृथुश्रवस आत्मज: । धर्मो नामोशना तस्य हयमेधशतस्य याट् ॥ ३३ ॥
teṣāṁ tu ṣaṭ pradhānānāṁpṛthuśravasa ātmajaḥdharmo nāmośanā tasyahayamedha-śatasya yāṭ
तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजा: शृणु । पूरुजिद्रुक्मरुक्मेषुपृथुज्यामघसंज्ञिता: ॥ ३४ ॥
tat-suto rucakas tasyapañcāsann ātmajāḥ śṛṇupurujid-rukma-rukmeṣu-pṛthu-jyāmagha-saṁjñitāḥ
ज्यामघस्त्वप्रजोऽप्यन्यां भार्यां शैब्यापतिर्भयात् । नाविन्दच्छत्रुभवनाद् भोज्यां कन्यामहारषीत् । रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ ३५ ॥ केयं कुहक मत्स्थानं रथमारोपितेति वै । स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ ३६ ॥
jyāmaghas tv aprajo ’py anyāṁbhāryāṁ śaibyā-patir bhayātnāvindac chatru-bhavanādbhojyāṁ kanyām ahāraṣīt
अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् । जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ ३७ ॥
ahaṁ bandhyāsapatnī casnuṣā me yujyate kathamjanayiṣyasi yaṁ rājñitasyeyam upayujyate
अन्वमोदन्त तद्विश्वेदेवा: पितर एव च । शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् । स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ ३८ ॥
anvamodanta tad viśve-devāḥ pitara eva caśaibyā garbham adhāt kālekumāraṁ suṣuve śubhamsa vidarbha iti proktaupayeme snuṣāṁ satīm