Canto 9, Chapter 4
श्रीशुक उवाच नाभागो नभगापत्यं यं ततं भ्रातर: कविम् । यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ १ ॥
śrī-śuka uvācanābhāgo nabhagāpatyaṁyaṁ tataṁ bhrātaraḥ kavimyaviṣṭhaṁ vyabhajan dāyaṁbrahmacāriṇam āgatam
भ्रातरोऽभाङ्क्त किं मह्यं भजाम पितरं तव । त्वां ममार्यास्तताभाङ्क्षुर्मा पुत्रक तदादृथा: ॥ २ ॥
bhrātaro ’bhāṅkta kiṁ mahyaṁbhajāma pitaraṁ tavatvāṁ mamāryās tatābhāṅkṣurmā putraka tad ādṛthāḥ
इमे अङ्गिरस: सत्रमासतेऽद्य सुमेधस: । षष्ठं षष्ठमुपेत्याह: कवे मुह्यन्ति कर्मणि ॥ ३ ॥
ime aṅgirasaḥ satramāsate ’dya sumedhasaḥṣaṣṭhaṁ ṣaṣṭham upetyāhaḥkave muhyanti karmaṇi
तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मन: । ते स्वर्यन्तो धनं सत्रपरिशेषितमात्मन: ॥ ४ ॥ दास्यन्ति तेऽथ तान्गच्छ तथा स कृतवान् यथा । तस्मै दत्त्वा ययु: स्वर्गं ते सत्रपरिशेषणम् ॥ ५ ॥
tāṁs tvaṁ śaṁsaya sūkte dvevaiśvadeve mahātmanaḥte svar yanto dhanaṁ satra-pariśeṣitam ātmanaḥ
तं कश्चित् स्वीकरिष्यन्तं पुरुष: कृष्णदर्शन: । उवाच ोत्तरतोऽभ्येत्य ममेदं वास्तुकं वसु ॥ ६ ॥
taṁ kaścit svīkariṣyantaṁpuruṣaḥ kṛṣṇa-darśanaḥuvācottarato ’bhyetyamamedaṁ vāstukaṁ vasu
ममेदमृषिभिर्दत्तमिति तर्हि स्म मानव: । स्यान्नौ ते पितरि प्रश्न: पृष्टवान् पितरं यथा ॥ ७ ॥
mamedam ṛṣibhir dattamiti tarhi sma mānavaḥsyān nau te pitari praśnaḥpṛṣṭavān pitaraṁ yathā
यज्ञवास्तुगतं सर्वमुच्छिष्टमृषय: क्वचित् । चक्रुर्हि भागं रुद्राय स देव: सर्वमर्हति ॥ ८ ॥
yajña-vāstu-gataṁ sarvamucchiṣṭam ṛṣayaḥ kvacitcakrur hi bhāgaṁ rudrāyasa devaḥ sarvam arhati
नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् । इत्याह मे पिता ब्रह्मञ्छिरसा त्वां प्रसादये ॥ ९ ॥
nābhāgas taṁ praṇamyāhataveśa kila vāstukamity āha me pitā brahmañchirasā tvāṁ prasādaye
यत् ते पितावदद् धर्मं त्वं च सत्यं प्रभाषसे । ददामि ते मन्त्रदृशो ज्ञानं ब्रह्म सनातनम् ॥ १० ॥
yat te pitāvadad dharmaṁtvaṁ ca satyaṁ prabhāṣasedadāmi te mantra-dṛśojñānaṁ brahma sanātanam
गृहाण द्रविणं दत्तं मत्सत्रपरिशेषितम् । इत्युक्त्वान्तर्हितो रुद्रो भगवान् धर्मवत्सल: ॥ ११ ॥
gṛhāṇa draviṇaṁ dattaṁmat-satra-pariśeṣitamity uktvāntarhito rudrobhagavān dharma-vatsalaḥ
य एतत् संस्मरेत् प्रात: सायं च सुसमाहित: । कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मन: ॥ १२ ॥
ya etat saṁsmaret prātaḥsāyaṁ ca susamāhitaḥkavir bhavati mantra-jñogatiṁ caiva tathātmanaḥ
नाभागादम्बरीषोऽभून्महाभागवत: कृती । नास्पृशद् ब्रह्मशापोऽपि यं न प्रतिहत: क्वचित् ॥ १३ ॥
nābhāgād ambarīṣo ’bhūnmahā-bhāgavataḥ kṛtīnāspṛśad brahma-śāpo ’piyaṁ na pratihataḥ kvacit
श्रीराजोवाचभगवञ्छ्रोतुमिच्छामि राजर्षेस्तस्य धीमत: । न प्राभूद् यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्यय: ॥ १४ ॥
śrī-rājovācabhagavañ chrotum icchāmirājarṣes tasya dhīmataḥna prābhūd yatra nirmuktobrahma-daṇḍo duratyayaḥ
श्रीशुक उवाच अम्बरीषो महाभाग: सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ १५ ॥ मेनेऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ १६ ॥
śrī-śuka uvācaambarīṣo mahā-bhāgaḥsapta-dvīpavatīṁ mahīmavyayāṁ ca śriyaṁ labdhvāvibhavaṁ cātulaṁ bhuvi
वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥ १७ ॥
vāsudeve bhagavatitad-bhakteṣu ca sādhuṣuprāpto bhāvaṁ paraṁ viśvaṁyenedaṁ loṣṭravat smṛtam
स वै मन: कृष्णपदारविन्दयो-र्वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषुश्रुतिं चकाराच्युतसत्कथोदये ॥ १८ ॥ मुकुन्दलिङ्गालयदर्शने दृशौतद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् । घ्राणं च तत्पादसरोजसौरभेश्रीमत्तुलस्या रसनां तदर्पिते ॥ १९ ॥ पादौ हरे: क्षेत्रपदानुसर्पणेशिरो हृषीकेशपदाभिवन्दने । कामं च दास्ये न तु कामकाम्ययायथोत्तमश्लोकजनाश्रया रति: ॥ २० ॥
sa vai manaḥ kṛṣṇa-padāravindayorvacāṁsi vaikuṇṭha-guṇānuvarṇanekarau harer mandira-mārjanādiṣuśrutiṁ cakārācyuta-sat-kathodaye
एवं सदा कर्मकलापमात्मन:परेऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन्महीमिमांतन्निष्ठविप्राभिहित: शशास ह ॥ २१ ॥
evaṁ sadā karma-kalāpam ātmanaḥpare ’dhiyajñe bhagavaty adhokṣajesarvātma-bhāvaṁ vidadhan mahīm imāṁtan-niṣṭha-viprābhihitaḥ śaśāsa ha
ईजेऽश्वमेधैरधियज्ञमीश्वरंमहाविभूत्योपचिताङ्गदक्षिणै: । ततैर्वसिष्ठासितगौतमादिभि-र्धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ २२ ॥
īje ’śvamedhair adhiyajñam īśvaraṁmahā-vibhūtyopacitāṅga-dakṣiṇaiḥtatair vasiṣṭhāsita-gautamādibhirdhanvany abhisrotam asau sarasvatīm
यस्य क्रतुषु गीर्वाणै: सदस्या ऋत्विजो जना: । तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवासस: ॥ २३ ॥
yasya kratuṣu gīrvāṇaiḥsadasyā ṛtvijo janāḥtulya-rūpāś cānimiṣāvyadṛśyanta suvāsasaḥ
स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रिय: । शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् ॥ २४ ॥
svargo na prārthito yasyamanujair amara-priyaḥśṛṇvadbhir upagāyadbhiruttamaśloka-ceṣṭitam
संवर्धयन्ति यत् कामा: स्वाराज्यपरिभाविता: । दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यत: ॥ २५ ॥
saṁvardhayanti yat kāmāḥsvārājya-paribhāvitāḥdurlabhā nāpi siddhānāṁmukundaṁ hṛdi paśyataḥ
स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिव: । स्वधर्मेण हरिं प्रीणन् सर्वान् कामान्शनैर्जहौ ॥ २६ ॥
sa itthaṁ bhakti-yogenatapo-yuktena pārthivaḥsva-dharmeṇa hariṁ prīṇansarvān kāmān śanair jahau
गृहेषु दारेषु सुतेषु बन्धुषुद्विपोत्तमस्यन्दनवाजिवस्तुषु । अक्षय्यरत्नाभरणाम्बरादि-ष्वनन्तकोशेष्वकरोदसन्मतिम् ॥ २७ ॥
gṛheṣu dāreṣu suteṣu bandhuṣudvipottama-syandana-vāji-vastuṣuakṣayya-ratnābharaṇāmbarādiṣvananta-kośeṣv akarod asan-matim
तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् । एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् ॥ २८ ॥
tasmā adād dhariś cakraṁpratyanīka-bhayāvahamekānta-bhakti-bhāvenaprīto bhaktābhirakṣaṇam
आरिराधयिषु: कृष्णं महिष्या तुल्यशीलया । युक्त: सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ २९ ॥
ārirādhayiṣuḥ kṛṣṇaṁmahiṣyā tulya-śīlayāyuktaḥ sāṁvatsaraṁ vīrodadhāra dvādaśī-vratam
व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषित: । स्नात: कदाचित् कालिन्द्यां हरिं मधुवनेऽर्चयत् ॥ ३० ॥
vratānte kārtike māsitri-rātraṁ samupoṣitaḥsnātaḥ kadācit kālindyāṁhariṁ madhuvane ’rcayat
महाभिषेकविधिना सर्वोपस्करसम्पदा । अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभि: ॥ ३१ ॥ तद्गतान्तरभावेन पूजयामास केशवम् । ब्राह्मणांश्च महाभागान् सिद्धार्थानपि भक्तित: ॥ ३२ ॥
mahābhiṣeka-vidhināsarvopaskara-sampadāabhiṣicyāmbarākalpairgandha-mālyārhaṇādibhiḥ
गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् । पय:शीलवयोरूपवत्सोपस्करसम्पदाम् ॥ ३३ ॥ प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् । भोजयित्वा द्विजानग्रे स्वाद्वन्नं गुणवत्तमम् ॥ ३४ ॥ लब्धकामैरनुज्ञात: पारणायोपचक्रमे । तस्य तर्ह्यतिथि: साक्षाद् दुर्वास भगवानभूत् ॥ ३५ ॥
gavāṁ rukma-viṣāṇīnāṁrūpyāṅghrīṇāṁ suvāsasāmpayaḥśīla-vayo-rūpa-vatsopaskara-sampadām
तमानर्चातिथिं भूप: प्रत्युत्थानासनार्हणै: । ययाचेऽभ्यवहाराय पादमूलमुपागत: ॥ ३६ ॥
tam ānarcātithiṁ bhūpaḥpratyutthānāsanārhaṇaiḥyayāce ’bhyavahārāyapāda-mūlam upāgataḥ
प्रतिनन्द्य स तां याञ्चां कर्तुमावश्यकं गत: । निममज्ज बृहद् ध्यायन् कालिन्दीसलिले शुभे ॥ ३७ ॥
pratinandya sa tāṁ yācñāṁkartum āvaśyakaṁ gataḥnimamajja bṛhad dhyāyankālindī-salile śubhe
मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति । चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ॥ ३८ ॥
muhūrtārdhāvaśiṣṭāyāṁdvādaśyāṁ pāraṇaṁ praticintayām āsa dharma-jñodvijais tad-dharma-saṅkaṭe
ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे । यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ॥ ३९ ॥ अम्भसा केवलेनाथ करिष्ये व्रतपारणम् । आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ॥ ४० ॥
brāhmaṇātikrame doṣodvādaśyāṁ yad apāraṇeyat kṛtvā sādhu me bhūyādadharmo vā na māṁ spṛśet
इत्यप: प्राश्य राजर्षिश्चिन्तयन् मनसाच्युतम् । प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव स: ॥ ४१ ॥
ity apaḥ prāśya rājarṣiścintayan manasācyutampratyacaṣṭa kuru-śreṣṭhadvijāgamanam eva saḥ
दुर्वास यमुनाकूलात् कृतावश्यक आगत: । राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ ४२ ॥
durvāsā yamunā-kūlātkṛtāvaśyaka āgataḥrājñābhinanditas tasyabubudhe ceṣṭitaṁ dhiyā
मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलानन: । बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत ॥ ४३ ॥
manyunā pracalad-gātrobhru-kuṭī-kuṭilānanaḥbubhukṣitaś ca sutarāṁkṛtāñjalim abhāṣata
अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत । धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिन: ॥ ४४ ॥
aho asya nṛ-śaṁsasyaśriyonmattasya paśyatadharma-vyatikramaṁ viṣṇorabhaktasyeśa-māninaḥ
यो मामतिथिमायातमातिथ्येन निमन्त्र्य च । अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ॥ ४५ ॥
yo mām atithim āyātamātithyena nimantrya caadattvā bhuktavāṁs tasyasadyas te darśaye phalam
एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपित: । तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ ४६ ॥
evaṁ bruvāṇa utkṛtyajaṭāṁ roṣa-pradīpitaḥtayā sa nirmame tasmaikṛtyāṁ kālānalopamām
तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् । वेपयन्तीं समुद्वीक्ष्य न चचाल पदान्नृप: ॥ ४७ ॥
tām āpatantīṁ jvalatīmasi-hastāṁ padā bhuvamvepayantīṁ samudvīkṣyana cacāla padān nṛpaḥ
प्राग्दिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावक: ॥ ४८ ॥
prāg diṣṭaṁ bhṛtya-rakṣāyāṁpuruṣeṇa mahātmanādadāha kṛtyāṁ tāṁ cakraṁkruddhāhim iva pāvakaḥ
तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् । दुर्वास दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ ४९ ॥
tad-abhidravad udvīkṣyasva-prayāsaṁ ca niṣphalamdurvāsā dudruve bhītodikṣu prāṇa-parīpsayā
तमन्वधावद् भगवद्रथाङ्गंदावाग्निरुद्धूतशिखो यथाहिम् । तथानुषक्तं मुनिरीक्षमाणोगुहां विविक्षु: प्रससार मेरो: ॥ ५० ॥
tam anvadhāvad bhagavad-rathāṅgaṁdāvāgnir uddhūta-śikho yathāhimtathānuṣaktaṁ munir īkṣamāṇoguhāṁ vivikṣuḥ prasasāra meroḥ
दिशो नभ: क्ष्मां विवरान्समुद्रान्लोकान् सपालांस्त्रिदिवं गत: स: । यतो यतो धावति तत्र तत्रसुदर्शनं दुष्प्रसहं ददर्श ॥ ५१ ॥
diśo nabhaḥ kṣmāṁ vivarān samudrānlokān sapālāṁs tridivaṁ gataḥ saḥyato yato dhāvati tatra tatrasudarśanaṁ duṣprasahaṁ dadarśa
अलब्धनाथ: स सदा कुतश्चित्सन्त्रस्तचित्तोऽरणमेषमाण: । देवं विरिञ्चं समगाद्विधात-स्त्राह्यात्मयोनेऽजिततेजसो माम् ॥ ५२ ॥
alabdha-nāthaḥ sa sadā kutaścitsantrasta-citto ’raṇam eṣamāṇaḥdevaṁ viriñcaṁ samagād vidhātastrāhy ātma-yone ’jita-tejaso mām
श्रीब्रह्मोवाचस्थानं मदीयं सहविश्वमेतत्क्रीडावसाने द्विपरार्धसंज्ञे । भ्रूभङ्गमात्रेण हि सन्दिधक्षो:कालात्मनो यस्य तिरोभविष्यति ॥ ५३ ॥ अहं भवो दक्षभृगुप्रधाना:प्रजेशभूतेशसुरेशमुख्या: । सर्वे वयं यन्नियमं प्रपन्नामूर्ध्न्यार्पितं लोकहितं वहाम: ॥ ५४ ॥
śrī-brahmovācasthānaṁ madīyaṁ saha-viśvam etatkrīḍāvasāne dvi-parārdha-saṁjñebhrū-bhaṅga-mātreṇa hi sandidhakṣoḥkālātmano yasya tirobhaviṣyati
प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापित: । दुर्वास: शरणं यात: शर्वं कैलासवासिनम् ॥ ५५ ॥
pratyākhyāto viriñcenaviṣṇu-cakropatāpitaḥdurvāsāḥ śaraṇaṁ yātaḥśarvaṁ kailāsa-vāsinam
श्रीशङ्कर उवाच वयं न तात प्रभवाम भूम्नियस्मिन् परेऽन्येऽप्यजजीवकोशा: । भवन्ति काले न भवन्ति हीदृशा:सहस्रशो यत्र वयं भ्रमाम: ॥ ५६ ॥
śrī-śaṅkara uvācavayaṁ na tāta prabhavāma bhūmniyasmin pare ’nye ’py aja-jīva-kośāḥbhavanti kāle na bhavanti hīdṛśāḥsahasraśo yatra vayaṁ bhramāmaḥ
अहं सनत्कुमारश्च नारदो भगवानज: । कपिलोऽपान्तरतमो देवलो धर्म आसुरि: ॥ ५७ ॥ मरीचिप्रमुखाश्चान्ये सिद्धेशा: पारदर्शना: । विदाम न वयं सर्वे यन्मायां माययावृता: ॥ ५८ ॥ तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि न: । तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ ५९ ॥
ahaṁ sanat-kumāraś canārado bhagavān ajaḥkapilo ’pāntaratamodevalo dharma āsuriḥ
ततो निराशो दुर्वास: पदं भगवतो ययौ । वैकुण्ठाख्यं यदध्यास्ते श्रीनिवास: श्रिया सह ॥ ६० ॥
tato nirāśo durvāsāḥpadaṁ bhagavato yayauvaikuṇṭhākhyaṁ yad adhyāsteśrīnivāsaḥ śriyā saha
सन्दह्यमानोऽजितशस्त्रवह्निनातत्पादमूले पतित: सवेपथु: । आहाच्युतानन्त सदीप्सित प्रभोकृतागसं माव हि विश्वभावन ॥ ६१ ॥
sandahyamāno ’jita-śastra-vahninātat-pāda-mūle patitaḥ savepathuḥāhācyutānanta sad-īpsita prabhokṛtāgasaṁ māvahi viśva-bhāvana
अजानता ते परमानुभावंकृतं मयाघं भवत: प्रियाणाम् । विधेहि तस्यापचितिं विधात-र्मुच्येत यन्नाम्न्युदिते नारकोऽपि ॥ ६२ ॥
ajānatā te paramānubhāvaṁkṛtaṁ mayāghaṁ bhavataḥ priyāṇāmvidhehi tasyāpacitiṁ vidhātarmucyeta yan-nāmny udite nārako ’pi
श्रीभगवानुवाचअहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रिय: ॥ ६३ ॥
śrī-bhagavān uvācaahaṁ bhakta-parādhīnohy asvatantra iva dvijasādhubhir grasta-hṛdayobhaktair bhakta-jana-priyaḥ
नाहमात्मानमाशासे मद्भक्तै: साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ ६४ ॥
nāham ātmānam āśāsemad-bhaktaiḥ sādhubhir vināśriyaṁ cātyantikīṁ brahmanyeṣāṁ gatir ahaṁ parā
ये दारागारपुत्राप्तप्राणान् वित्तमिमं परम् । हित्वा मां शरणं याता: कथं तांस्त्यक्तुमुत्सहे ॥ ६५ ॥
ye dārāgāra-putrāpta-prāṇān vittam imaṁ paramhitvā māṁ śaraṇaṁ yātāḥkathaṁ tāṁs tyaktum utsahe
मयि निर्बद्धहृदया: साधव: समदर्शना: । वशीकुर्वन्ति मां भक्त्या सत्स्त्रिय: सत्पतिं यथा ॥ ६६ ॥
mayi nirbaddha-hṛdayāḥsādhavaḥ sama-darśanāḥvaśe kurvanti māṁ bhaktyāsat-striyaḥ sat-patiṁ yathā
मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णा: कुतोऽन्यत् कालविप्लुतम् ॥ ६७ ॥
mat-sevayā pratītaṁ tesālokyādi-catuṣṭayamnecchanti sevayā pūrṇāḥkuto ’nyat kāla-viplutam
साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् । मदन्यत् ते न जानन्ति नाहं तेभ्यो मनागपि ॥ ६८ ॥
sādhavo hṛdayaṁ mahyaṁsādhūnāṁ hṛdayaṁ tv ahammad-anyat te na jānantināhaṁ tebhyo manāg api
उपायं कथयिष्यामि तव विप्र शृणुष्व तत् । अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् । साधुषु प्रहितं तेज: प्रहर्तु: कुरुतेऽशिवम् ॥ ६९ ॥
upāyaṁ kathayiṣyāmitava vipra śṛṇuṣva tatayaṁ hy ātmābhicāras teyatas taṁ yāhi mā ciramsādhuṣu prahitaṁ tejaḥprahartuḥ kurute ’śivam
तपो विद्या च विप्राणां नि:श्रेयसकरे उभे । ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ ७० ॥
tapo vidyā ca viprāṇāṁniḥśreyasa-kare ubhete eva durvinītasyakalpete kartur anyathā
ब्रह्मंस्तद् गच्छ भद्रं ते नाभागतनयं नृपम् । क्षमापय महाभागं तत: शान्तिर्भविष्यति ॥ ७१ ॥
brahmaṁs tad gaccha bhadraṁ tenābhāga-tanayaṁ nṛpamkṣamāpaya mahā-bhāgaṁtataḥ śāntir bhaviṣyati