Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 176

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्वरहरनानायोगादिवर्णनं नाम पञ्चसप्तत्युत्तरशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १७६ श्रीभगवानुवाच । सप्तरात्रात्प्रजायन्ते खल्वाटस्य कचाः शुभाः । दग्धहस्तिदन्तलेपात्साजाक्षीररसाञ्जनात्

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaraharanānāyogādivarṇanaṃ nāma pañcasaptatyuttaraśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 176 śrībhagavānuvāca / saptarātrātprajāyante khalvāṭasya kacāḥ śubhāḥ / dagdhahastidantalepātsājākṣīrarasāñjanāt

1.176.1

भृङ्गराजरसेनैव चतुर्भागेन साधितम् । केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च

bhṛṅgarājarasenaiva caturbhāgena sādhitam / keśavṛddhikaraṃ tailaṃ guñjācūrṇānvitena ca

1.176.2

एलामांसीकुष्ठमुरायुक्तमभ्यङ्गतः शिवम् । गुञ्जाफलं समादेयं लेपनं चन्द्रलुप्तनुत्

elāmāṃsīkuṣṭhamurāyuktamabhyaṅgataḥ śivam / guñjāphalaṃ samādeyaṃ lepanaṃ candraluptanut

1.176.3

आम्रास्थिचूर्णलेपाद्वै केशाः सूक्ष्मा भवन्ति च । करञ्जामलकैलाललाक्षालेपो ऽरुणापहः

āmrāsthicūrṇalepādvai keśāḥ sūkṣmā bhavanti ca / karañjāmalakailālalākṣālepo 'ruṇāpahaḥ

1.176.4

आम्रास्थिमज्जामलकलेपात्केशा भवन्ति वै । बद्धमूला घना दीर्घाः स्नग्धाः स्युर्नोत्पतन्ति च

āmrāsthimajjāmalakalepātkeśā bhavanti vai / baddhamūlā ghanā dīrghāḥ snagdhāḥ syurnotpatanti ca

1.176.5

विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् । सचतुर्गुणगोमूत्रं मनसः शिलमेव वा

viḍaṅgagandhapāṣāṇasādhitaṃ tailamuttamam / sacaturguṇagomūtraṃ manasaḥ śilameva vā

1.176.6

शिरो ऽभ्यङ्गाच्छिराजन्मयूकालिख्याः क्षयं नयेत् । नवदग्धं शङ्खचूर्णं घृष्टसीसकलेपितम्

śiro 'bhyaṅgācchirājanmayūkālikhyāḥ kṣayaṃ nayet / navadagdhaṃ śaṅkhacūrṇaṃ ghṛṣṭasīsakalepitam

1.176.7

कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज । भृङ्गराजं लोहचूर्णं त्रिफला बीजपूरकम्

kacāḥ ślakṣṇā mahākṛṣṇā bhavanti vṛṣabhadhvaja / bhṛṅgarājaṃ lohacūrṇaṃ triphalā bījapūrakam

1.176.8

नीली च करवीरं च गुडमेतैः समं शृतम् । पलितानीह कृष्णानि कुर्याल्लेपान्महौषधम्

nīlī ca karavīraṃ ca guḍametaiḥ samaṃ śṛtam / palitānīha kṛṣṇāni kuryāllepānmahauṣadham

1.176.9

आम्रास्थिमज्जा त्रिफला नी (ता) ली च भृङ्ग राजकम् । जीर्णं पक्वं लोहचूर्णं काञ्जिकं कृष्णकेशकृत्

āmrāsthimajjā triphalā nī (tā) lī ca bhṛṅga rājakam / jīrṇaṃ pakvaṃ lohacūrṇaṃ kāñjikaṃ kṛṣṇakeśakṛt

1.176.10

चक्रमर्दकबीजानि कुष्ठमेरण्डमूलकम् । अत्यम्लकाञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत्

cakramardakabījāni kuṣṭhameraṇḍamūlakam / atyamlakāñjikaṃ piṣṭvā lepānmastakaroganut

1.176.11

सैन्धवं च वचा हिङ्गु कुष्ठं नागेश्वरं तथा । शतपुष्पा देवदारु एभिस्तैलं तु साधितम्

saindhavaṃ ca vacā hiṅgu kuṣṭhaṃ nāgeśvaraṃ tathā / śatapuṣpā devadāru ebhistailaṃ tu sādhitam

1.176.12

गोपुरीपरसेनैव चतुर्भागेन संयुतम् । तत्कणभरणादुग्रकर्णशूलं क्षयं नयेत्

gopurīparasenaiva caturbhāgena saṃyutam / tatkaṇabharaṇādugrakarṇaśūlaṃ kṣayaṃ nayet

1.176.13

मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणाच्छिव । कर्णयोः पूतिनाशः स्यात्कृमिस्त्रावादिकस्य च

meṣamūtrasaindhavābhyāṃ karṇayorbharaṇācchiva / karṇayoḥ pūtināśaḥ syātkṛmistrāvādikasya ca

1.176.14

मालतीपुप्पदलयो रसेन भरणात्तथा । गोजलेनैव पूरेण पूयस्त्रावो विनश्यति

mālatīpuppadalayo rasena bharaṇāttathā / gojalenaiva pūreṇa pūyastrāvo vinaśyati

1.176.15

कष्ठमाषमरीचानि तगरं मधु पिप्पली । अपामार्गो ऽश्वगन्धा च बृहती सितसर्षपाः

kaṣṭhamāṣamarīcāni tagaraṃ madhu pippalī / apāmārgo 'śvagandhā ca bṛhatī sitasarṣapāḥ

1.176.16

यवास्तिलाः सैन्धवं च पादिकोद्वर्तनं शुभम् । लिङ्गबाहुस्तनानां च कर्णयोर्वृद्धिकृद्भवेत् । कटुतैलं भल्लातकं बृहती फलदाडिमम्

yavāstilāḥ saindhavaṃ ca pādikodvartanaṃ śubham / liṅgabāhustanānāṃ ca karṇayorvṛddhikṛdbhavet / kaṭutailaṃ bhallātakaṃ bṛhatī phaladāḍimam

1.176.17

वल्कलैः साधितैर्लिप्तं लिङ्गं तेन विवर्धते

valkalaiḥ sādhitairliptaṃ liṅgaṃ tena vivardhate

1.176.18

1.1751.177