← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 183
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे द्व्याशीत्यधिकशततमो ऽध्यायः श्रीगरुडमहापुराणम्- १८३ हरिरुवाच । मरिचं शृङ्गवेरं च कुटजत्वचमेव च । पानाच्च ग्रहणी नश्येच्छशाङ्काङ्कितशेखर !
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dvyāśītyadhikaśatatamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 183 hariruvāca / maricaṃ śṛṅgaveraṃ ca kuṭajatvacameva ca / pānācca grahaṇī naśyecchaśāṅkāṅkitaśekhara !
1.183.1
पिप्पली पिप्पलीमूलं मरिचं तगरं वचा । देवदारुरसं पाठां क्षीरेण सह पेषयेत्
pippalī pippalīmūlaṃ maricaṃ tagaraṃ vacā / devadārurasaṃ pāṭhāṃ kṣīreṇa saha peṣayet
1.183.2
अनेनैव प्रयोगेण ह्यतिसारो विनश्यति । मरीचतिलपुष्पाभ्या मञ्जनं कामलापहम्
anenaiva prayogeṇa hyatisāro vinaśyati / marīcatilapuṣpābhyā mañjanaṃ kāmalāpaham
1.183.3
हरीतकी समगुडा मधुना सह योजिता । विरेचनकरी रुद्र ! भवतीति न संशयः
harītakī samaguḍā madhunā saha yojitā / virecanakarī rudra ! bhavatīti na saṃśayaḥ
1.183.4
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी । उरुस्तम्भहरं ह्येतदुत्तमन्तु विरेचनम्
triphalā citrakaṃ citraṃ tathā kaṭukarohiṇī / urustambhaharaṃ hyetaduttamantu virecanam
1.183.5
हरीतकी शृङ्गवेरं देवदारु च चन्दनम् । क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् । ऊरुस्तम्भं जयन्त्या वा सप्तरात्रेण नाशयेत्
harītakī śṛṅgaveraṃ devadāru ca candanam / kvāthayecchāgadugdhena apāmārgasya mūlakam / ūrustambhaṃ jayantyā vā saptarātreṇa nāśayet
1.183.6
अनन्ताशृङ्गवेरस्य सूक्ष्मचूर्णानि कारयेत् । गुग्गुलं गुडतुल्यं च गुटिकामुपयुज्यच । वायुः स्नायुगतं चैव अग्निमान्द्यं च नाशयेत्
anantāśṛṅgaverasya sūkṣmacūrṇāni kārayet / guggulaṃ guḍatulyaṃ ca guṭikāmupayujyaca / vāyuḥ snāyugataṃ caiva agnimāndyaṃ ca nāśayet
1.183.7
सङ्खपुष्पीन्तु पुष्पेण समुद्धृत्य सपत्रिकाम् । समूलां छागदुग्धेन अपस्मारहरं पिबेत्
saṅkhapuṣpīntu puṣpeṇa samuddhṛtya sapatrikām / samūlāṃ chāgadugdhena apasmāraharaṃ pibet
1.183.8
अश्वगन्धाभये चैव उदकेन समं पिबेत् । रक्तपित्तं विनश्येत्तु नात्र कार्या विचारणा
aśvagandhābhaye caiva udakena samaṃ pibet / raktapittaṃ vinaśyettu nātra kāryā vicāraṇā
1.183.9
हरीतकीकुष्ठचूर्णं कृत्वा आस्यं च पूरयेत् । शीतं पीत्वाथ पानीयं सर्वच्छर्दिनिवारणम्
harītakīkuṣṭhacūrṇaṃ kṛtvā āsyaṃ ca pūrayet / śītaṃ pītvātha pānīyaṃ sarvacchardinivāraṇam
1.183.10
गडूचीपद्मकारिष्टधान्याकं रक्तचंन्दनम् । पित्तश्लेष्मज्वरच्छर्दिदाहतृष्णाघ्नमग्निकृत् । ॐ हुं नम इति
gaḍūcīpadmakāriṣṭadhānyākaṃ raktacaṃndanam / pittaśleṣmajvaracchardidāhatṛṣṇāghnamagnikṛt / oṃ huṃ nama iti
1.183.11
श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्त्रेण वै हरेत् । ॐ जम्भिनी स्तम्भिनी मोहय सर्वव्याधीन्मे वज्रेण ठः ठः सर्वव्याधीन्मे वज्रेण फट् इति
śrotre baddhvā śaṅkhapuṣpīṃ jvaraṃ mantreṇa vai haret / oṃ jambhinī stambhinī mohaya sarvavyādhīnme vajreṇa ṭhaḥ ṭhaḥ sarvavyādhīnme vajreṇa phaṭ iti
1.183.12
पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वा नखं स्पृशेत् । चातुर्थिको ज्वरो रुद्र अन्ये चैव ज्वरास्तथा
puṣpamaṣṭaśataṃ japtvā haste dattvā nakhaṃ spṛśet / cāturthiko jvaro rudra anye caiva jvarāstathā
1.183.13
ज्म्बूफलं हरिद्रा च सर्पस्यैव तु कञ्चुकम् । सर्वज्वराणां धूपो ऽयं हरश्चातुर्थिकस्य च
jmbūphalaṃ haridrā ca sarpasyaiva tu kañcukam / sarvajvarāṇāṃ dhūpo 'yaṃ haraścāturthikasya ca
1.183.14
करवीरं भृङ्गपत्रं लवणं कुष्ठकर्कटे । चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् । पामां विचर्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै
karavīraṃ bhṛṅgapatraṃ lavaṇaṃ kuṣṭhakarkaṭe / caturguṇena mūtreṇa pacettailaṃ harecca tat / pāmāṃ vicarcikāṃ kuṣṭhamabhyaṅgāddhi vraṇāni vai
1.183.15
पिप्पलीमधुपानाच्च तथा मधुरभोजनात् । प्लीहा विनश्यते रुद्र तथा सूरणसेवनात्
pippalīmadhupānācca tathā madhurabhojanāt / plīhā vinaśyate rudra tathā sūraṇasevanāt
1.183.16
पिप्पलीञ्च हरिद्राञ्च गोमूत्रेण समन्विताम् । प्रक्षिपेच्च गुदद्वारे अर्शांसि विनिवारयेत्
pippalīñca haridrāñca gomūtreṇa samanvitām / prakṣipecca gudadvāre arśāṃsi vinivārayet
1.183.17
अजादुग्धमार्द्रकञ्च पीतं प्लीहादिनाशनम् । सैन्धवञ्च विडङ्गानि सोमराजी तु सर्षपाः
ajādugdhamārdrakañca pītaṃ plīhādināśanam / saindhavañca viḍaṅgāni somarājī tu sarṣapāḥ
1.183.18
रजनी द्वे विषञ्चैव गोमूत्रेणैव पेषयेत् । कुष्ठनाशश्च तल्लेपान्निम्बपत्रादिना तथा
rajanī dve viṣañcaiva gomūtreṇaiva peṣayet / kuṣṭhanāśaśca tallepānnimbapatrādinā tathā
1.183.19