Achara Khanda (Purva Khanda)

आचारखण्ड — Adhyaya 48

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे प्रासादलिङ्गमण्डपादिलक्षणनिरूपणंनाम सप्तचत्वारिंशो ऽध्यायः श्रीगरुडमहापुराणम्- ४८ सूत उवाच । प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम् । सुतिथ्यादौ सुरम्यां च प्रतिष्ठां कारयेद्गुरुः

iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃnāma saptacatvāriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 48 sūta uvāca / pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham / sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ

1.48.1

ऋत्विग्भिः सह चाचार्यं वरयेन्मध्यदेशगम् । स्वशाखोक्तविधानेन अथ वा प्रणवेन तु

ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam / svaśākhoktavidhānena atha vā praṇavena tu

1.48.2

पञ्चभिर्बहुभिर्वाथ कुर्यात्पाद्यार्घ्यमेव च । मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनैः

pañcabhirbahubhirvātha kuryātpādyārghyameva ca / mudrikābhistathā vastrairgandhamālyānulepanaiḥ

1.48.3

मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत् । प्रासादस्याग्रतः कुर्यान्मण्डपं दशहस्तकम्

mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet / prāsādasyāgrataḥ kuryānmaṇḍapaṃ daśahastakam

1.48.4

कुर्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम् । ध्वजाष्टकैश्चतुर्हस्तां मध्ये वेदिं च कारयेत्

kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam / dhvajāṣṭakaiścaturhastāṃ madhye vediṃ ca kārayet

1.48.5

नदीसंगमतीरात्थां वालुकां तत्र दापयेत् । चतुरश्रं कार्मुकाभं वर्तुलं कमलाकृति

nadīsaṃgamatīrātthāṃ vālukāṃ tatra dāpayet / caturaśraṃ kārmukābhaṃ vartulaṃ kamalākṛti

1.48.6

पूर्वादितः समारभ्य कर्तव्यं कुण्डपञ्चकम् । अथवा चतुरश्राणि सर्वाण्येतानि कारयेत्

pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam / athavā caturaśrāṇi sarvāṇyetāni kārayet

1.48.7

शान्तिकर्मिधानेन सर्वकामार्थसिद्धये । शिरः स्थाने तु देवस्य आचार्यो होममाचरेत्

śāntikarmidhānena sarvakāmārthasiddhaye / śiraḥ sthāne tu devasya ācāryo homamācaret

1.48.8

ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम् । द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके

aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām / dvārāṇi caiva catvāri kṛtvā vai toraṇāntike

1.48.9

न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः । तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलङ्कृताः

nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ / toraṇāḥ pañcahastāśca vastrapuṣpādyalaṅkṛtāḥ

1.48.10

निखनेद्धस्तमेककं चत्वारश्चतुरो दिशः । पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे

nikhaneddhastamekakaṃ catvāraścaturo diśaḥ / pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe

1.48.11

पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे । अग्निमीलेति हि मन्त्रेण प्रथमं पूर्वतो न्यसेत्

paścime gopatirnāma suraśārdūlamuttare / agnimīleti hi mantreṇa prathamaṃ pūrvato nyaset

1.48.12

ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् । अग्नायाहिमन्त्रेण पश्चिमस्यां तृतीयकम्

īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam / agnāyāhimantreṇa paścimasyāṃ tṛtīyakam

1.48.13

शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम् । पूर्वे अम्बुदवत्कार्या आग्नोय्यां धूमरूपिणी

śannodevīti mantreṇa uttarasyāṃ caturthakam / pūrve ambudavatkāryā āgnoyyāṃ dhūmarūpiṇī

1.48.14

याम्यां वै कृष्णरूपा तु नैरृत्या श्यामला (धूसरा) भवेत् । वारुण्यां पाण्डुरा ज्ञेया वायव्यां पीतवर्णिका

yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā (dhūsarā) bhavet / vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā

1.48.15

उत्तरे रक्तवर्णा तु शुक्लेशी च पताकिका । बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके

uttare raktavarṇā tu śukleśī ca patākikā / bahurūpā tathā madhye indravidyeti pūrvake

1.48.16

आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे । पूज्या रक्षोहनोवेति पश्चिमे उत्तरे ऽपि च

āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe / pūjyā rakṣohanoveti paścime uttare 'pi ca

1.48.17

वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे । तमीशानमतश्चैव विष्णोर्नुकेति मध्यमे

vāta ityabhiṣicyātha āpyāyasveti cottare / tamīśānamataścaiva viṣṇornuketi madhyame

1.48.18

कलशौ तु ततो द्वौद्वौ निवेश्यौ तोरणान्तिके । वस्त्रयुग्मसमायुक्ताश्चन्दनाद्यैः स्वलङ्कृताः

kalaśau tu tato dvaudvau niveśyau toraṇāntike / vastrayugmasamāyuktāścandanādyaiḥ svalaṅkṛtāḥ

1.48.19

पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः । दिक्पालाश्च ततः पूज्याः शास्त्रदृष्टेन कर्मणा

puṣpairvitānairbahulairādivarṇābhimantritāḥ / dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā

1.48.20

त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्धेति चापरे । अस्मिन्वृक्ष इतं चैव प्रचारीति परा स्मृता

trātāramindrabhantreṇa agnirmūrdheti cāpare / asminvṛkṣa itaṃ caiva pracārīti parā smṛtā

1.48.21

किञ्चेदधातु आचत्वाभित्वादेति च सप्तमी । इमारुद्रेति दिक्यालान्पूजयित्वा विचक्षणः

kiñcedadhātu ācatvābhitvādeti ca saptamī / imārudreti dikyālānpūjayitvā vicakṣaṇaḥ

1.48.22

होमद्रव्याणि वायव्ये कुर्यात्सोपस्कराणि च । शङ्खाञ्छास्त्रोदिताञ्छ्वेतान्नेत्राभ्यां विन्यसेद्गुरुः

homadravyāṇi vāyavye kuryātsopaskarāṇi ca / śaṅkhāñchāstroditāñchvetānnetrābhyāṃ vinyasedguruḥ

1.48.23

आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः । त्दृदयादीनि चाङ्गानि व्याहृतिप्रणवेन च

ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ / tdṛdayādīni cāṅgāni vyāhṛtipraṇavena ca

1.48.24

अस्त्रं चैव समस्तानां न्यासो ऽयं सर्वकामिकः । अक्षतान्विष्टरं चैव अस्त्रेणैवाभिमन्त्रितान्

astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ / akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān

1.48.25

विष्टरेण स्पृशेद्दुव्यान्यागमण्डपसंभृतान् । अक्षतान्विकिरेत्पश्चादस्त्रपूतान्समन्ततः

viṣṭareṇa spṛśedduvyānyāgamaṇḍapasaṃbhṛtān / akṣatānvikiretpaścādastrapūtānsamantataḥ

1.48.26

शक्रीं दिशमथारभ्य यावदीशानगोचरम् । अवकीर्याक्षतार्न्संवांल्लेपयेन्मण्डपं ततः

śakrīṃ diśamathārabhya yāvadīśānagocaram / avakīryākṣatārnsaṃvāṃllepayenmaṇḍapaṃ tataḥ

1.48.27

गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः । तेनार्घ्यपात्रतोयेन प्रोक्षयेद्यागमण्डपम्

gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ / tenārghyapātratoyena prokṣayedyāgamaṇḍapam

1.48.28

प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत् । ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च बर्धनीम्

pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset / aiśānyāṃ pūjayedyāmye astreṇaiva ca bardhanīm

1.48.29

कलशं वर्धनीं चैव ग्रहान्वास्त्तोष्पतिं तथा । आसनेतानि सर्वाणि प्रणवाख्यं जपेद्गुरुः

kalaśaṃ vardhanīṃ caiva grahānvāsttoṣpatiṃ tathā / āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ

1.48.30

सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम् । सर्वौषधीगन्धलिप्तं पूजयेत्कलशं गुरुः

sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam / sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ

1.48.31

देवस्तु कलशे पूज्यो वर्धन्या वस्त्रमुत्तमम् । वर्धन्या तु समायुक्तं कलशं भ्रामयेदनु

devastu kalaśe pūjyo vardhanyā vastramuttamam / vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu

1.48.32

वर्धनीधारया सिञ्चन्नग्रतो धारयेत्ततः । अभ्यर्च्य वर्धनीकुम्भं स्थण्डिले देवमर्चयेत्

vardhanīdhārayā siñcannagrato dhārayettataḥ / abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet

1.48.33

घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम् । देवमीशानकोणे तु जपेद्वास्तोष्पतिं बुधः

ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam / devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ

1.48.34

वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये । कुम्भस्य पूर्वतो भूतं गणदेवं बलिं हरेत्

vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye / kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret

1.48.35

पठेदिति च विद्याश्च कुर्यादालम्भनं बुधः । योगेयोगेति मन्त्रेणास्तरणं शाद्वलैः कुशैः

paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ / yogeyogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ

1.48.36

ऋत्विग्भिः सार्धमाचार्यः स्नानपीठे गुरुस्तदा । विविधैर्ब्रह्मघोषैश्च पुण्याहजयमङ्गलैः

ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā / vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ

1.48.37

कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः । ऐशान्यामानयेत्पीठमण्डपे विन्यसेद्गुरुः

kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ / aiśānyāmānayetpīṭhamaṇḍape vinyasedguruḥ

1.48.38

भद्रङ्कर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु । संस्नाप्य लक्षणोद्धारं कुर्यात्तूर्यादि (दूराभि) वादनैः

bhadraṅkarṇetyatha snātvā sūtravalkalajena tu / saṃsnāpya lakṣaṇoddhāraṃ kuryāttūryādi (dūrābhi) vādanaiḥ

1.48.39

मधुसर्पिः समायुक्तं कांस्ये वा ताम्रभाजने । अक्षिणी चाञ्जयेच्चास्य सुवर्णस्य शलाकया

madhusarpiḥ samāyuktaṃ kāṃsye vā tāmrabhājane / akṣiṇī cāñjayeccāsya suvarṇasya śalākayā

1.48.40

अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत् । लक्षणे क्रियमाणे तु नामैकं स्थापको व(द) देत्

agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet / lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako va(da) det

1.48.41

इमंमेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया । अग्निर्मूर्धेति मन्त्रेण दद्याद्वल्मी कमृत्तिकाम्

imaṃmegaṅgemantreṇa netrayoḥ śītalakriyā / agnirmūrdheti mantreṇa dadyādvalmī kamṛttikām

1.48.42

बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च । यज्ञायज्ञेति मन्त्रेण दद्यात्पञ्चकषायकम्

bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca / yajñāyajñeti mantreṇa dadyātpañcakaṣāyakam

1.48.43

पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः । सहदेवी बला चैव शतमूली शतावरी

pañcagavyaṃ snāpayecca sahadevyādi bhistataḥ / sahadevī balā caiva śatamūlī śatāvarī

1.48.44

कुमारी च गुडूची च सिंही व्याघ्री तथैव च । या ओषधीति मन्त्रेण स्नानमोषधिमज्जलैः

kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca / yā oṣadhīti mantreṇa snānamoṣadhimajjalaiḥ

1.48.45

याः फलिनीति मन्त्रेण फलस्नानं विधीयते । द्रुपदादिवेति मन्त्रेण कार्यमुद्वर्तनं बुधैः

yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate / drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ

1.48.46

कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात् । रत्नानि चैव धान्यानि ओषधीं शतपुष्पिकाम्

kalaśeṣu ca vinyasya uttarādiṣvanukramāt / ratnāni caiva dhānyāni oṣadhīṃ śatapuṣpikām

1.48.47

समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः । क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुनः

samudrāṃścaiva vinyasya caturaścaturo diśaḥ / kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ

1.48.48

आप्यायस्व दधिक्राव्णो या औषधीरितीति च । तेजो ऽसीति च मन्त्रैश्च कुम्भं चैवाभिमन्त्रयेत्

āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca / tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet

1.48.49

समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः । स्नातश्चैव सुवेषश्च धूपो देयश्च गुग्गुलुः

samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ / snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ

1.48.50

अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत् । पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा

abhiṣekāya kumbheṣu tattattīrthāni vinyaset / pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā

1.48.51

या ओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत् । तेन तोयेन यः स्नायात्स मुच्येत्सर्वपातकैः

yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet / tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ

1.48.52

अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः । गन्धद्वारेति गन्धं च न्यासं वै वेदमन्त्रकैः

abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ / gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ

1.48.53

स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम् । कविहाविति मन्त्रेण आनयेन्मण्डपं शुभम्

svaśāstravihitaiḥ prāptairyuvaṃvastreti vastrakam / kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham

1.48.54

शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत् । विश्वतश्चक्षुर्मन्त्रेण कुर्यात्सकलनिष्कलम्

śambhavāyeti mantreṇa śayyāyāṃ viniveśayet / viśvataścakṣurmantreṇa kuryātsakalaniṣkalam

1.48.55

स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत् । स्वशास्त्रविहितो मन्त्रो न्यासस्तस्मिंस्तथोदितः

sthitvā caiva pare tattve mantranyāsaṃ tu kārayet / svaśāstravihito mantro nyāsastasmiṃstathoditaḥ

1.48.56

वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः । यथाशास्त्रं निवेद्यानि पादमूले तु दापयेत्

vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ / yathāśāstraṃ nivedyāni pādamūle tu dāpayet

1.48.57

अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम् । कलशं सहिरण्यं च शिरः स्थाने निवेदयेत्

atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam / kalaśaṃ sahiraṇyaṃ ca śiraḥ sthāne nivedayet

1.48.58

स्थित्वा कुण्डसमीपे ऽथ अग्नेः स्थापनमाचरेत् । स्वशास्त्रविहितैर्मन्त्रैर्वेदोक्तैर्वाथ वा गुरुः

sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret / svaśāstravihitairmantrairvedoktairvātha vā guruḥ

1.48.59

श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम् । वृषाकपिं च मित्रं बह्वचः पूर्वतो जपेत्

śrīsūktaṃ pāvamānyaṃ ca vāsadāmyasavājinam / vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet

1.48.60

रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् । ब्रह्माणं पितृमैत्रं च अध्वर्युर्दक्षिणे जपेत्

rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam / brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet

1.48.61

वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम् । भेरुण्डानि च सामानि छन्दोगः पश्चिमे जपेत्

vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram / bheruṇḍāni ca sāmāni chandogaḥ paścime japet

1.48.62

अथर्वशिरसं चैव कुम्भसूक्तमथर्वणः । नीलरुद्रांश्च मैत्रं च अथर्वश्चोत्तरे जपेत्

atharvaśirasaṃ caiva kumbhasūktamatharvaṇaḥ / nīlarudrāṃśca maitraṃ ca atharvaścottare japet

1.48.63

कुण्डं चास्त्रेण संप्रोक्ष्य आचार्यस्तु विशेषतः । ताम्रपात्रे शरावे वा यथाविभवतो ऽपि वा

kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ / tāmrapātre śarāve vā yathāvibhavato 'pi vā

1.48.64

जातवेदसमानीय अग्रतस्तं निवेशयेत् । अस्त्रेण ज्वालयेद्वह्निं कवचेन तु वेष्टयेत्

jātavedasamānīya agratastaṃ niveśayet / astreṇa jvālayedvahniṃ kavacena tu veṣṭayet

1.48.65

अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः । पात्रं गृह्य कराभ्यां च कुण्डं भ्राम्य ततः पुनः

amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ / pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ

1.48.66

वैष्णवेन तु योगेन परं तेजस्तु निः क्षिपेत् । दक्षिणे स्थापयेद्ब्रह्म प्रणीताञ्चोत्तरेण तु

vaiṣṇavena tu yogena paraṃ tejastu niḥ kṣipet / dakṣiṇe sthāpayedbrahma praṇītāñcottareṇa tu

1.48.67

साधारणेन मन्त्रेण स्वसूत्रविहितेन वा । दिक्षुदिक्षु ततो दद्यात्परिधिं विष्टरैः सह

sādhāraṇena mantreṇa svasūtravihitena vā / dikṣudikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha

1.48.68

ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु । दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितम्

brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu / darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam

1.48.69

दर्भतोयेन संस्पृष्टो मन्त्रहीनो ऽपि शुध्यति । प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखण्डितैः

darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati / prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ

1.48.70

विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत् । अग्नेस्तु रक्षणार्थाय यदुक्तं कर्म न्त्रवित्

vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet / agnestu rakṣaṇārthāya yaduktaṃ karma ntravit

1.48.71

आचार्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम् । पवित्रं तु ततः कृत्वा कुर्यादाज्यस्य संस्कृतिम्

ācāryāḥ kecidicchanti jātakarmādyanantaram / pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim

1.48.72

आचार्यो ऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम् । आज्यभागाभिघारान्तमवेक्षेताज्यसिद्धये

ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam / ājyabhāgābhighārāntamavekṣetājyasiddhaye

1.48.73

पञ्चपञ्चाहुतीर्हुत्वा आज्येन तदनन्तरम् । गर्भाधानादितस्तावद्यावद्गौदानिकं भवेत्

pañcapañcāhutīrhutvā ājyena tadanantaram / garbhādhānāditastāvadyāvadgaudānikaṃ bhavet

1.48.74

स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत् । ततः पूर्णाहुतिं दत्त्वा पूर्णात्पूर्णमनारेथः

svaśāstravihitairmantraiḥ praṇavenātha homayet / tataḥ pūrṇāhutiṃ dattvā pūrṇātpūrṇamanārethaḥ

1.48.75

एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः । पूजयित्वा ततो वह्निं कुण्डेषु विहरेत्तथा

evamutpādito vahniḥ sarvakarmasu siddhidaḥ / pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā

1.48.76

इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतंशतम् । पुर्णाहुतिं शतस्यान्ते सर्वेषां चैव होमयेत्

indrādīnāṃ svamantraiśca tathāhutiśataṃśatam / purṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet

1.48.77

स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत् । देवताश्चैव मन्त्रांश्च तथैव जातवेदसम्

svāmāhutimathājyeṣu hotā tatkalaśe nyaset / devatāścaiva mantrāṃśca tathaiva jātavedasam

1.48.78

आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत् । निष्कृष्य बहिराचार्यो दिक्पालानां बलिं हरेत्

ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet / niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret

1.48.79

भूतानां चैव देवानां नागानां च प्रयोगतः । तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम्

bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ / tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam

1.48.80

आज्यं तयोः सहकारि तत्प्रधानं यदङ्क(क्ष)योः । परुषसुक्तं पूर्वेणैव रुद्रचैव तु दक्षिणे

ājyaṃ tayoḥ sahakāri tatpradhānaṃ yadaṅka(kṣa)yoḥ / paruṣasuktaṃ pūrveṇaiva rudracaiva tu dakṣiṇe

1.48.81

ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे । नीलरुद्रो महामन्त्रः कुम्भसूक्तमथर्वणः

jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime / nīlarudro mahāmantraḥ kumbhasūktamatharvaṇaḥ

1.48.82

हुत्वा सहस्रमेकैकं देवं शिरसि कल्पयेत् । एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुनः

hutvā sahasramekaikaṃ devaṃ śirasi kalpayet / evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ

1.48.83

शिरः स्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात् । वेदानामादिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः

śiraḥ sthāneṣu juhuyādāviśeccāpyanukramāt / vedānāmādimantrairvā mantrairvā devanāmabhiḥ

1.48.84

स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः । गायत्त्र्या वाथवाचार्यो व्याहृतिप्रणवेन तु

svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ / gāyattryā vāthavācāryo vyāhṛtipraṇavena tu

1.48.85

एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः । चरणावग्निमीऌए तु इषेत्वो गुल्फयोः स्थिताः

evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ / caraṇāvagnimīḷe tu iṣetvo gulphayoḥ sthitāḥ

1.48.86

अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी । बृहद्रथन्तरे ऊरू उदरेष्वातिलो (स्वातिनो) न्यसेत्

agna āyāhi jaṅghe dve śannodevīti jānunī / bṛhadrathantare ūrū udareṣvātilo (svātino) nyaset

1.48.87

दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत् । त्रातारमिन्द्रमुरसि नेत्राभ्यां तु त्रियम्बकम्

dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset / trātāramindramurasi netrābhyāṃ tu triyambakam

1.48.88

मूर्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत् । उत्था पयेत्ततो देवमुत्तिष्ठब्रह्मणस्पते !

mūrdhābhava tathā mūrdhni ālagnāddhomamācaret / utthā payettato devamuttiṣṭhabrahmaṇaspate !

1.48.89

वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम् । पिण्डिकालंभनं कृत्वा देवस्यत्वेति मन्त्रवित्

vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam / piṇḍikālaṃbhanaṃ kṛtvā devasyatveti mantravit

1.48.90

दिक्पा लान्सह रत्नैश्च धातूनोषधयस्तथा । लौहबीजानि सिद्धानि पश्चाद्देवं तु विन्यसेत्

dikpā lānsaha ratnaiśca dhātūnoṣadhayastathā / lauhabījāni siddhāni paścāddevaṃ tu vinyaset

1.48.91

न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत् । ईषन्मध्यं परित्यज्य ततो दोषापहं तु तत्

na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet / īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat

1.48.92

तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत् । ॐ स्थिरो भव शिवो भव प्रजाभ्यश्च नमोनमः

tilasya tuṣamātraṃ tu uttaraṃ kiñcidānayet / oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ

1.48.93

देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः । तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे

devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ / tattvavarṇakalāmātraṃ prajāni bhuvanātmaje

1.48.94

षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् । सम्पातकलशेनैव स्नापयेत्सुप्रतिष्ठितम्

ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet / sampātakalaśenaiva snāpayetsupratiṣṭhitam

1.48.95

दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत् । अर्घ्यं दत्त्वा नमस्कृत्य ततो देवं क्षमापयेत्

dīpadhūpasugandhaiśca naivedyaiśca prapūjayet / arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet

1.48.96

पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम् । ऋत्त्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तितः

pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam / ṛttvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ

1.48.97

चतुर्थौ जुहुयात्पश्चाद्यजमानः समाहितः । आहुतीनां शतं हुत्वा ततः पूर्णां प्रदापयेत्

caturthau juhuyātpaścādyajamānaḥ samāhitaḥ / āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet

1.48.98

निष्क्रम्य बहिराचार्यो दिक्पालानां बलिं हरेत् । आचार्यः पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत्

niṣkramya bahirācāryo dikpālānāṃ baliṃ haret / ācāryaḥ puṣpahastastu kṣamasveti visarjayet

1.48.99

यागान्ते कपिलां दद्यादाचार्याय च चामरम् । मुकुटं कुण्डलं छत्रं केयूरं कटिसूत्रकम्

yāgānte kapilāṃ dadyādācāryāya ca cāmaram / mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam

1.48.100

व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम् । भोजनं च महात्कुर्यात्कृतकृत्यश्च जायते । यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः

vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam / bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate / yajamāno vimuktaḥ syātsthāpakasya prasādataḥ

1.48.101

1.471.49