← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 48
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे प्रासादलिङ्गमण्डपादिलक्षणनिरूपणंनाम सप्तचत्वारिंशो ऽध्यायः श्रीगरुडमहापुराणम्- ४८ सूत उवाच । प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम् । सुतिथ्यादौ सुरम्यां च प्रतिष्ठां कारयेद्गुरुः
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃnāma saptacatvāriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 48 sūta uvāca / pratiṣṭhāṃ sarvadevānāṃ saṃkṣepeṇa vadāmyaham / sutithyādau suramyāṃ ca pratiṣṭhāṃ kārayedguruḥ
1.48.1
ऋत्विग्भिः सह चाचार्यं वरयेन्मध्यदेशगम् । स्वशाखोक्तविधानेन अथ वा प्रणवेन तु
ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam / svaśākhoktavidhānena atha vā praṇavena tu
1.48.2
पञ्चभिर्बहुभिर्वाथ कुर्यात्पाद्यार्घ्यमेव च । मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनैः
pañcabhirbahubhirvātha kuryātpādyārghyameva ca / mudrikābhistathā vastrairgandhamālyānulepanaiḥ
1.48.3
मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत् । प्रासादस्याग्रतः कुर्यान्मण्डपं दशहस्तकम्
mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet / prāsādasyāgrataḥ kuryānmaṇḍapaṃ daśahastakam
1.48.4
कुर्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम् । ध्वजाष्टकैश्चतुर्हस्तां मध्ये वेदिं च कारयेत्
kuryāddvādaśahastaṃ vā stambhaiḥ ṣoḍaśabhiryutam / dhvajāṣṭakaiścaturhastāṃ madhye vediṃ ca kārayet
1.48.5
नदीसंगमतीरात्थां वालुकां तत्र दापयेत् । चतुरश्रं कार्मुकाभं वर्तुलं कमलाकृति
nadīsaṃgamatīrātthāṃ vālukāṃ tatra dāpayet / caturaśraṃ kārmukābhaṃ vartulaṃ kamalākṛti
1.48.6
पूर्वादितः समारभ्य कर्तव्यं कुण्डपञ्चकम् । अथवा चतुरश्राणि सर्वाण्येतानि कारयेत्
pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam / athavā caturaśrāṇi sarvāṇyetāni kārayet
1.48.7
शान्तिकर्मिधानेन सर्वकामार्थसिद्धये । शिरः स्थाने तु देवस्य आचार्यो होममाचरेत्
śāntikarmidhānena sarvakāmārthasiddhaye / śiraḥ sthāne tu devasya ācāryo homamācaret
1.48.8
ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम् । द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके
aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām / dvārāṇi caiva catvāri kṛtvā vai toraṇāntike
1.48.9
न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः । तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलङ्कृताः
nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ / toraṇāḥ pañcahastāśca vastrapuṣpādyalaṅkṛtāḥ
1.48.10
निखनेद्धस्तमेककं चत्वारश्चतुरो दिशः । पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे
nikhaneddhastamekakaṃ catvāraścaturo diśaḥ / pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe
1.48.11
पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे । अग्निमीलेति हि मन्त्रेण प्रथमं पूर्वतो न्यसेत्
paścime gopatirnāma suraśārdūlamuttare / agnimīleti hi mantreṇa prathamaṃ pūrvato nyaset
1.48.12
ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् । अग्नायाहिमन्त्रेण पश्चिमस्यां तृतीयकम्
īṣetvetihi mantreṇa dakṣiṇasyāṃ dvitīyakam / agnāyāhimantreṇa paścimasyāṃ tṛtīyakam
1.48.13
शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम् । पूर्वे अम्बुदवत्कार्या आग्नोय्यां धूमरूपिणी
śannodevīti mantreṇa uttarasyāṃ caturthakam / pūrve ambudavatkāryā āgnoyyāṃ dhūmarūpiṇī
1.48.14
याम्यां वै कृष्णरूपा तु नैरृत्या श्यामला (धूसरा) भवेत् । वारुण्यां पाण्डुरा ज्ञेया वायव्यां पीतवर्णिका
yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā (dhūsarā) bhavet / vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā
1.48.15
उत्तरे रक्तवर्णा तु शुक्लेशी च पताकिका । बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके
uttare raktavarṇā tu śukleśī ca patākikā / bahurūpā tathā madhye indravidyeti pūrvake
1.48.16
आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे । पूज्या रक्षोहनोवेति पश्चिमे उत्तरे ऽपि च
āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe / pūjyā rakṣohanoveti paścime uttare 'pi ca
1.48.17
वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे । तमीशानमतश्चैव विष्णोर्नुकेति मध्यमे
vāta ityabhiṣicyātha āpyāyasveti cottare / tamīśānamataścaiva viṣṇornuketi madhyame
1.48.18
कलशौ तु ततो द्वौद्वौ निवेश्यौ तोरणान्तिके । वस्त्रयुग्मसमायुक्ताश्चन्दनाद्यैः स्वलङ्कृताः
kalaśau tu tato dvaudvau niveśyau toraṇāntike / vastrayugmasamāyuktāścandanādyaiḥ svalaṅkṛtāḥ
1.48.19
पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः । दिक्पालाश्च ततः पूज्याः शास्त्रदृष्टेन कर्मणा
puṣpairvitānairbahulairādivarṇābhimantritāḥ / dikpālāśca tataḥ pūjyāḥ śāstradṛṣṭena karmaṇā
1.48.20
त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्धेति चापरे । अस्मिन्वृक्ष इतं चैव प्रचारीति परा स्मृता
trātāramindrabhantreṇa agnirmūrdheti cāpare / asminvṛkṣa itaṃ caiva pracārīti parā smṛtā
1.48.21
किञ्चेदधातु आचत्वाभित्वादेति च सप्तमी । इमारुद्रेति दिक्यालान्पूजयित्वा विचक्षणः
kiñcedadhātu ācatvābhitvādeti ca saptamī / imārudreti dikyālānpūjayitvā vicakṣaṇaḥ
1.48.22
होमद्रव्याणि वायव्ये कुर्यात्सोपस्कराणि च । शङ्खाञ्छास्त्रोदिताञ्छ्वेतान्नेत्राभ्यां विन्यसेद्गुरुः
homadravyāṇi vāyavye kuryātsopaskarāṇi ca / śaṅkhāñchāstroditāñchvetānnetrābhyāṃ vinyasedguruḥ
1.48.23
आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः । त्दृदयादीनि चाङ्गानि व्याहृतिप्रणवेन च
ālokanena dravyāṇi śuddhiṃ yānti na saṃśayaḥ / tdṛdayādīni cāṅgāni vyāhṛtipraṇavena ca
1.48.24
अस्त्रं चैव समस्तानां न्यासो ऽयं सर्वकामिकः । अक्षतान्विष्टरं चैव अस्त्रेणैवाभिमन्त्रितान्
astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ / akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān
1.48.25
विष्टरेण स्पृशेद्दुव्यान्यागमण्डपसंभृतान् । अक्षतान्विकिरेत्पश्चादस्त्रपूतान्समन्ततः
viṣṭareṇa spṛśedduvyānyāgamaṇḍapasaṃbhṛtān / akṣatānvikiretpaścādastrapūtānsamantataḥ
1.48.26
शक्रीं दिशमथारभ्य यावदीशानगोचरम् । अवकीर्याक्षतार्न्संवांल्लेपयेन्मण्डपं ततः
śakrīṃ diśamathārabhya yāvadīśānagocaram / avakīryākṣatārnsaṃvāṃllepayenmaṇḍapaṃ tataḥ
1.48.27
गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः । तेनार्घ्यपात्रतोयेन प्रोक्षयेद्यागमण्डपम्
gandhādyairarghyapātre ca mantragrāmaṃ nyasedguruḥ / tenārghyapātratoyena prokṣayedyāgamaṇḍapam
1.48.28
प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत् । ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च बर्धनीम्
pratiṣṭhā yasya devasya tadākhyaṃ kalaśaṃ nyaset / aiśānyāṃ pūjayedyāmye astreṇaiva ca bardhanīm
1.48.29
कलशं वर्धनीं चैव ग्रहान्वास्त्तोष्पतिं तथा । आसनेतानि सर्वाणि प्रणवाख्यं जपेद्गुरुः
kalaśaṃ vardhanīṃ caiva grahānvāsttoṣpatiṃ tathā / āsanetāni sarvāṇi praṇavākhyaṃ japedguruḥ
1.48.30
सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम् । सर्वौषधीगन्धलिप्तं पूजयेत्कलशं गुरुः
sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam / sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ
1.48.31
देवस्तु कलशे पूज्यो वर्धन्या वस्त्रमुत्तमम् । वर्धन्या तु समायुक्तं कलशं भ्रामयेदनु
devastu kalaśe pūjyo vardhanyā vastramuttamam / vardhanyā tu samāyuktaṃ kalaśaṃ bhrāmayedanu
1.48.32
वर्धनीधारया सिञ्चन्नग्रतो धारयेत्ततः । अभ्यर्च्य वर्धनीकुम्भं स्थण्डिले देवमर्चयेत्
vardhanīdhārayā siñcannagrato dhārayettataḥ / abhyarcya vardhanīkumbhaṃ sthaṇḍile devamarcayet
1.48.33
घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम् । देवमीशानकोणे तु जपेद्वास्तोष्पतिं बुधः
ghaṭaṃ cāvāhya vāyavyāṃ gaṇānāṃ tveti sadgaṇam / devamīśānakoṇe tu japedvāstoṣpatiṃ budhaḥ
1.48.34
वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये । कुम्भस्य पूर्वतो भूतं गणदेवं बलिं हरेत्
vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye / kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret
1.48.35
पठेदिति च विद्याश्च कुर्यादालम्भनं बुधः । योगेयोगेति मन्त्रेणास्तरणं शाद्वलैः कुशैः
paṭhediti ca vidyāśca kuryādālambhanaṃ budhaḥ / yogeyogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ
1.48.36
ऋत्विग्भिः सार्धमाचार्यः स्नानपीठे गुरुस्तदा । विविधैर्ब्रह्मघोषैश्च पुण्याहजयमङ्गलैः
ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā / vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ
1.48.37
कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः । ऐशान्यामानयेत्पीठमण्डपे विन्यसेद्गुरुः
kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ / aiśānyāmānayetpīṭhamaṇḍape vinyasedguruḥ
1.48.38
भद्रङ्कर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु । संस्नाप्य लक्षणोद्धारं कुर्यात्तूर्यादि (दूराभि) वादनैः
bhadraṅkarṇetyatha snātvā sūtravalkalajena tu / saṃsnāpya lakṣaṇoddhāraṃ kuryāttūryādi (dūrābhi) vādanaiḥ
1.48.39
मधुसर्पिः समायुक्तं कांस्ये वा ताम्रभाजने । अक्षिणी चाञ्जयेच्चास्य सुवर्णस्य शलाकया
madhusarpiḥ samāyuktaṃ kāṃsye vā tāmrabhājane / akṣiṇī cāñjayeccāsya suvarṇasya śalākayā
1.48.40
अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत् । लक्षणे क्रियमाणे तु नामैकं स्थापको व(द) देत्
agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet / lakṣaṇe kriyamāṇe tu nāmaikaṃ sthāpako va(da) det
1.48.41
इमंमेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया । अग्निर्मूर्धेति मन्त्रेण दद्याद्वल्मी कमृत्तिकाम्
imaṃmegaṅgemantreṇa netrayoḥ śītalakriyā / agnirmūrdheti mantreṇa dadyādvalmī kamṛttikām
1.48.42
बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च । यज्ञायज्ञेति मन्त्रेण दद्यात्पञ्चकषायकम्
bilvodumbaramaśvatthaṃ vaṭaṃ pālāśameva ca / yajñāyajñeti mantreṇa dadyātpañcakaṣāyakam
1.48.43
पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः । सहदेवी बला चैव शतमूली शतावरी
pañcagavyaṃ snāpayecca sahadevyādi bhistataḥ / sahadevī balā caiva śatamūlī śatāvarī
1.48.44
कुमारी च गुडूची च सिंही व्याघ्री तथैव च । या ओषधीति मन्त्रेण स्नानमोषधिमज्जलैः
kumārī ca guḍūcī ca siṃhī vyāghrī tathaiva ca / yā oṣadhīti mantreṇa snānamoṣadhimajjalaiḥ
1.48.45
याः फलिनीति मन्त्रेण फलस्नानं विधीयते । द्रुपदादिवेति मन्त्रेण कार्यमुद्वर्तनं बुधैः
yāḥ phalinīti mantreṇa phalasnānaṃ vidhīyate / drupadādiveti mantreṇa kāryamudvartanaṃ budhaiḥ
1.48.46
कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात् । रत्नानि चैव धान्यानि ओषधीं शतपुष्पिकाम्
kalaśeṣu ca vinyasya uttarādiṣvanukramāt / ratnāni caiva dhānyāni oṣadhīṃ śatapuṣpikām
1.48.47
समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः । क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुनः
samudrāṃścaiva vinyasya caturaścaturo diśaḥ / kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ
1.48.48
आप्यायस्व दधिक्राव्णो या औषधीरितीति च । तेजो ऽसीति च मन्त्रैश्च कुम्भं चैवाभिमन्त्रयेत्
āpyāyasva dadhikrāvṇo yā auṣadhīritīti ca / tejo 'sīti ca mantraiśca kumbhaṃ caivābhimantrayet
1.48.49
समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः । स्नातश्चैव सुवेषश्च धूपो देयश्च गुग्गुलुः
samudrākhyaiścaturbhiśca snāpayetkalaśaiḥ punaḥ / snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ
1.48.50
अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत् । पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा
abhiṣekāya kumbheṣu tattattīrthāni vinyaset / pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā
1.48.51
या ओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत् । तेन तोयेन यः स्नायात्स मुच्येत्सर्वपातकैः
yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet / tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ
1.48.52
अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः । गन्धद्वारेति गन्धं च न्यासं वै वेदमन्त्रकैः
abhiṣicya samudraiśca tvarghyaṃ dadyāttataḥ punaḥ / gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ
1.48.53
स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम् । कविहाविति मन्त्रेण आनयेन्मण्डपं शुभम्
svaśāstravihitaiḥ prāptairyuvaṃvastreti vastrakam / kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham
1.48.54
शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत् । विश्वतश्चक्षुर्मन्त्रेण कुर्यात्सकलनिष्कलम्
śambhavāyeti mantreṇa śayyāyāṃ viniveśayet / viśvataścakṣurmantreṇa kuryātsakalaniṣkalam
1.48.55
स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत् । स्वशास्त्रविहितो मन्त्रो न्यासस्तस्मिंस्तथोदितः
sthitvā caiva pare tattve mantranyāsaṃ tu kārayet / svaśāstravihito mantro nyāsastasmiṃstathoditaḥ
1.48.56
वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः । यथाशास्त्रं निवेद्यानि पादमूले तु दापयेत्
vastreṇācchādayitvā tu pūjanīyaḥ svabhāvataḥ / yathāśāstraṃ nivedyāni pādamūle tu dāpayet
1.48.57
अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम् । कलशं सहिरण्यं च शिरः स्थाने निवेदयेत्
atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam / kalaśaṃ sahiraṇyaṃ ca śiraḥ sthāne nivedayet
1.48.58
स्थित्वा कुण्डसमीपे ऽथ अग्नेः स्थापनमाचरेत् । स्वशास्त्रविहितैर्मन्त्रैर्वेदोक्तैर्वाथ वा गुरुः
sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret / svaśāstravihitairmantrairvedoktairvātha vā guruḥ
1.48.59
श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम् । वृषाकपिं च मित्रं बह्वचः पूर्वतो जपेत्
śrīsūktaṃ pāvamānyaṃ ca vāsadāmyasavājinam / vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet
1.48.60
रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् । ब्रह्माणं पितृमैत्रं च अध्वर्युर्दक्षिणे जपेत्
rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam / brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet
1.48.61
वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम् । भेरुण्डानि च सामानि छन्दोगः पश्चिमे जपेत्
vedavrataṃ vāmadevyaṃ jyeṣṭhasāma rathantaram / bheruṇḍāni ca sāmāni chandogaḥ paścime japet
1.48.62
अथर्वशिरसं चैव कुम्भसूक्तमथर्वणः । नीलरुद्रांश्च मैत्रं च अथर्वश्चोत्तरे जपेत्
atharvaśirasaṃ caiva kumbhasūktamatharvaṇaḥ / nīlarudrāṃśca maitraṃ ca atharvaścottare japet
1.48.63
कुण्डं चास्त्रेण संप्रोक्ष्य आचार्यस्तु विशेषतः । ताम्रपात्रे शरावे वा यथाविभवतो ऽपि वा
kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ / tāmrapātre śarāve vā yathāvibhavato 'pi vā
1.48.64
जातवेदसमानीय अग्रतस्तं निवेशयेत् । अस्त्रेण ज्वालयेद्वह्निं कवचेन तु वेष्टयेत्
jātavedasamānīya agratastaṃ niveśayet / astreṇa jvālayedvahniṃ kavacena tu veṣṭayet
1.48.65
अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः । पात्रं गृह्य कराभ्यां च कुण्डं भ्राम्य ततः पुनः
amṛtīkṛtya taṃ paścānmantraiḥ sarvaiśca deśikaḥ / pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ
1.48.66
वैष्णवेन तु योगेन परं तेजस्तु निः क्षिपेत् । दक्षिणे स्थापयेद्ब्रह्म प्रणीताञ्चोत्तरेण तु
vaiṣṇavena tu yogena paraṃ tejastu niḥ kṣipet / dakṣiṇe sthāpayedbrahma praṇītāñcottareṇa tu
1.48.67
साधारणेन मन्त्रेण स्वसूत्रविहितेन वा । दिक्षुदिक्षु ततो दद्यात्परिधिं विष्टरैः सह
sādhāraṇena mantreṇa svasūtravihitena vā / dikṣudikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha
1.48.68
ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु । दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितम्
brahmaviṣṇuhareśānāḥ pūjyāḥ sādhāraṇena tu / darbheṣu sthāpayedvahniṃ darbhaiśca pariveṣṭitam
1.48.69
दर्भतोयेन संस्पृष्टो मन्त्रहीनो ऽपि शुध्यति । प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखण्डितैः
darbhatoyena saṃspṛṣṭo mantrahīno 'pi śudhyati / prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ
1.48.70
विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत् । अग्नेस्तु रक्षणार्थाय यदुक्तं कर्म न्त्रवित्
vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet / agnestu rakṣaṇārthāya yaduktaṃ karma ntravit
1.48.71
आचार्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम् । पवित्रं तु ततः कृत्वा कुर्यादाज्यस्य संस्कृतिम्
ācāryāḥ kecidicchanti jātakarmādyanantaram / pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim
1.48.72
आचार्यो ऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम् । आज्यभागाभिघारान्तमवेक्षेताज्यसिद्धये
ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam / ājyabhāgābhighārāntamavekṣetājyasiddhaye
1.48.73
पञ्चपञ्चाहुतीर्हुत्वा आज्येन तदनन्तरम् । गर्भाधानादितस्तावद्यावद्गौदानिकं भवेत्
pañcapañcāhutīrhutvā ājyena tadanantaram / garbhādhānāditastāvadyāvadgaudānikaṃ bhavet
1.48.74
स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत् । ततः पूर्णाहुतिं दत्त्वा पूर्णात्पूर्णमनारेथः
svaśāstravihitairmantraiḥ praṇavenātha homayet / tataḥ pūrṇāhutiṃ dattvā pūrṇātpūrṇamanārethaḥ
1.48.75
एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः । पूजयित्वा ततो वह्निं कुण्डेषु विहरेत्तथा
evamutpādito vahniḥ sarvakarmasu siddhidaḥ / pūjayitvā tato vahniṃ kuṇḍeṣu viharettathā
1.48.76
इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतंशतम् । पुर्णाहुतिं शतस्यान्ते सर्वेषां चैव होमयेत्
indrādīnāṃ svamantraiśca tathāhutiśataṃśatam / purṇāhutiṃ śatasyānte sarveṣāṃ caiva homayet
1.48.77
स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत् । देवताश्चैव मन्त्रांश्च तथैव जातवेदसम्
svāmāhutimathājyeṣu hotā tatkalaśe nyaset / devatāścaiva mantrāṃśca tathaiva jātavedasam
1.48.78
आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत् । निष्कृष्य बहिराचार्यो दिक्पालानां बलिं हरेत्
ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet / niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret
1.48.79
भूतानां चैव देवानां नागानां च प्रयोगतः । तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम्
bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ / tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam
1.48.80
आज्यं तयोः सहकारि तत्प्रधानं यदङ्क(क्ष)योः । परुषसुक्तं पूर्वेणैव रुद्रचैव तु दक्षिणे
ājyaṃ tayoḥ sahakāri tatpradhānaṃ yadaṅka(kṣa)yoḥ / paruṣasuktaṃ pūrveṇaiva rudracaiva tu dakṣiṇe
1.48.81
ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे । नीलरुद्रो महामन्त्रः कुम्भसूक्तमथर्वणः
jyeṣṭhasāma ca bhāruṇḍaṃ tannayāmīti paścime / nīlarudro mahāmantraḥ kumbhasūktamatharvaṇaḥ
1.48.82
हुत्वा सहस्रमेकैकं देवं शिरसि कल्पयेत् । एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुनः
hutvā sahasramekaikaṃ devaṃ śirasi kalpayet / evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ
1.48.83
शिरः स्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात् । वेदानामादिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः
śiraḥ sthāneṣu juhuyādāviśeccāpyanukramāt / vedānāmādimantrairvā mantrairvā devanāmabhiḥ
1.48.84
स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः । गायत्त्र्या वाथवाचार्यो व्याहृतिप्रणवेन तु
svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ / gāyattryā vāthavācāryo vyāhṛtipraṇavena tu
1.48.85
एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः । चरणावग्निमीऌए तु इषेत्वो गुल्फयोः स्थिताः
evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ / caraṇāvagnimīḷe tu iṣetvo gulphayoḥ sthitāḥ
1.48.86
अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी । बृहद्रथन्तरे ऊरू उदरेष्वातिलो (स्वातिनो) न्यसेत्
agna āyāhi jaṅghe dve śannodevīti jānunī / bṛhadrathantare ūrū udareṣvātilo (svātino) nyaset
1.48.87
दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत् । त्रातारमिन्द्रमुरसि नेत्राभ्यां तु त्रियम्बकम्
dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset / trātāramindramurasi netrābhyāṃ tu triyambakam
1.48.88
मूर्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत् । उत्था पयेत्ततो देवमुत्तिष्ठब्रह्मणस्पते !
mūrdhābhava tathā mūrdhni ālagnāddhomamācaret / utthā payettato devamuttiṣṭhabrahmaṇaspate !
1.48.89
वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम् । पिण्डिकालंभनं कृत्वा देवस्यत्वेति मन्त्रवित्
vedapuṇyāhaśabdena prāsādānāṃ pradakṣiṇam / piṇḍikālaṃbhanaṃ kṛtvā devasyatveti mantravit
1.48.90
दिक्पा लान्सह रत्नैश्च धातूनोषधयस्तथा । लौहबीजानि सिद्धानि पश्चाद्देवं तु विन्यसेत्
dikpā lānsaha ratnaiśca dhātūnoṣadhayastathā / lauhabījāni siddhāni paścāddevaṃ tu vinyaset
1.48.91
न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत् । ईषन्मध्यं परित्यज्य ततो दोषापहं तु तत्
na garbhe sthāpayeddevaṃ na garbhaṃ tu parityajet / īṣanmadhyaṃ parityajya tato doṣāpahaṃ tu tat
1.48.92
तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत् । ॐ स्थिरो भव शिवो भव प्रजाभ्यश्च नमोनमः
tilasya tuṣamātraṃ tu uttaraṃ kiñcidānayet / oṃ sthiro bhava śivo bhava prajābhyaśca namonamaḥ
1.48.93
देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः । तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे
devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ / tattvavarṇakalāmātraṃ prajāni bhuvanātmaje
1.48.94
षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् । सम्पातकलशेनैव स्नापयेत्सुप्रतिष्ठितम्
ṣaḍbhyo vinyasya siddhārthaṃ dhruvārthairabhimantrayet / sampātakalaśenaiva snāpayetsupratiṣṭhitam
1.48.95
दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत् । अर्घ्यं दत्त्वा नमस्कृत्य ततो देवं क्षमापयेत्
dīpadhūpasugandhaiśca naivedyaiśca prapūjayet / arghyaṃ dattvā namaskṛtya tato devaṃ kṣamāpayet
1.48.96
पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम् । ऋत्त्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तितः
pātraṃ vastrayugaṃ chatraṃ tathā divyāṅgulīyakam / ṛttvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ
1.48.97
चतुर्थौ जुहुयात्पश्चाद्यजमानः समाहितः । आहुतीनां शतं हुत्वा ततः पूर्णां प्रदापयेत्
caturthau juhuyātpaścādyajamānaḥ samāhitaḥ / āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet
1.48.98
निष्क्रम्य बहिराचार्यो दिक्पालानां बलिं हरेत् । आचार्यः पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत्
niṣkramya bahirācāryo dikpālānāṃ baliṃ haret / ācāryaḥ puṣpahastastu kṣamasveti visarjayet
1.48.99
यागान्ते कपिलां दद्यादाचार्याय च चामरम् । मुकुटं कुण्डलं छत्रं केयूरं कटिसूत्रकम्
yāgānte kapilāṃ dadyādācāryāya ca cāmaram / mukuṭaṃ kuṇḍalaṃ chatraṃ keyūraṃ kaṭisūtrakam
1.48.100
व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम् । भोजनं च महात्कुर्यात्कृतकृत्यश्च जायते । यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः
vyajanaṃ grāmavastrādīnsopaskāraṃ sumaṇḍapam / bhojanaṃ ca mahātkuryātkṛtakṛtyaśca jāyate / yajamāno vimuktaḥ syātsthāpakasya prasādataḥ
1.48.101