← Achara Khanda (Purva Khanda)
आचारखण्ड — Adhyaya 85
इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम चतुरशीतितमो ऽध्यायः श्रीगरुडमहापुराणम्- ८५ ब्रह्मोवाच । स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च । पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान्
iti śrāgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 85 brahmovāca / snātvā pretaśilādau tu varuṇāsthāmṛtena ca / piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān
1.85.1
अस्मत्कुले मृता ये च गतिर्येषां न विद्यते । आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः
asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate / āvāhayiṣyetānsarvān darbhapṛṣṭhe tilodakaiḥ
1.85.2
पितवंशे मृता ये च मातृवंशे च ये मृताः । तषामुद्धरणार्थाये इमं पिण्डे ददाम्यहम्
pitavaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ / taṣāmuddharaṇārthāye imaṃ piṇḍe dadāmyaham
1.85.3
मातामहकुले ये च गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
mātāmahakule ye ca gatiryeṣāṃ na vidyate / teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
1.85.4
अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः । तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्
ajātadantā ye kecidye ca garbhe prapīḍitāḥ / teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham
1.85.5
बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः । स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्
bandhuvargāśca ye kecinnāmagotravivarjitāḥ / svagotre paragotre vā gatiryeṣāṃ na vidyate / teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham
1.85.6
उद्बन्धनमृता ये च विषशस्त्रहताश्च ये । आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम्
udbandhanamṛtā ye ca viṣaśastrahatāśca ye / ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham
1.85.7
अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये । दंष्ट्रिभिः शृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम्
agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye / daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham
1.85.8
अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे । विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम्
agnidagdhāśca ye kecinnāgnidagdhāstathāpare / vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham
1.85.9
रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
raurave cāndhatāmistre kālasūtre ca ye gatāḥ / teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
1.85.10
असिपत्रवने घोरे कंभीपाके च ये गताः । तेषामुद्धरणार्थाय इं पिण्डं ददाम्यहम्
asipatravane ghore kaṃbhīpāke ca ye gatāḥ / teṣāmuddharaṇārthāya iṃ piṇḍaṃ dadāmyaham
1.85.11
अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम् । तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम्
anyeṣāṃ yātanā sthānāṃ pretalokanivāsinām / teṣāmuddharaṇārthāya ima piṇḍaṃ dadāmyaham
1.85.12
पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः । अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम्
puśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ / athavā vṛkṣayoni sthāstebhyaḥ piṇḍaṃ dadāmyaham
1.85.13
असंख्ययातनासंस्था ये नीता यमशासनैः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्
asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ / teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham
1.85.14
जात्यन्तरसहस्रेषु भ्रमन्ति स्वेन कर्मणा । मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम्
jātyantarasahasreṣu bhramanti svena karmaṇā / mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham
1.85.15
ये बान्धवाबान्धवा वा ये ऽन्यजन्मनि बान्धवाः । ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा
ye bāndhavābāndhavā vā ye 'nyajanmani bāndhavāḥ / te sarvetṛptimāyāntu piṇḍadānena sarvadā
1.85.16
ये केचित्प्रेतरूपेण वर्तन्ते पितरो मम । ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा
ye kecitpretarūpeṇa vartante pitaro mama / te sarve tṛptimāyāntu piṇḍadānena sarvadā
1.85.17
ये मे पितृकुले जाताः कुले मातुस्तथैव च । गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः
ye me pitṛkule jātāḥ kule mātustathaiva ca / guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ
1.85.18
ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः । क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा
ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ / kriyālo pahatā ye ca jātyandhāḥ paṅgavastathā
1.85.19
विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम । तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम्
virūpā āmagarbhāśca jñātājñātāḥ kule mama / teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām
1.85.20
साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा । मय गयां समासाद्य पितॄणां निष्कतिः कृता
sākṣiṇaḥ santu me devā brahmeśānādayastathā / maya gayāṃ samāsādya pitṝṇāṃ niṣkatiḥ kṛtā
1.85.21
आगतो ऽहं गयां देव ! पितृकार्ये गदाधर । तन्मे साक्षी भवत्वद्य अनृणो ऽहमृणत्रयात्
āgato 'haṃ gayāṃ deva ! pitṛkārye gadādhara / tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt
1.85.22
महानदी ब्रह्मसरो ऽक्षयो वटः प्रभासमुद्यन्तमहो? गयाशिरः । सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम्
mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsamudyantamaho? gayāśiraḥ / sarasvatīdharmakadhenupṛṣṭhā ete kurukṣetragatā gayāyām
1.85.23