Preta Khanda (Dharma Khanda)

प्रेतखण्ड — Adhyaya 40

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सूतककालादिनिरूपणं नामै कोनचत्वारिंशो ऽध्यायः श्रीगरुडमहापुराणम्- ४० तार्क्ष्य उवाच । भगवन्ब्राह्मणाः केचिदपमृत्युवशं गताः । कथं तेषां भवेन्मार्गः किं स्थानं का गतिर्भवेत्

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīdṛ dhadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde sūtakakālādinirūpaṇaṃ nāmai konacatvāriṃśo 'dhyāyaḥ śrīgaruḍamahāpurāṇam- 40 tārkṣya uvāca / bhagavanbrāhmaṇāḥ kecidapamṛtyuvaśaṃ gatāḥ / kathaṃ teṣāṃ bhavenmārgaḥ kiṃ sthānaṃ kā gatirbhavet

2.40.1

किञ्च युक्तं भवेत्तेषां विधानं वापि कीदृशम् । तदहं श्रोतुमिच्छामि ब्रूहि मे मधुसूदन

kiñca yuktaṃ bhavetteṣāṃ vidhānaṃ vāpi kīdṛśam / tadahaṃ śrotumicchāmi brūhi me madhusūdana

2.40.2

श्रीकृष्ण उवाच । प्रेतीभूताद्विजातीनां सम्भूते मृत्युवैकृते । तेषां मार्गगतिस्थानं विधानं कथयाम्यहम्

śrīkṛṣṇa uvāca / pretībhūtādvijātīnāṃ sambhūte mṛtyuvaikṛte / teṣāṃ mārgagatisthānaṃ vidhānaṃ kathayāmyaham

2.40.3

शृणु तार्क्ष्य परं गोप्यं जाते दुर्मरणे सति । लङ्घनैर्ये मृता विप्रा दंष्ट्रिभिश्चाभिघातिताः

śṛṇu tārkṣya paraṃ gopyaṃ jāte durmaraṇe sati / laṅghanairye mṛtā viprā daṃṣṭribhiścābhighātitāḥ

2.40.4

कण्ठग्राह विमग्नानां क्षीणानां तुण्डघातिनाम् । विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः

kaṇṭhagrāha vimagnānāṃ kṣīṇānāṃ tuṇḍaghātinām / viṣāgnivṛṣaviprebhyo viṣūcyā cātmaghātakāḥ

2.40.5

पतनोद्वन्धनजलैर्मृतानां शृणु संस्थितिम् । यान्ति ते नरकेघोरे ये च म्लेच्छादिभिर्हताः

patanodvandhanajalairmṛtānāṃ śṛṇu saṃsthitim / yānti te narakeghore ye ca mlecchādibhirhatāḥ

2.40.6

श्वशृगालादिसंस्पृष्टा अदग्धाः कृमिसंङ्कुलाः । उल्लङ्घिता मृता ये च महारोगैश्च पीडिताः

śvaśṛgālādisaṃspṛṣṭā adagdhāḥ kṛmisaṃṅkulāḥ / ullaṅghitā mṛtā ye ca mahārogaiśca pīḍitāḥ

2.40.7

अभिसस्तास्तथाव्यङ्गा ये च पापान्नपोषिताः । चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युताग्नितः

abhisastāstathāvyaṅgā ye ca pāpānnapoṣitāḥ / caṇḍālādudakātsarpādbrāhmaṇādvaidyutāgnitaḥ

2.40.8

दष्ट्रिभ्यश्च पशुभ्यश्च वृक्षादिपतनान्मृताः । उदक्यामूतकीशूद्रारजकीसङ्गदूषिताः

daṣṭribhyaśca paśubhyaśca vṛkṣādipatanānmṛtāḥ / udakyāmūtakīśūdrārajakīsaṅgadūṣitāḥ

2.40.9

तेन पापेन नरकान्मुक्ताः प्रेतत्वभागिनः । न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम्

tena pāpena narakānmuktāḥ pretatvabhāginaḥ / na teṣāṃ kārayeddāhaṃ sūtakaṃ nodakakriyām

2.40.10

न विधानं मृताद्यं च न कुर्यादौर्ध्वदैहिकम् । तेषां तार्क्ष्य प्रकुर्वीत नारायणबलिक्रियाम्

na vidhānaṃ mṛtādyaṃ ca na kuryādaurdhvadaihikam / teṣāṃ tārkṣya prakurvīta nārāyaṇabalikriyām

2.40.11

सर्वलोकहितार्थाय शृणु पापभयापहाम् । षण्मासं ब्राह्मणे दाहस्त्रिमासं क्षत्त्रिये मतः

sarvalokahitārthāya śṛṇu pāpabhayāpahām / ṣaṇmāsaṃ brāhmaṇe dāhastrimāsaṃ kṣattriye mataḥ

2.40.12

सार्ध मासं तु वैश्यस्य सद्यः शूद्रे विधीयते । गङ्गायां यमुनायाञ्च नैमिषे पुष्करे ऽथ च

sārdha māsaṃ tu vaiśyasya sadyaḥ śūdre vidhīyate / gaṅgāyāṃ yamunāyāñca naimiṣe puṣkare 'tha ca

2.40.13

तडागे जलूपूर्णे वा ह्रदे वा विमलोदके । वाप्यां कूपे गवां गोष्ठे गृहे वा प्रतिमालये

taḍāge jalūpūrṇe vā hrade vā vimalodake / vāpyāṃ kūpe gavāṃ goṣṭhe gṛhe vā pratimālaye

2.40.14

कृष्णाग्रे कारयेद्विप्र बलिं नारायणाह्वयम् । प्रेताय तर्पणं कार्यं मन्त्रैः पौराणवैदिकैः

kṛṣṇāgre kārayedvipra baliṃ nārāyaṇāhvayam / pretāya tarpaṇaṃ kāryaṃ mantraiḥ paurāṇavaidikaiḥ

2.40.15

सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् । कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि

sarvauṣadhyakṣatairmiśrairviṣṇumuddiśya tarpayet / kāryaṃ puruṣasūktena mantrairvā vaiṣṇavairapi

2.40.16

दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुरिति स्मरेत् । अनादिनिधनो देवः शङ्खचक्रगदाधरः

dakṣiṇābhimukho bhūtvā pretaṃ viṣṇuriti smaret / anādinidhano devaḥ śaṅkhacakragadādharaḥ

2.40.17

अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भवेत् । तर्पणस्यावसाने च वीतरागो विमत्सरः

avyayaḥ puṇḍarīkākṣaḥ pretamokṣaprado bhavet / tarpaṇasyāvasāne ca vītarāgo vimatsaraḥ

2.40.18

जितेन्द्रियमना भूत्वा शुचिप्मान्धर्मतत्परः । दानधर्मरतः शान्तः प्रणम्य वाग्यतः शुचिः

jitendriyamanā bhūtvā śucipmāndharmatatparaḥ / dānadharmarataḥ śāntaḥ praṇamya vāgyataḥ śuciḥ

2.40.19

यजमानो भबेत्तत्र शुचिर्वन्धुसमन्वितः । भक्त्या तत्र प्रकुर्वीत श्राद्धत्येकादशैव तु

yajamāno bhabettatra śucirvandhusamanvitaḥ / bhaktyā tatra prakurvīta śrāddhatyekādaśaiva tu

2.40.20

सर्वकर्मविपाकेन एकैकाग्रे समाहितः । तोयव्रीहियवान् षष्ट्या गोधूमांश्च प्रियङ्गुकान्

sarvakarmavipākena ekaikāgre samāhitaḥ / toyavrīhiyavān ṣaṣṭyā godhūmāṃśca priyaṅgukān

2.40.21

हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च चलेकम् । दापयेत्सर्वसस्यानि क्षीरक्षौद्रयुतानि च

haviṣyānnaṃ śubhaṃ mudrāṃ chatroṣṇīṣe ca calekam / dāpayetsarvasasyāni kṣīrakṣaudrayutāni ca

2.40.22

वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् । दापयेत्सर्वविप्रेभ्यो न कुर्यात्पङ्क्तिबन्धनम्

vastropānahasaṃyuktaṃ dadyādaṣṭavidhaṃ padam / dāpayetsarvaviprebhyo na kuryātpaṅktibandhanam

2.40.23

भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् । शङ्खपात्रे तथा ताम्रे तर्पणञ्च पृथक्पृथक्

bhūmau sthiteṣu piṇḍeṣu gandhapuṣpākṣatānvitam / śaṅkhapātre tathā tāmre tarpaṇañca pṛthakpṛthak

2.40.24

ध्यानधारणसंयुक्तो जानुभ्यामवनिं गतः । दातव्यं सर्वविप्रेभ्यो वेदशास्त्रविधानतः

dhyānadhāraṇasaṃyukto jānubhyāmavaniṃ gataḥ / dātavyaṃ sarvaviprebhyo vedaśāstravidhānataḥ

2.40.25

ऋचा वै दापयेदर्घ्यमेकोद्दिष्टे पृथक्पृथक् । आपोदेवीर्मधुमतीरादिपीठे प्रकल्पितम्

ṛcā vai dāpayedarghyamekoddiṣṭe pṛthakpṛthak / āpodevīrmadhumatīrādipīṭhe prakalpitam

2.40.26

उपयामगृहीतो ऽसि द्वितीयेर्ऽघं निवेदयेत् । येनापावकचक्षुषा तृतीये च कसल्पितम्

upayāmagṛhīto 'si dvitīyer'ghaṃ nivedayet / yenāpāvakacakṣuṣā tṛtīye ca kasalpitam

2.40.27

ये देवासश्चतुर्थे तु समुद्रं गच्छ पञ्चमे । अग्निर्ज्योति स्तथा षष्ठे हिरण्यगर्भः सप्तमे

ye devāsaścaturthe tu samudraṃ gaccha pañcame / agnirjyoti stathā ṣaṣṭhe hiraṇyagarbhaḥ saptame

2.40.28

यमाय त्वाष्टमे ज्ञेयं यज्जग्रन्नवमे तथा । तशमे याः फलिनीति पिण्डे चैकादशे ततः

yamāya tvāṣṭame jñeyaṃ yajjagrannavame tathā / taśame yāḥ phalinīti piṇḍe caikādaśe tataḥ

2.40.29

भद्रं कर्णेभिरिति च कुर्यात्पिण्डविसर्जनम् । कृत्वैकादशदेवत्यं श्राद्धं कुर्यात्परे ऽहनि

bhadraṃ karṇebhiriti ca kuryātpiṇḍavisarjanam / kṛtvaikādaśadevatyaṃ śrāddhaṃ kuryātpare 'hani

2.40.30

विप्रानावाहयेत्पञ्च चतुर्वेदविशारदान् । विद्याशीलगुणोपेतान्स्व कीयाञ्छीलसत्तमान् । अब्यङ्गान्सप्रशस्तांश्च न त् वर्ज्यान्कदाचन

viprānāvāhayetpañca caturvedaviśāradān / vidyāśīlaguṇopetānsva kīyāñchīlasattamān / abyaṅgānsapraśastāṃśca na t varjyānkadācana

2.40.31

विष्णुः स्वर्णमयः कार्यो रुदस्ताम्रमयस्तथा । ब्रह्मा रूप्यमयस्तद्वद्यमो लोहमयो भवेत्

viṣṇuḥ svarṇamayaḥ kāryo rudastāmramayastathā / brahmā rūpyamayastadvadyamo lohamayo bhavet

2.40.32

सीसकं तु भवेत्प्रेतं त्वथ वा दर्भकं तथा । शन्नोदेवीति मन्त्रेण गोविन्दं पश्चिमे न्यसेत्

sīsakaṃ tu bhavetpretaṃ tvatha vā darbhakaṃ tathā / śannodevīti mantreṇa govindaṃ paścime nyaset

2.40.33

अग्न आयाहीति रुद्रमुत्तरत्रैव विन्यसेत् । अग्निमीऌएति मन्त्रेण पूर्वेणैव प्रजापतिम्

agna āyāhīti rudramuttaratraiva vinyaset / agnimīḷeti mantreṇa pūrveṇaiva prajāpatim

2.40.34

इषेत्वोर्जोति मन्त्रेण दक्षिणे स्थापयेद्यमम् । मध्ये मण्डलकं कृत्वा स्थाप्यो दर्भमयो नरः

iṣetvorjoti mantreṇa dakṣiṇe sthāpayedyamam / madhye maṇḍalakaṃ kṛtvā sthāpyo darbhamayo naraḥ

2.40.35

ब्रह्मा विष्णुस्तथा रुद्रो यमः प्रेतश्च पञ्चमः । पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः

brahmā viṣṇustathā rudro yamaḥ pretaśca pañcamaḥ / pṛthakkumbhe tataḥ sthāpyāḥ pañcaratnasamanvitāḥ

2.40.36

वस्त्रयज्ञोपवीतानि पृथङ्मुद्रापराणि च । जपं कर्यात्पृथक्तत्र ब्रह्मादौ देवतासु च

vastrayajñopavītāni pṛthaṅmudrāparāṇi ca / japaṃ karyātpṛthaktatra brahmādau devatāsu ca

2.40.37

पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि । जलधारां ततो दद्यत्पीठेपीठे पृथक्पृथक्

pañca śrāddhāni kurvīta devatānāṃ yathāvidhi / jaladhārāṃ tato dadyatpīṭhepīṭhe pṛthakpṛthak

2.40.38

शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मये ऽपि वा । तिलोदकं समादाय सर्वौषधिसमन्वितम्

śaṅkhe vā tāmrapātre vā alābhe mṛnmaye 'pi vā / tilodakaṃ samādāya sarvauṣadhisamanvitam

2.40.39

आसनोपानहौ च्छत्रं मुद्रिका च कमण्डलुः । भाजनं भाजनाधारं वस्त्राण्यष्टविधं पदम्

āsanopānahau cchatraṃ mudrikā ca kamaṇḍaluḥ / bhājanaṃ bhājanādhāraṃ vastrāṇyaṣṭavidhaṃ padam

2.40.40

ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् । दद्याद्ब्राह्मणमुख्याय विधियुक्तं खगेश्वर

tāmrapātraṃ tilaiḥ pūrṇaṃ sahiraṇyaṃ sadakṣiṇam / dadyādbrāhmaṇamukhyāya vidhiyuktaṃ khageśvara

2.40.41

ऋग्वेदपारगे दद्याज्जातसस्यां वसुन्धराम् । यजुर्वेदमये विप्रे गाञ्च दद्यात्पयस्विनीम्

ṛgvedapārage dadyājjātasasyāṃ vasundharām / yajurvedamaye vipre gāñca dadyātpayasvinīm

2.40.42

सामगाय शिवोद्देशात्प्रदद्यात्कलधौतकम् । यमोद्देशात्तिलांल्लोहं ततो दद्याच्च दक्षिणाम्

sāmagāya śivoddeśātpradadyātkaladhautakam / yamoddeśāttilāṃllohaṃ tato dadyācca dakṣiṇām

2.40.43

पश्चात्पुत्तलकं कार्यं सर्वौषधिसमन्वितम् । पलाशस्य च वृन्तानां विभागं शृणु काश्यप

paścātputtalakaṃ kāryaṃ sarvauṣadhisamanvitam / palāśasya ca vṛntānāṃ vibhāgaṃ śṛṇu kāśyapa

2.40.44

कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् । शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तो ऽस्थिसञ्चयः

kṛṣṇājinaṃ samāstīrya kuśaiśca puruṣākṛtim / śatatrayeṇa ṣaṣṭyā ca vṛntaiḥ prokto 'sthisañcayaḥ

2.40.45

विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक् । चत्वारिंशच्छिरोदेशे ग्रीवायां दश विन्यसेत्

vinyasya tāni vṛntāni aṅgeṣveṣu pṛthakpṛthak / catvāriṃśacchirodeśe grīvāyāṃ daśa vinyaset

2.40.46

विंशत्युरः स्थले दद्याद्विंशतिं जठरे ऽपि च । बाहुयुग्मे शतं दद्यात्कटि देशे च विंशतिम्

viṃśatyuraḥ sthale dadyādviṃśatiṃ jaṭhare 'pi ca / bāhuyugme śataṃ dadyātkaṭi deśe ca viṃśatim

2.40.47

ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत् । दद्याच्चतुष्टयं शिश्रे षड् दद्याद् वृषणद्वये । दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत्

ūrudvaye śatañcāpi triṃśajjaṅghādvaye nyaset / dadyāccatuṣṭayaṃ śiśre ṣaḍ dadyād vṛṣaṇadvaye / daśa pādāṅgulībhāge evamasthīni vinyaset

2.40.48

नारिकेलं शिरः स्थाने तुम्बं दद्याच्च तालुके । पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम्

nārikelaṃ śiraḥ sthāne tumbaṃ dadyācca tāluke / pañcaratnaṃ mukhe dadyājjihvāyāṃ kadalīphalam

2.40.49

अन्त्रेषु नालकं दद्याद्बालकं प्राण एव च । वसायीं मेदकं दद्याद्गोमूत्रेण तु मूत्रकम्

antreṣu nālakaṃ dadyādbālakaṃ prāṇa eva ca / vasāyīṃ medakaṃ dadyādgomūtreṇa tu mūtrakam

2.40.50

गन्धकं धातवो देयो हरितालं मनः शिला । रेतः स्थाने पारदञ्च पुरीषे पित्तलं तथा

gandhakaṃ dhātavo deyo haritālaṃ manaḥ śilā / retaḥ sthāne pāradañca purīṣe pittalaṃ tathā

2.40.51

मनः शिलां तथा गात्रे तिलकल्कञ्च सन्धिषु । यवपिष्टं तथा मांसे मधु वै क्षौद्रमेव च

manaḥ śilāṃ tathā gātre tilakalkañca sandhiṣu / yavapiṣṭaṃ tathā māṃse madhu vai kṣaudrameva ca

2.40.52

केशेषु वै वटजटात्वचि दद्यान्मृगत्वचम् । कर्णयोस्तालपत्त्रञ्च स्तनयोश्चैव गुञ्जिकाः

keśeṣu vai vaṭajaṭātvaci dadyānmṛgatvacam / karṇayostālapattrañca stanayoścaiva guñjikāḥ

2.40.53

नासायां शतपत्त्रं च कमलं नाभिमण्डले । वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम्

nāsāyāṃ śatapattraṃ ca kamalaṃ nābhimaṇḍale / vṛntākaṃ vṛṣaṇadvandve liṅge syādgṛñjanaṃ śubham

2.40.54

घृतं नाभ्यां प्रदेयं स्यात्कौपीने च त्रपु स्मृतम् । मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेन विलेपनम्

ghṛtaṃ nābhyāṃ pradeyaṃ syātkaupīne ca trapu smṛtam / mauktikaṃ stanayormūrdhni kuṅkumena vilepanam

2.40.55

कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः । परिधानं पट्टसूत्रं हृदये रुक्मकं न्यसेत्

karpūrāgurudhūpaiśca śubhairmālyaiḥ sugandhibhiḥ / paridhānaṃ paṭṭasūtraṃ hṛdaye rukmakaṃ nyaset

2.40.56

ऋद्धिवृद्धी भुजौ द्वौ च चक्षुषोश्च कपर्दकौ । सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकैः

ṛddhivṛddhī bhujau dvau ca cakṣuṣośca kapardakau / sindūraṃ netrakoṇe ca tāmbūlādyupahārakaiḥ

2.40.57

सर्वौषधियुतं प्रेतं कृत्वा पूजा यथोदिता । साग्निके (कैश्चा) चापि विधिना यज्ञपात्रं न्यसेत्क्रमात्

sarvauṣadhiyutaṃ pretaṃ kṛtvā pūjā yathoditā / sāgnike (kaiścā) cāpi vidhinā yajñapātraṃ nyasetkramāt

2.40.58

शिरोमे श्रीरिति ऋचा पुनन्तु वरुणेति च । प्रेतस्य पावनं कृत्वा शालिशालशिलोदकैः

śirome śrīriti ṛcā punantu varuṇeti ca / pretasya pāvanaṃ kṛtvā śāliśālaśilodakaiḥ

2.40.59

विष्णुमुद्दिश्य दातव्या सुशीलागौः पयस्विनी

viṣṇumuddiśya dātavyā suśīlāgauḥ payasvinī

2.40.60

(तिला लोहं हिरण्यं च कार्पासं लवणं तथा । सप्तधान्यं क्षितिर्गाव एकैकं पानं समृतम्

(tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā / saptadhānyaṃ kṣitirgāva ekaikaṃ pānaṃ samṛtam

2.40.61

तिलपात्रं ततो दत्त्वा पददानं तथैव च ॥ गर्प्_२,४०।६१*१ ॥ महादानानि देयानि तिलपात्रं तथेति च । ततो वैतरणी देया सर्वाभरणभूषिता

tilapātraṃ tato dattvā padadānaṃ tathaiva ca // garp_2,40.61*1 // mahādānāni deyāni tilapātraṃ tatheti ca / tato vaitaraṇī deyā sarvābharaṇabhūṣitā

2.40.62

कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थ मात्मवान् । प्रेतंमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्य च

kartavyaṃ vaiṣṇavaṃ śrāddhaṃ pretamuktyartha mātmavān / pretaṃmokṣaṃ tataḥ kuryāddhṛdi viṣṇuṃ prakalpya ca

2.40.63

ॐ विष्णुरिति संस्मृत्य प्रेतं तन्मृत्युमेव च । अग्निदाहं ततः कुर्यात्सूतकन्तु दिनत्रयम्

oṃ viṣṇuriti saṃsmṛtya pretaṃ tanmṛtyumeva ca / agnidāhaṃ tataḥ kuryātsūtakantu dinatrayam

2.40.64

दशाहकर्त्रा पिण्डाश्च कर्तव्याः प्रेतभुक्तये । सर्वं वर्षविधिं कुर्यादेवं प्रेतश्च मुक्तिभाक्

daśāhakartrā piṇḍāśca kartavyāḥ pretabhuktaye / sarvaṃ varṣavidhiṃ kuryādevaṃ pretaśca muktibhāk

2.40.65

2.392.41