Vishnu Purana · Amsha 3 · Adhyaya 10

सगर उवाच

कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास् तथा । पुंसः क्रियाम् अहं श्रोतुम् इच्छामि द्विजसत्तम

kathitaṃ cāturāśramyaṃ cāturvarṇyakriyās tathā / puṃsaḥ kriyām ahaṃ śrotum icchāmi dvijasattama

3.10.1

नित्यां नैमित्तिकीं काम्यां क्रियां पुंसाम् अशेषतः । समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्य् असि मे मतः

nityāṃ naimittikīṃ kāmyāṃ kriyāṃ puṃsām aśeṣataḥ / samākhyāhi bhṛguśreṣṭha sarvajño hy asi me mataḥ

3.10.2

और्व उवाच

यद् एतद् उक्तं भवता नित्यनैमित्तिकाश्रितम् । तद् अहं कथयिष्यामि शृणुष्वैकमना नृप

yad etad uktaṃ bhavatā nityanaimittikāśritam / tad ahaṃ kathayiṣyāmi śṛṇuṣvaikamanā nṛpa

3.10.3

जातस्य जातकर्मादि क्रियाकाण्डम् अशेषतः । पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम्

jātasya jātakarmādi kriyākāṇḍam aśeṣataḥ / putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam

3.10.4

युग्मांस् तु प्राङ्मुखान् विप्रान् भोजयेन् मनुजेश्वर । यथावृत्ति तथा कुर्याद् दैवं पित्र्यं द्विजन्मनाम्

yugmāṃs tu prāṅmukhān viprān bhojayen manujeśvara / yathāvṛtti tathā kuryād daivaṃ pitryaṃ dvijanmanām

3.10.5

दध्ना यवैः सबदरैर् मिश्रान् पिण्डान् मुदा युतः । नान्दीमुखेभ्यस् तीर्थेन दद्याद् दैवेन पार्थिव

dadhnā yavaiḥ sabadarair miśrān piṇḍān mudā yutaḥ / nāndīmukhebhyas tīrthena dadyād daivena pārthiva

3.10.6

प्राजापत्येन वा सर्वम् उपचारं प्रदक्षिणम् । कुर्वीत तत् तथाशेषवृद्धिकालेषु भूपते

prājāpatyena vā sarvam upacāraṃ pradakṣiṇam / kurvīta tat tathāśeṣavṛddhikāleṣu bhūpate

3.10.7

ततश् च नाम कुर्वीत पितैव दशमे ऽहनि । देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम्

tataś ca nāma kurvīta pitaiva daśame 'hani / devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam

3.10.8

शर्मेति ब्राह्मणस्योक्तं वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः

śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam / guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ

3.10.9

नार्थहीनं न चाशस्तं नापशब्दयुतं तथा । नामङ्गल्यं जुगुप्स्यं वा नाम कुर्यात् समाक्षरम्

nārthahīnaṃ na cāśastaṃ nāpaśabdayutaṃ tathā / nāmaṅgalyaṃ jugupsyaṃ vā nāma kuryāt samākṣaram

3.10.10

नातिदीर्घं न ह्रस्वं वा नातिगुर्वक्षरान्वितम् । सुखोच्चार्यं तु तन् नाम कुर्याद् यत् प्रवणाक्षरम्

nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam / sukhoccāryaṃ tu tan nāma kuryād yat pravaṇākṣaram

3.10.11

ततो ऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि । यथोक्तं विधिम् आश्रित्य कुर्याद् विद्यापरिग्रहम्

tato 'nantarasaṃskārasaṃskṛto guruveśmani / yathoktaṃ vidhim āśritya kuryād vidyāparigraham

3.10.12

गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यम् इच्छन् भूपाल कुर्याद् दारपरिग्रहम्

gṛhītavidyo gurave dattvā ca gurudakṣiṇām / gārhasthyam icchan bhūpāla kuryād dāraparigraham

3.10.13

ब्रह्मचर्येण वा कालं कुर्यात् संकल्पपूर्वकम् । गुरोः शुश्रूषणं कुर्यात् तत्पुत्रादेर् अथापि वा

brahmacaryeṇa vā kālaṃ kuryāt saṃkalpapūrvakam / guroḥ śuśrūṣaṇaṃ kuryāt tatputrāder athāpi vā

3.10.14

वैखानसो वापि भवेत् परिव्राड् अथवेच्छया । पूर्वसंकल्पितं यादृक् तादृक् कुर्यान् महीपते

vaikhānaso vāpi bhavet parivrāḍ athavecchayā / pūrvasaṃkalpitaṃ yādṛk tādṛk kuryān mahīpate

3.10.15

वर्षैर् एकगुणां भार्याम् उद्वहेत् त्रिगुणः स्वयम् । नातिकेशाम् अकेशां वा नातिकृष्णां न पिङ्गलाम्

varṣair ekaguṇāṃ bhāryām udvahet triguṇaḥ svayam / nātikeśām akeśāṃ vā nātikṛṣṇāṃ na piṅgalām

3.10.16

निसर्गतो विकलाङ्गीम् अधिकाङ्गीं च नोद्वहेत् । नाविशुद्धां सरोमां वा ऽकुलजां वातिरोगिणीम्

nisargato vikalāṅgīm adhikāṅgīṃ ca nodvahet / nāviśuddhāṃ saromāṃ vā 'kulajāṃ vātirogiṇīm

3.10.17

न दुष्टां दुष्टवाचालां व्यङ्गिनीं पितृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम्

na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ / na śmaśruvyañjanavatīṃ na caiva puruṣākṛtim

3.10.18

न घर्घरस्वरां क्षामवाक्यां काकस्वरां न च । नातिबद्धेक्षणां तद्वद् वृत्ताक्षीं नोद्वहेत् स्त्रियम्

na ghargharasvarāṃ kṣāmavākyāṃ kākasvarāṃ na ca / nātibaddhekṣaṇāṃ tadvad vṛttākṣīṃ nodvahet striyam

3.10.19

यस्याश् च लोमशे जङ्घे गुल्फौ यस्यास् तथोन्नतौ । कूपो यस्या हसन्त्याश् च गण्डयोस् तां च नोद्वहेत्

yasyāś ca lomaśe jaṅghe gulphau yasyās tathonnatau / kūpo yasyā hasantyāś ca gaṇḍayos tāṃ ca nodvahet

3.10.20

नातिरूक्षच्छविं पाण्डुकरजाम् अरुणेक्षणाम् । आपीनहस्तपादां च न कन्याम् उद्वहेद् बुधः

nātirūkṣacchaviṃ pāṇḍukarajām aruṇekṣaṇām / āpīnahastapādāṃ ca na kanyām udvahed budhaḥ

3.10.21

न वामनां नातिदीर्घां नोद्वहेत् संहतभ्रुवम् । न चातिच्छिद्रदशनां न करालमुखीं नरः

na vāmanāṃ nātidīrghāṃ nodvahet saṃhatabhruvam / na cāticchidradaśanāṃ na karālamukhīṃ naraḥ

3.10.22

पञ्चमीं मातृपक्षाच् च पितृपक्षाच् च सप्तमीम् । गृहस्थस् तूद्वहेत् कन्यां न्याय्येन विधिना नृप

pañcamīṃ mātṛpakṣāc ca pitṛpakṣāc ca saptamīm / gṛhasthas tūdvahet kanyāṃ nyāyyena vidhinā nṛpa

3.10.23

ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः । गान्धर्वराक्षसौ चान्यौ पैशाचश् चाष्टमो ऽधमः

brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ / gāndharvarākṣasau cānyau paiśācaś cāṣṭamo 'dhamaḥ

3.10.24

एतेषां यस्य यो धर्मो वर्णस्योक्तो महर्षिभिः । कुर्वीत दाराहरणं तेनान्यं परिवर्जयेत्

eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ / kurvīta dārāharaṇaṃ tenānyaṃ parivarjayet

3.10.25

सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस् तया । समुद्वहेद् ददात्य् एतत् सम्यगूढं महाफलम्

sadharmacāriṇīṃ prāpya gārhasthyaṃ sahitas tayā / samudvahed dadāty etat samyagūḍhaṃ mahāphalam

3.10.26

Adhyaya 9Adhyaya 11