Vishnu Purana · Amsha 3 · Adhyaya 12
और्व उवाच —
देवगोब्राह्मणान् सिद्धवृद्धाचार्यांस् तथार्चयेत् । द्विकालं च नमेत् संध्याम् अग्नीन् उपचरेत् तथा
devagobrāhmaṇān siddhavṛddhācāryāṃs tathārcayet / dvikālaṃ ca namet saṃdhyām agnīn upacaret tathā
3.12.1
सदानुपहते वस्त्रे प्रशस्ताश् च तथौषधीः । गारुडानि च रत्नानि बिभृयात् प्रयतो नरः
sadānupahate vastre praśastāś ca tathauṣadhīḥ / gāruḍāni ca ratnāni bibhṛyāt prayato naraḥ
3.12.2
प्रस्निग्धामलकेशश् च सुगन्धश् चारुवेषधृक् । सिताः सुमनसो हृद्या बिभृयाच् च नरः सदा
prasnigdhāmalakeśaś ca sugandhaś cāruveṣadhṛk / sitāḥ sumanaso hṛdyā bibhṛyāc ca naraḥ sadā
3.12.3
किंचित् परस्वं न हरेन् नाल्पम् अप्य् अप्रियं वदेत् । प्रियं च नानृतं ब्रूयान् नान्यदोषान् उदीरयेत्
kiṃcit parasvaṃ na haren nālpam apy apriyaṃ vadet / priyaṃ ca nānṛtaṃ brūyān nānyadoṣān udīrayet
3.12.4
नान्यस्त्रियं तथा वैरं रोचयेत् पुरुषेश्वर । न दुष्टयानम् आरोहेत् कूलच्छायां न संश्रयेत्
nānyastriyaṃ tathā vairaṃ rocayet puruṣeśvara / na duṣṭayānam ārohet kūlacchāyāṃ na saṃśrayet
3.12.5
विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः । बन्धकीबन्धकीभर्तृक्षुद्रानृतकथैः सह
vidviṣṭapatitonmattabahuvairādikīṭakaiḥ / bandhakībandhakībhartṛkṣudrānṛtakathaiḥ saha
3.12.6
तथातिव्ययशीलैश् च परिवादरतैः शठैः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आश्रयेत्
tathātivyayaśīlaiś ca parivādarataiḥ śaṭhaiḥ / budho maitrīṃ na kurvīta naikaḥ panthānam āśrayet
3.12.7
नावगाहेज् जलौघस्य वेगम् अग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं तरोः
nāvagāhej jalaughasya vegam agre nareśvara / pradīptaṃ veśma na viśen nārohec chikharaṃ taroḥ
3.12.8
न कुर्याद् दन्तसंघर्षं न कुष्णीयाच् च नासिकाम् । नासंवृतमुखो जृम्भेच् श्वासकासौ च वर्जयेत्
na kuryād dantasaṃgharṣaṃ na kuṣṇīyāc ca nāsikām / nāsaṃvṛtamukho jṛmbhec śvāsakāsau ca varjayet
3.12.9
नोच्चैर् हसेत् सशब्दं च न मुञ्चेत् पवनं बुधः । नखान् न खादयेच् छिन्द्यान् न तृणं न महीं लिखेत्
noccair haset saśabdaṃ ca na muñcet pavanaṃ budhaḥ / nakhān na khādayec chindyān na tṛṇaṃ na mahīṃ likhet
3.12.10
न श्मश्रु भक्षयेल् लोष्टं न मृद् नीयाद् विचक्षणः । ज्योतींष्य् अमेध्यः शस्तानि नाभिवीक्षेत च प्रभो
na śmaśru bhakṣayel loṣṭaṃ na mṛd nīyād vicakṣaṇaḥ / jyotīṃṣy amedhyaḥ śastāni nābhivīkṣeta ca prabho
3.12.11
नग्नां परस्त्रियं चैव सूर्यं चास्तमनोदये । न हुंकुर्याच् छवं चैव शवगन्धो हि सोमजः
nagnāṃ parastriyaṃ caiva sūryaṃ cāstamanodaye / na huṃkuryāc chavaṃ caiva śavagandho hi somajaḥ
3.12.12
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च । दुष्टस्त्रीसंनिकर्षं च वर्जयेन् निशि सर्वदा
catuṣpathaṃ caityataruṃ śmaśānopavanāni ca / duṣṭastrīsaṃnikarṣaṃ ca varjayen niśi sarvadā
3.12.13
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद् बुधः । नैकः शून्याटवीं गच्छेन् न च शून्यगृहे वसेत्
pūjyadevadvijajyotiśchāyāṃ nātikramed budhaḥ / naikaḥ śūnyāṭavīṃ gacchen na ca śūnyagṛhe vaset
3.12.14
केशास्थिकण्टकामेध्यबलिभस्मतुषांस् तथा । स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत्
keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃs tathā / snānārdradharaṇīṃ caiva dūrataḥ parivarjayet
3.12.15
नानार्यान् आश्रयेत् कांश्चिन् न जिह्मं रोचयेद् बुधः । उपसर्पेत न व्यालांश् चिरं तिष्ठेन् न चोत्थितः
nānāryān āśrayet kāṃścin na jihmaṃ rocayed budhaḥ / upasarpeta na vyālāṃś ciraṃ tiṣṭhen na cotthitaḥ
3.12.16
अतीव जागरस्वप्ने तद्वत् स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर
atīva jāgarasvapne tadvat sthānāsane budhaḥ / na seveta tathā śayyāṃ vyāyāmaṃ ca nareśvara
3.12.17
दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत् । अवश्यायं च राजेन्द्र पुरो वातातपौ तथा
daṃṣṭriṇaḥ śṛṅgiṇaś caiva prājño dūreṇa varjayet / avaśyāyaṃ ca rājendra puro vātātapau tathā
3.12.18
न स्नायान् न स्वपेन् नग्नो न चैवोपस्पृशेद् बुधः । मुक्तकच्छश् च नाचामेद् देवाद्यर्चां च वर्जयेत्
na snāyān na svapen nagno na caivopaspṛśed budhaḥ / muktakacchaś ca nācāmed devādyarcāṃ ca varjayet
3.12.19
होमदेवार्चनाद्यासु क्रियास्व् आचमने तथा । नैकवस्त्रः प्रवर्तेत द्विजवाचनके जपे
homadevārcanādyāsu kriyāsv ācamane tathā / naikavastraḥ pravarteta dvijavācanake jape
3.12.20
नासमञ्जसशीलैस् तु सहासीत कदाचन । सद्वृत्तसंनिकर्षो हि क्षणार्धम् अपि शस्यते
nāsamañjasaśīlais tu sahāsīta kadācana / sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate
3.12.21
विरोधं नोत्तमैर् गच्छेन् नाधमैश् च सदा बुधः । विवाहश् च विवादश् च तुल्यशीलैर् नृपेष्यते
virodhaṃ nottamair gacchen nādhamaiś ca sadā budhaḥ / vivāhaś ca vivādaś ca tulyaśīlair nṛpeṣyate
3.12.22
नारभेत कलिं प्राज्ञः शुष्कवैरं च वर्जयेत् । अप्य् अल्पहानिः सोढव्या वैरेणार्थागमं त्यजेत्
nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet / apy alpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet
3.12.23
स्नातो नाङ्गानि निर्मार्जेत् स्नानशाट्या न पाणिना । न च निर्धूनयेत् केशान् नाचामेच् चैव चोत्थितः
snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā / na ca nirdhūnayet keśān nācāmec caiva cotthitaḥ
3.12.24
पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् । वीरासनं गुरोर् अग्रे भजेत विनयान्वितः
pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet / vīrāsanaṃ guror agre bhajeta vinayānvitaḥ
3.12.25
अपसव्यं न गच्छेच् च देवागारचतुष्पथान् । माङ्गल्यपूज्यांश् च ततो विपरीतान् न दक्षिणम्
apasavyaṃ na gacchec ca devāgāracatuṣpathān / māṅgalyapūjyāṃś ca tato viparītān na dakṣiṇam
3.12.26
सोमाग्न्यर्काम्बुवायूनां पूज्यानां च न संमुखम् । कुर्यात् ष्ठीवनविण्मूत्रसमुत्सर्गं च पण्डितः
somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham / kuryāt ṣṭhīvanaviṇmūtrasamutsargaṃ ca paṇḍitaḥ
3.12.27
तिष्ठन् न मूत्रयेत् तद्वत् पन्थानं नावमूत्रयेत् । श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत्
tiṣṭhan na mūtrayet tadvat panthānaṃ nāvamūtrayet / śleṣmaviṇmūtraraktāni sarvadaiva na laṅghayet
3.12.28
श्लेष्मसिंहानकोत्सर्गो नान्नकाले प्रशस्यते । बलिमङ्गलजप्यादौ न होमे न महाजने
śleṣmasiṃhānakotsargo nānnakāle praśasyate / balimaṅgalajapyādau na home na mahājane
3.12.29
योषितो नावमन्येत न चासां विश्वसेद् बुधः । न चैवेर्ष्युर् भवेत् तासु नाधिकुर्यात् कदाचन
yoṣito nāvamanyeta na cāsāṃ viśvased budhaḥ / na caiverṣyur bhavet tāsu nādhikuryāt kadācana
3.12.30
मङ्गल्यपुष्परत्नाज्यपूज्यान् अनभिवाद्य च । न निष्क्रमेद् गृहात् प्राज्ञः सदाचारपरो नृप
maṅgalyapuṣparatnājyapūjyān anabhivādya ca / na niṣkramed gṛhāt prājñaḥ sadācāraparo nṛpa
3.12.31
चतुष्पथान् नमस् कुर्यात् काले होमपरो भवेत् । दीनान् अभ्युद्धरेत् साधून् उपासीत बहुश्रुतान्
catuṣpathān namas kuryāt kāle homaparo bhavet / dīnān abhyuddharet sādhūn upāsīta bahuśrutān
3.12.32
देवर्षिपूजकः सम्यक् पितृपिण्डोदकप्रदः । सत्कर्ता चातिथीनां यः स लोकान् उत्तमान् व्रजेत्
devarṣipūjakaḥ samyak pitṛpiṇḍodakapradaḥ / satkartā cātithīnāṃ yaḥ sa lokān uttamān vrajet
3.12.33
हितं मितं प्रियं काले वश्यात्मा यो ऽभिभाषते । स याति लोकान् आह्लादहेतुभूतान् नृपाक्षयान्
hitaṃ mitaṃ priyaṃ kāle vaśyātmā yo 'bhibhāṣate / sa yāti lokān āhlādahetubhūtān nṛpākṣayān
3.12.34
धीमान् ह्रीमान् क्षमायुक्त आस्तिको विनयान्वितः । विद्याभिजनवृद्धानां याति लोकान् अनुत्तमान्
dhīmān hrīmān kṣamāyukta āstiko vinayānvitaḥ / vidyābhijanavṛddhānāṃ yāti lokān anuttamān
3.12.35
अकालगर्जितादौ तु पर्वस्व् आशौचकादिषु । अनध्यायं बुधः कुर्याद् उपरागादिके तथा
akālagarjitādau tu parvasv āśaucakādiṣu / anadhyāyaṃ budhaḥ kuryād uparāgādike tathā
3.12.36
शमं नयति यः क्रुद्धान् सर्वबन्धुर् अमत्सरी । भीताश्वासनकृत् साधुः स्वर्गस् तस्याल्पकं फलम्
śamaṃ nayati yaḥ kruddhān sarvabandhur amatsarī / bhītāśvāsanakṛt sādhuḥ svargas tasyālpakaṃ phalam
3.12.37
वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च । शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत्
varṣātapādike chatrī daṇḍī rātryaṭavīṣu ca / śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet
3.12.38
नोर्ध्वं न तिर्यग् दूरं वा निरीक्षन् पर्यटेद् बुधः । युगमात्रं महीपृष्ठं नरो गच्छेद् विलोकयन्
nordhvaṃ na tiryag dūraṃ vā nirīkṣan paryaṭed budhaḥ / yugamātraṃ mahīpṛṣṭhaṃ naro gacched vilokayan
3.12.39
दोषहेतून् अशेषांश् च वश्यात्मा यो निरस्यति । तस्य धर्मार्थकामानां हानिर् नाल्पापि जायते
doṣahetūn aśeṣāṃś ca vaśyātmā yo nirasyati / tasya dharmārthakāmānāṃ hānir nālpāpi jāyate
3.12.40
पापे ऽप्य् अपापः पुरुषे ऽप्य् अभिधत्ते प्रियाणि यः । मैत्रीद्रवान्तःकरणस् तस्य मुक्तिः करे स्थिता
pāpe 'py apāpaḥ puruṣe 'py abhidhatte priyāṇi yaḥ / maitrīdravāntaḥkaraṇas tasya muktiḥ kare sthitā
3.12.41
ये कामक्रोधलोभानां वीतरागा न गोचरे । सदाचारस्थितास् तेषाम् अनुभावैर् धृता मही
ye kāmakrodhalobhānāṃ vītarāgā na gocare / sadācārasthitās teṣām anubhāvair dhṛtā mahī
3.12.42
तस्मात् सत्यं वदेत् प्राज्ञो यत् परप्रीतिकारणम् । सत्यं यत् परदुःखाय तत्र मौनपरो भवेत्
tasmāt satyaṃ vadet prājño yat paraprītikāraṇam / satyaṃ yat paraduḥkhāya tatra maunaparo bhavet
3.12.43
प्रियम् उक्तं हितं नैतद् इति मत्वा न तद् वदेत् । श्रेयस् तत्र हितं वाक्यं यद्य् अप्य् अत्यन्तम् अप्रियम्
priyam uktaṃ hitaṃ naitad iti matvā na tad vadet / śreyas tatra hitaṃ vākyaṃ yady apy atyantam apriyam
3.12.44
प्राणिनाम् उपकाराय यद् एवेह परत्र च । कर्मणा मनसा वाचा तद् एव मतिमान् भजेत्
prāṇinām upakārāya yad eveha paratra ca / karmaṇā manasā vācā tad eva matimān bhajet
3.12.45