Vishnu Purana · Amsha 5 · Adhyaya 26

पराशर उवाच

भीष्मकः कुण्डिने राजा विदर्भविषये ऽभवत् । रुक्मी तस्याभवत् पुत्रो रुक्मिणी च वराङ्गना

bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat / rukmī tasyābhavat putro rukmiṇī ca varāṅganā

5.26.1

रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी । न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे

rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī / na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe

5.26.2

ददौ च शिशुपालाय जरासंधप्रचोदितः । भीष्मको रुक्मिणा सार्धं रुक्मिणीम् उरुविक्रमः

dadau ca śiśupālāya jarāsaṃdhapracoditaḥ / bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ

5.26.3

विवाहार्थं ततः सर्वे जरासंधमुखा नृपाः । भीष्मकस्य पुरीं जग्मुः शिशुपालप्रियैषिणः

vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ / bhīṣmakasya purīṃ jagmuḥ śiśupālapriyaiṣiṇaḥ

5.26.4

कृष्णो ऽपि बलभद्राद्यैर् यादवैर् बहुभिर् वृतः । प्रययौ कुण्डिनं द्रष्टुं विवाहं चेदिभूभृतः

kṛṣṇo 'pi balabhadrādyair yādavair bahubhir vṛtaḥ / prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ cedibhūbhṛtaḥ

5.26.5

श्वोभाविनि विवाहे तु तां कन्यां हृतवान् हरिः । विपक्षभारम् आसज्य रामाद्येष्व् अथ बन्धुषु

śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ / vipakṣabhāram āsajya rāmādyeṣv atha bandhuṣu

5.26.6

ततश् च पौण्ड्रकः श्रीमान् दन्तवक्रो विदूरथः । शिशुपालजरासंधशाल्वाद्याश् च महीभृतः

tataś ca pauṇḍrakaḥ śrīmān dantavakro vidūrathaḥ / śiśupālajarāsaṃdhaśālvādyāś ca mahībhṛtaḥ

5.26.7

कुपितास् ते हरिं हन्तुं चक्रुर् उद्योगम् उत्तमम् । निर्जिताश् च समागम्य रामाद्यैर् यदुपुंगवैः

kupitās te hariṃ hantuṃ cakrur udyogam uttamam / nirjitāś ca samāgamya rāmādyair yadupuṃgavaiḥ

5.26.8

कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् । कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णम् अभिद्रुतः

kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam / kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ

5.26.9

हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् । निर्जितः पातितश् चोर्व्यां लीलयैव स चक्रिणा

hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam / nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā

5.26.10

निर्जित्य रुक्मिणं सम्यग् उपयेमे स रुक्मिणीम् । राक्षसेन विवाहेन संप्राप्तां मधुसूदनः

nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm / rākṣasena vivāhena saṃprāptāṃ madhusūdanaḥ

5.26.11

तस्यां जज्ञे ऽथ प्रद्युम्नो मदनांशः स वीर्यवान् । जहार शम्बरो यं वै यो जघान च शम्बरम्

tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān / jahāra śambaro yaṃ vai yo jaghāna ca śambaram

5.26.12

Adhyaya 25Adhyaya 27