Vishnu Purana · Amsha 5 · Adhyaya 28
पराशर उवाच —
चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् । सुषेणं चारुगुप्तं च भद्रचारुं तथा परम्
cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān / suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathā param
5.28.1
चारुविन्दं सुचारुं च चारुं च बलिनां वरम् । रुक्मिण्य् अजनयत् पुत्रान् कन्यां चारुमतीं तथा
cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam / rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā
5.28.2
अन्याश् च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः । कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा
anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ / kālindī mitravindā ca satyā nāgnajitī tathā
5.28.3
देवी जाम्बवती चापि रोहिणी कामरूपिणी । मद्रराजसुता चान्या सुशीला शीलमण्डना
devī jāmbavatī cāpi rohiṇī kāmarūpiṇī / madrarājasutā cānyā suśīlā śīlamaṇḍanā
5.28.4
सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी । षोडशासन् सहस्राणि स्त्रीणाम् अन्यानि चक्रिणः
sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī / ṣoḍaśāsan sahasrāṇi strīṇām anyāni cakriṇaḥ
5.28.5
प्रद्युम्नो ऽपि महावीर्यो रुक्मिणस् तनयां शुभाम् । स्वयंवरस्थां जग्राह सा च तं तनयं हरेः
pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām / svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ
5.28.6
तस्याम् अस्याभवत् पुत्रो महाबलपराक्रमः । अनिरुद्धो रणे रुद्धो वीर्योदधिर् अरिंदमः
tasyām asyābhavat putro mahābalaparākramaḥ / aniruddho raṇe ruddho vīryodadhir ariṃdamaḥ
5.28.7
तस्यापि रुक्मिणः पौत्रीं वरयाम् आस केशवः । दौहित्राय ददौ रुक्मी तां स्पर्धन्न् अपि शौरिणा
tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ / dauhitrāya dadau rukmī tāṃ spardhann api śauriṇā
5.28.8
रुक्मिणो नगरं जग्मुर् नाम्ना भोजकटं द्विज ॥ विप्_५,२८।९च्द् ॥ विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः । कलिङ्गराजप्रमुखा रुक्मिणं वाक्यम् अब्रुवन्
rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvija // ViP_5,28.9cd // vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ / kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan
5.28.10
अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् । न जयामो बलं कस्माद् द्यूते नैनं महाद्युते
anakṣajño halī dyūte tathāsya vyasanaṃ mahat / na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute
5.28.11
तथेति तान् आह नृपान् रुक्मी बलसमन्वितः । सभायां सह रामेण चक्रे द्यूतं च वै तदा
tatheti tān āha nṛpān rukmī balasamanvitaḥ / sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā
5.28.12
सहस्रम् एकं निष्काणां रुक्मिणा विजितो बलः । द्वितीये ऽपि पणे चान्यत् सहस्रं रुक्मिणा जितः
sahasram ekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ / dvitīye 'pi paṇe cānyat sahasraṃ rukmiṇā jitaḥ
5.28.13
ततो दशसहस्राणि निष्काणां पणम् आददे । बलभद्रो ऽजयत् तानि रुक्मी द्यूतविदां वरः
tato daśasahasrāṇi niṣkāṇāṃ paṇam ādade / balabhadro 'jayat tāni rukmī dyūtavidāṃ varaḥ
5.28.14
ततो जहास स्वनवत् कलिङ्गाधिपतिर् द्विज । दन्तान् विदर्शयन् मूढो रुक्मी चाह मदोद्धतः
tato jahāsa svanavat kaliṅgādhipatir dvija / dantān vidarśayan mūḍho rukmī cāha madoddhataḥ
5.28.15
अविद्यो ऽयं मया द्यूते बलदेवः पराजितः । मुधैवाक्षावलेपान्धो यो ऽवमेने ऽक्षकोविदान्
avidyo 'yaṃ mayā dyūte baladevaḥ parājitaḥ / mudhaivākṣāvalepāndho yo 'vamene 'kṣakovidān
5.28.16
दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् । रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः
dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam / rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ
5.28.17
ततः कोपपरीतात्मा निष्ककोटिं हलायुधः । ग्लहं जग्राह रुक्मी च तदर्थे ऽक्षान् अपातयत्
tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ / glahaṃ jagrāha rukmī ca tadarthe 'kṣān apātayat
5.28.18
अजयद् बलदेवस् तं प्राहोच्चैस् तं जितं मया । मयेति रुक्मी प्राहोच्चैर् अलीकोक्तैर् अलं बल
ajayad baladevas taṃ prāhoccais taṃ jitaṃ mayā / mayeti rukmī prāhoccair alīkoktair alaṃ bala
5.28.19
त्वयोक्तो ऽयं ग्लहः सत्यं न मयैषो ऽनुमोदितः । एवं त्वया चेद् विजितं मया न विजितं कथम्
tvayokto 'yaṃ glahaḥ satyaṃ na mayaiṣo 'numoditaḥ / evaṃ tvayā ced vijitaṃ mayā na vijitaṃ katham
5.28.20
अथान्तरिक्षे वाग् उच्चैः प्राह गम्भीरनादिनी । बलदेवस्य तं कोपं वर्धयन्ती महात्मनः
athāntarikṣe vāg uccaiḥ prāha gambhīranādinī / baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ
5.28.21
जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा । अनुक्त्वापि वचः किंचित् कृतं भवति कर्मणा
jitaṃ balena dharmeṇa rukmiṇā bhāṣitaṃ mṛṣā / anuktvāpi vacaḥ kiṃcit kṛtaṃ bhavati karmaṇā
5.28.22
ततो बलः समुत्थाय कोपसंरक्तलोचनः । जघानाष्टापदेनैव रुक्मिणं स महाबलः
tato balaḥ samutthāya kopasaṃraktalocanaḥ / jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ
5.28.23
कलिङ्गराजं चादाय विस्फुरन्तं बलाद् बलः । बभञ्ज दन्तान् कुपितो यैः प्रकाशं जहास सः
kaliṅgarājaṃ cādāya visphurantaṃ balād balaḥ / babhañja dantān kupito yaiḥ prakāśaṃ jahāsa saḥ
5.28.24
आकृष्य च महास्तम्भं जातरूपमयं बलः । जघान ये ऽन्ये तत्पक्षाः भूभृतः कुपितो बलः
ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ / jaghāna ye 'nye tatpakṣāḥ bhūbhṛtaḥ kupito balaḥ
5.28.25
ततो हाहाकृतं सर्वं पलायनपरं द्विज । तद् राजमण्डलं सर्वं बभूव कुपिते बले
tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvija / tad rājamaṇḍalaṃ sarvaṃ babhūva kupite bale
5.28.26
बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः । नोवाच किंचिन् मैत्रेय रुक्मिणीबलयोर् भयात्
balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ / novāca kiṃcin maitreya rukmiṇībalayor bhayāt
5.28.27
ततो ऽनिरुद्धम् आदाय कृतोद्वाहं द्विजोत्तम । द्वारकाम् आजगामाथ यदुचक्रं स केशवः
tato 'niruddham ādāya kṛtodvāhaṃ dvijottama / dvārakām ājagāmātha yaducakraṃ sa keśavaḥ
5.28.28