Vishnu Purana · Amsha 5 · Adhyaya 4
पराशर उवाच —
कंसस् ततौद्विग्नमनाः प्राह सर्वान् महासुरान् । प्रलम्बकेशिप्रमुखान् आहूयासुरपुंगवान्
kaṃsas tataudvignamanāḥ prāha sarvān mahāsurān / pralambakeśipramukhān āhūyāsurapuṃgavān
5.4.1
कंस उवाच —
हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने । अरिष्टाद्यैस् तथा चान्यैः श्रूयतां वचनं मम
he pralamba mahābāho keśin dhenuka pūtane / ariṣṭādyais tathā cānyaiḥ śrūyatāṃ vacanaṃ mama
5.4.2
मां हन्तुम् अमरैर् यत्नः कृतः किल दुरात्मभिः । मद्वीर्यतापितैर् वीरा न त्व् एतान् गणयाम्य् अहम्
māṃ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ / madvīryatāpitair vīrā na tv etān gaṇayāmy aham
5.4.3
किम् इन्द्रेणाल्पवीर्येण किं हरेणैकचारिणा । हरिणा वापि किं साध्यं छिद्रेष्व् असुरघातिना
kim indreṇālpavīryeṇa kiṃ hareṇaikacāriṇā / hariṇā vāpi kiṃ sādhyaṃ chidreṣv asuraghātinā
5.4.4
किम् आदित्यैः सवसुभिर् अल्पवीर्यैः किम् अग्निभिः । किं वान्यैर् अमरैः सर्वैर् मद्बाहुबलनिर्जितैः
kim ādityaiḥ savasubhir alpavīryaiḥ kim agnibhiḥ / kiṃ vānyair amaraiḥ sarvair madbāhubalanirjitaiḥ
5.4.5
किं न दृष्टो ऽमरपतिर् मया संयुगम् एत्य सः । पृष्ठेनैव वहन् बाणान् अपागच्छन् न वक्षसा
kiṃ na dṛṣṭo 'marapatir mayā saṃyugam etya saḥ / pṛṣṭhenaiva vahan bāṇān apāgacchan na vakṣasā
5.4.6
मद्राष्ट्रे वारिता वृष्टिर् यदा शक्रेण किं तदा । मद्बाणभिन्नैर् जलदैर् आपो मुक्ता यथेप्सिताः
madrāṣṭre vāritā vṛṣṭir yadā śakreṇa kiṃ tadā / madbāṇabhinnair jaladair āpo muktā yathepsitāḥ
5.4.7
किम् उर्व्याम् अवनीपाला मद्बाहुबलभीरवः । न सर्वे सन्नतिं याता जरासंधम् ऋते गुरुम्
kim urvyām avanīpālā madbāhubalabhīravaḥ / na sarve sannatiṃ yātā jarāsaṃdham ṛte gurum
5.4.8
अमरेषु ममावज्ञा जायते दैत्यपुंगवाः । हास्यं मे जायते वीरास् तेषु यत्नपरेष्व् अपि
amareṣu mamāvajñā jāyate daityapuṃgavāḥ / hāsyaṃ me jāyate vīrās teṣu yatnapareṣv api
5.4.9
तथापि खलु दुष्टानां तेषाम् अभ्यधिकं मया । अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम्
tathāpi khalu duṣṭānāṃ teṣām abhyadhikaṃ mayā / apakārāya daityendrā yatanīyaṃ durātmanām
5.4.10
तद् ये तपस्विनः केचित् पृथिव्यां ये च यज्विनः । कार्यो देवापकाराय तेषां सर्वात्मना वधः
tad ye tapasvinaḥ kecit pṛthivyāṃ ye ca yajvinaḥ / kāryo devāpakārāya teṣāṃ sarvātmanā vadhaḥ
5.4.11
उत्पन्नश् चापि मृत्युर् मे भूतपूर्वश् च मे किल । इत्य् एतद् बालिका प्राह देवकीगर्भसंभवा
utpannaś cāpi mṛtyur me bhūtapūrvaś ca me kila / ity etad bālikā prāha devakīgarbhasaṃbhavā
5.4.12
तस्माद् बालेषु परमो यत्नः कार्यो महीतले । यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः
tasmād bāleṣu paramo yatnaḥ kāryo mahītale / yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ
5.4.13
इत्य् आज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः । मुमोच वसुदेवं च देवकीं च निरोधतः
ity ājñāpyāsurān kaṃsaḥ praviśyātmagṛhaṃ tataḥ / mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ
5.4.14
युवयोर् घातिता गर्भा वृथैवैते मयाधुना । को ऽप्य् अन्य एव नाशाय बालो मम समुद्गतः
yuvayor ghātitā garbhā vṛthaivaite mayādhunā / ko 'py anya eva nāśāya bālo mama samudgataḥ
5.4.15
तद् अलं परितापेन नूनं तद् भाविनो हि ते । अर्भका युवयोः को वा नायुषो ऽन्ते विहन्यते
tad alaṃ paritāpena nūnaṃ tad bhāvino hi te / arbhakā yuvayoḥ ko vā nāyuṣo 'nte vihanyate
5.4.16
पराशर उवाच —
इत्य् आश्वास्य विमुक्त्वा च कंसस् तौ परिशङ्कितः । अन्तर्गृहं द्विजश्रेष्ठ प्रविवेश पुनः स्वकम्
ity āśvāsya vimuktvā ca kaṃsas tau pariśaṅkitaḥ / antargṛhaṃ dvijaśreṣṭha praviveśa punaḥ svakam
5.4.17